तमाल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तमालम्, क्ली, (तम्यते काङ्क्ष्यते इति । तमु काङ्क्षा- याम् + “तमिविशिविडीति ।” उणां । १ । ११७ । इति कालन् ।) पत्रकम् । इति राजनिर्घण्टः ॥

तमालः, पुं, (तमु काङ्क्षायाम् + कालन् ।) वृक्ष- विशेषः । तत्पर्य्यायः । कालस्कन्धः २ तापिञ्छः ३ । इत्यमरः । २ । ४ । ६८ ॥ तापिञ्जः ४ । इति भरतः ॥ नीलतालः ५ तमालकः ६ नीलध्वजः ७ कालतालः ८ महाबलः ९ । (यथा, भागवते । ३ । १३ । ३३ । “तमालनीलं सितदन्तकोट्या क्ष्मामुत्क्षिपन्तं गजलीलयाङ्ग ॥”) अस्य गुणाः । मधुरत्वम् । बल्यत्वम् । वृष्यत्वम् । शिशिरत्वम् । गुरुत्वम् । कफपित्ततृषादाह- श्रमशान्तिकरत्वञ्च । इति राजनिर्घण्टः ॥ तिलकम् । (यथा, कुट्टनीमते । १६ । “यस्यामुपवनवीथ्यां तमालपत्राणि युवतिवदने च । नखरप्रहाररणितं तन्त्रीवाद्येषु सुरतकलहेषु ॥” तमालस्तापिञ्छवृक्षः युवतिवदनपक्षे तिलक- मिति ॥) खड्गः । वरुणवृक्षः । इति मेदिनी । ले, ९७ ॥ क्वष्णखदिरः । इति शब्दचन्द्रिका ॥ वृक्षभेदे वंशत्वचि च पुं क्ली । इति लिङ्गादि- संग्रहे अमरभरतौ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तमाल पुं।

तमालः

समानार्थक:कालस्कन्ध,तमाल,तापिच्छ

2।4।68।1।2

कालस्कन्धस्तमालः स्यात्तापिच्छोऽप्यथ सिन्दुके। सिन्दुवारेन्द्रसुरसौ निर्गुण्डीन्द्राणिकेत्यपि॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तमाल¦ पु॰ तम--कालन्। स्वनामख्याते वृक्षभेदे अमरः।
“तमालो मधुरो बल्यो वृष्यश्च शिशिरो गुरुः। कफ-पित्ततृषादाहश्रमश्रान्तिहरश्च सः” राजनि॰। तत्पत्राकृतित्वात्

२ तिलके

३ खड्गभेदे

४ वरुणवृक्षे चमेदि॰।

५ कृष्णखदिरे शब्दच॰

६ वंशत्वचि भरतः”।

७ पत्रके (तेजपात) राजनि॰।
“यत्तत्तालतमालशालसरलव्यालोलवल्लीलता” गङ्गास्तवः
“अनन्ततानेकतमालतालम्”
“तेनोपमीयेत तमालनीलम्” माघः।
“एकाकिन्यपि यामि सत्वरमतः स्रोतस्तमालाकुलम्” सा॰ द॰। तमालदले तु पर्य्युषितत्वदोषो नास्तियथोक्तं आ॰ त॰ योगिनीतन्त्रे
“विल्वपत्रं च माघ्यञ्चतमालामलकीदलम्। कह्लारं तुलसी चैव पद्मकंमुनिपुष्पकम्। एतत् पर्युषितं न स्यात् यच्चान्यत् कलि-कात्मकम्”। स्वार्थे क। तमालक तत्रार्थे वंशत्वचि चतमालवृक्षे पु॰ न॰ शब्दरत्ना॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तमाल¦ m. (-लः)
1. The sectarial mark made with Sandal, &c. upon the forehead.
2. The name of a tree bearing black blossoms, (Xantho-) cymus pictorios, Rox.)
3. A sword, a scymitar or large sacrificial knife.
4. A plant: see वरुण।
5. A black kind of Mimosa.
6. The bark of the bambu. n. (-लं) The leaf of the Laurus cassia. The bark or troubled, leaf of the Luarus cassia. E. तम् to be dark or troubled, Unadi affix कालन्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तमालः [tamālḥ], 1 N. of a tree with a very dark bark; तरुणतमालनीलबहलोन्नमदम्बुधराः Māl.9.18; R.13.15,49; Gīt.11.

A sectarial mark of sandal upon the forehead made with the juice of the Tamāla fruit.

A sword, scimitar.

The bark of the bamboo.

Tobacco.

Comp. पत्रम् a sectarial mark upon the forehead.

a Tamāla leaf; R.6.64.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तमाल m. " dark-barked (but white-blossomed) " Xanthochymus Pictorius MBh. Hariv. 12837 R. Sus3r. Mr2icch. etc.

तमाल m. a sort of black खदिरtree L.

तमाल m. Crataeva Roxburghii L.

तमाल m. tobacco , Siksha1p.

तमाल m. sectarial mark on the forehead (made with the juice of the तमालfruit) L.

तमाल m. a sword L.

तमाल mn. ( g. अर्धर्चा-दि)the bark of the bamboo L.

तमाल n. = -पत्रL.

तमाल n. Crataeva Roxburghii L.

तमाल n. = ताम्र-वल्लीL.

तमाल etc. See. ib. and col. 2.

"https://sa.wiktionary.org/w/index.php?title=तमाल&oldid=396953" इत्यस्माद् प्रतिप्राप्तम्