तर्क

विकिशब्दकोशः तः
Jump to navigation Jump to search

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तर्क, क दीप्तौ । इति कविकल्पद्रुमः ॥ (चुरां- परं-अकं-सेट् ।) क, तर्कयति । वितर्कणेऽप्ययम् । (अत्र सकं ।) तर्कयत्यन्यगुणं सुधीः । इति दुर्गादासः ॥

तर्कः, पुं, (तर्क + भावे घञ् ।) आकाङ्क्षा । वितर्कः । व्यभिचारशङ्कानिवर्त्तकः । इति भाषापरिच्छेदः ॥ (यथा, महाभारते । ३ । १९९ । १०८ । “शुष्कतर्कं परित्यज्य आश्रयस्व श्रुतिं स्मृतिम् ॥”) स च पञ्चविधः । यथा । आत्माश्रयः १ अन्यो- न्याश्रयः २ चक्रकः ३ अनवस्था ४ प्रमाण- वाधितार्थकः ५ । इति जगदीशः ॥ एषां लक्ष- णानि तत्तच्छब्दे द्रष्टव्यानि ॥ ऊहः । हेतु- शास्त्रम् । तत्तु मीमांसादि । इति मेदिनी । के, २५ । (यथा, मनुः । १२ । १०६ । “आर्षं धर्म्मोपदेशञ्च वेदशास्त्राविरोधिना । यस्तर्केणानुसन्धत्ते स धर्म्मं वेद नेतरः ॥” न्यायशास्त्रम् । यथा, नैषये । “यत्काव्यं मधुवर्षिधर्षितपरास्तर्केषु यस्यो- क्तयः ॥” ज्ञानम् । यथा, महाभारते । १ । १६८ । १८ । “तं वै फलार्थिनं मन्ये भ्रातरं तर्कचक्षुषा ॥” अर्थवाद इति कर्कोपाध्यायः । यथा, अक्ताः शर्करा उपदधातीति विधिः श्रूयते । तत्राञ्जन- साधनं घृतं तैलं वा तन्मध्ये केनाक्ता इति संशये तेजो वै घृतमित्यर्थवादात् घृतेनाक्ता इति निर्णीयते । अतस्तर्कोऽर्थवादः ॥”)

अमरकोशः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तर्क पुं।

तर्कः

समानार्थक:अध्याहार,तर्क,ऊह,नूनम्,हुम्

1।5।3।1।2

अध्याहारस्तर्क ऊहो विचिकित्सा तु संशयः। सन्देहद्वापरौ चाथ समौ निर्णयनिश्चयौ॥

पदार्थ-विभागः : , गुणः, बुद्धिः

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तर्क¦ दीप्तौ अक॰ आकाङ्क्षायाञ्च वितर्के सक॰ चुरा॰ उभ॰ सेट्। तर्कयति ते अतितर्कत् त
“एतत्तर्कय चक्रवाकहृदयाश्वा-साय” प्रसन्नरा॰।
“तथा तर्कयामि यथानेनाचिरप्रव्रजि-तेन भवितव्यम्” मृच्छ॰।
“दक्षिणेनाथ वामेन कतरेणस्विदस्यति। इति मां सङ्गताः सर्वे तर्कयिष्यन्तिशत्रवः” भा॰ वि॰

६१ अ॰। वि + उत्प्रेक्षायां
“तन्नूनं मृत्युमाप्स्यतीति वितर्कयामि” पञ्चत॰।

तर्क¦ पु॰ तर्क--भावे अच्।

१ आकाङ्क्षायां

२ व्यभिचारशङ्कानिव-र्त्तके ऊहभेदे अविज्ञातेऽर्थे कारणोपपत्तितस्तत्त्वज्ञानार्थेऊहे

३ व्याप्यारोपात् व्यापकप्रसञ्जने।

४ आगमा-विरोधिन्याये

५ आगमार्थपरीक्षणे

६ मीमांसारूपविचारे।

७ मानसज्ञानभेदे।

८ स्वबुद्ध्योहमात्रे
“अचिन्त्याः खलु येभावाः न तांस्तर्केण योजयेत्। नाऽप्रतिष्ठिततर्केण गम्भी-रार्थस्य निश्चयः” वेदान्तप्र॰।
“आर्षं धर्मोपदेशञ्च धर्मशा-स्त्राविरोधिना। यस्तर्केणानानुसन्धत्ते स धर्मं वेद ने-तरः” मनुः
“तर्काप्रतिष्ठानात्” शा॰ सू॰। करणे घञ्।

८ न्यायशास्त्रे
“प्रायस्तर्कमधीते तनुते कुतर्कान्निबन्धम-प्यत्र” दीधितिः
“सुहृदस्तर्काः समस्ताः स्थमे” कुल्लू॰।
“यत्काव्यं मधु वर्षिधर्षितपरास्तर्केषु यस्योक्तयः” नैष॰।
“तर्के वा मृशकर्कशे मम समं लीलायते भारती” प्रसन्नरा॰।
“गदाधरविनिर्म्मिता विषमदुर्गतर्काटवी” गदा॰

९ मीमां-साशास्त्रे

१० अर्थवादे कर्कः।
“अक्ताः शर्करा उपदधातीतिविधिः श्रूयते। तत्राञ्जनसाधनं घृतं तैलं वा तन्मध्ये के-नाक्ता इति संशये तेजो वै घृतमित्यर्थवादात् घृतेनाक्ताइति निर्णीयते। अतस्तर्कोऽर्थवादः। तर्को मीमांसेतिकल्पतरुकारः तर्कलक्षणं गौ॰ सू॰ भाष्ये उक्तंयथा
“अविज्ञाततत्त्वेऽर्थे कारणोपपत्तितस्तत्त्वज्ञा-नार्थमूहस्तर्कः” गौ॰ सू॰।
“अविज्ञायमानतत्त्वेऽर्थे जिज्ञासा तावज्जायते जानीये-ममर्थमिति, अथ जिज्ञासितस्य वस्तुनो व्याहतौ धर्भौविभागेन विमृशति किं स्विदित्यमाहो स्विन्नेत्थमितिविमृश्यमानयोर्धर्मयोरेकं कारणोपपत्त्याऽनुजानाति सम्भ-वत्यस्मिन् कारणं प्रमाणं हेतुरिति, कारणोपपत्त्यास्यादेवमेतन्नेतरदिति तत्र निदर्शनम् योऽयं ज्ञात्वा[Page3254-a+ 38] ज्ञातव्यमर्थं जानीते तञ्च भो जानीयेति जिज्ञासा,स किमुत्पत्तिधर्मकोऽनुत्पत्तिधर्मक इति विमर्शः, विमृश्य-मानेऽविज्ञाततत्त्वेऽर्थे यस्य धर्मस्याभ्यनुज्ञाकारणमुप-पद्यते तमनुजानाति, यद्ययमनुत्पत्तिधर्मकस्ततः स्वकृ-तस्य कर्मणः फलमनुभवति ज्ञाता, दुःखजन्यप्रवृत्ति-दोषमिथ्याज्ञानानामुत्तरमुत्तरं पूर्वस्य पूर्वस्य कारणमुत्तरो-त्तरापाये तदनन्तराभावादपवर्ग इति स्यातां संसाराप-वर्गौ, उत्पत्तिधर्मके ज्ञातरि पुनर्न स्याताम्, उत्पन्नः खलुज्ञाता देहेन्द्रियबुद्धिवेदनाभिः सम्बध्यत इति नास्येदंस्वकृतस्य कर्मणः फलम् उत्पन्नश्च भूत्वा न भवतीति तस्या-विद्यमानस्य निरुद्धस्य वा स्वकृतकर्मणः फलोपभोगोनास्ति, तदेवमेकस्यानेकशरीरयोगः शरीरादिवियोग-श्चात्यन्तं न स्यादिति। यत्र कारणमनुपपद्यमानं पश्यतितत्रानुजानाति, सोऽयमेवंलक्षण ऊहस्तर्क इत्युच्यते। कथं पुनरयं तत्त्वज्ञानार्थो न तत्त्वज्ञानमेवेति अनव-धारणात् अनुजानात्ययमेकतरं धर्मं कारणोपपत्त्यान त्ववधारयति न व्यवस्यति न निश्चिनोति एवमेवेद-मिति। कथं तत्त्वज्ञानार्थ इति, तत्त्वज्ञानविषयाभ्यनुज्ञा-लक्षणानुग्रहोद्भावितात् प्रसन्नादनन्तरप्रमाणसामर्य्यात्तत्त्वज्ञानमुत्पद्यत इत्येव तत्त्वज्ञानार्थ इति। सोऽयंतर्कः प्रमाणानि प्रतिसन्दधानः प्रमाणाभ्यनुज्ञानात्प्रमाणसहितो वादे उपदिष्ट इत्यविज्ञाततत्त्वमनुजाना-तीति यथा सोऽर्थो भवति तस्य यथाभावस्तत्त्वमविपर्य्यययथातथ्यम्” वात्स्यायनभाष्यम्। विश्वनाथवृत्तौ चान्यथा सूत्रमिदं व्याख्यातं यथा
“तर्क इति लक्ष्यनिर्देशः कारणोपपत्तित ऊह इतिलक्षणम् अविज्ञाततत्त्वेऽर्थे तत्त्वज्ञानार्थमिति प्रयोजन-कथनम् कारणं व्याप्यं तस्योपपत्तिरारोपस्तस्मात् ऊहआरोपः अर्थाद्व्यापकस्य, तथाच व्यापकाभाववत्त्वेननिर्णीते व्याप्यस्याहार्य्यारोपाद्योव्यापकस्याहार्य्यारोपः सतर्कः। यथा निर्वह्नित्वारोपान्निर्धूमत्वारोपः निर्वह्निःस्यान्निर्धूमः स्यादित्यादिः। ह्रदो निर्वह्निः स्यान्निर्धूमःस्यादित्यादिवारणाय व्यापकाभाववत्त्वेन निर्णीत इति। निर्वह्निः स्यात् अद्रव्यं स्यादित्यादिवारणाय व्यापस्येतितद्व्याप्यारोपाधीनस्तदारोप इत्यर्थलाभाय व्यापकेति। न चानुमानादितोऽर्थसिद्धेस्तर्कोव्यर्थ इति वाच्यम् अप्रयो-जकत्वादिशङ्काकलङ्कितेन हेतुनार्थस्य साधयितुमशक्य-त्वात्तदेतदुक्तमविज्ञाततत्त्वेऽर्थे तत्त्वज्ञानार्थमिति तत्त्व-[Page3254-b+ 38] निर्णयार्थमित्यर्थः। यत्र नाप्रयोजकत्वाद्याशङ्का तत्रनापेक्ष्य एवेति भावः। परे तु ऊह इत्येव लक्षणं ऊह-त्वञ्च मानसत्वव्याप्योजातिविशेषस्तर्कयामीत्यनुभवसिद्धः। तर्कः किं स्वत एव निर्णायकः परम्परया वेत्यत आहकारणेति कारणस्य व्याप्तिज्ञानादेरुपपादनद्वारेणेत्यर्थःतथा च धूमो यदि वह्निव्यभिचारी स्यात् वह्निजन्यो नस्यादित्यनेन व्यभिचारशङ्कानिरासे निरङ्कुशेन व्याप्ति-ज्ञानेनानुमितिरिति परस्परयैवास्योपयोग इत्याहुः। सचायं पञ्चविधः आत्माश्रयान्योन्याश्रयचक्रकानवस्थात-दन्यवाधितार्थप्रसङ्गभेदात्। स्वस्य स्वापेक्षित्वेऽनिष्टप्रसङ्गआत्माश्रयः स च उत्पत्तिस्थितिज्ञप्तिद्वारा त्रेधा यथायद्ययं घट एतद्घटजन्यः स्यात्तदैतद्घटानधिकरणक्षणोत्तर-वर्त्ती न स्यात्, यद्ययं घट एतद्घटवृत्तिः स्यात् एतद्-घटव्यापो न स्यात् यद्ययं घट एतद्घटज्ञानाभिन्नःस्यात् ज्ञानमामग्रीजन्यः स्यात् एतद्घटभिन्नः स्यादितिवा सर्वत्रापाद्यम् तदपेक्षापेक्षित्वनिबन्धनोऽनिष्टप्रसङ्गो-ऽन्योन्याश्रयः सोऽपि पूर्ववत्त्रेधा। तदपेक्ष्यापेक्ष्यापेक्षि-त्वनिबन्धनोऽनिष्टप्रसङ्गःचक्रकं चतुःकक्षादावपि स्वस्यस्वापेक्ष्यापक्ष्यापेक्षित्वसत्त्वान्नाधिक्यम्। अस्यापि पूर्वव-त्त्रैविध्यम्। अव्यवस्थितपरम्परारोपाधीनानिष्टप्रसङ्गो-ऽनवस्था यथा यदि घटत्वं घटजन्यत्वव्याप्यं स्यात् कपा-लसमवेतत्वव्याप्यं न स्यात्। तदन्यबाधितार्थप्रसङ्गस्तु धूमोयदि बह्निव्यभिचारी स्याद्वह्निजन्यो न स्यादित्यादिः। प्रथमोपस्थितत्वोत्सर्गविनिगमनाविरहलाघवगौरवादिकन्तुप्रसङ्गानात्मकत्वात् न तर्कः किन्तु प्रमाणसहकारि-त्वरूपसाधर्म्यात्तथा व्यवहार इति संक्षेपः”। तर्कगन्थे जगदीशोक्तं तर्कविभागलक्षणादिकं यथा।
“स चायं तर्कः पञ्चविधः आत्माश्रयान्योऽन्याश्रयचक्र-कानवस्थाप्रमाणबाधितार्थकप्रसङ्गभेदादित्याचार्य्याः। तत्रस्वापेक्षापादकः प्रसङ्ग आत्माश्रयः। अपेक्षा चज्ञप्तावुत्पत्तौ स्थितौ च ग्राह्या तत्राद्या, यथा एतद्घट-ज्ञानं यद्येतद्घटज्ञानजन्यं स्यादेतद्घटज्ञानभिन्नं स्यादिति। द्वितीया घटोऽयं यद्येतद्घटजनकः स्यात् एतद्घट-भिन्नः स्यादिति तृतीया चायं घटो यद्येतद्घटवृत्ति-स्यत्तथात्वेनोपलभ्येतेति स्वापेक्षापेक्षितत्वनिबन्धनःप्रसङ्गोऽन्यान्याश्रयः यथा चायं घटो यद्येतद्घटजन्यःस्यादेतद्घटभिन्नः स्वात् इति उपत्तौ स्थितौ च स्वयमुदा-हार्य्यम्। स्वापेक्षणीयापेक्षितसापेक्षत्वनिबन्धनः[Page3255-a+ 38] प्रसङ्गश्चक्रकः पूर्वोक्त एवापादके जन्यपदान्तरमन्तर्भाव्योदा-हरणम्। अपेक्षा त्वत्र साक्षात्परम्परासाधारणी ग्राह्या। अनवस्था पुनरप्रामाणिकी न तु प्रवाहमूलकप्रसङ्गः। यथा घटत्वं यदि यावद्घटहेतुवृत्ति स्यात् घटजन्य-वृत्ति न स्यादित्यर्थः। उक्तचतुष्कान्यः प्रसङ्गः प्रमाण-बाधितार्थकप्रसङ्गः सोऽपि द्विविधो व्याप्तिग्राहकोविषयपरिशोधकश्च तत्राद्यो यथा घूमो यदि वह्निव्यभिचारी स्यात्तदा वह्निजन्यो न स्यादिति द्वितीयस्तुपर्वतो यदि निर्वह्निः स्यान्निर्धूमःस्यादित्यादिः। ”( धूमादेर्व्यभिचारशङ्कानिवृत्तिद्वारा विषयस्य वह्न्यादेःनिश्चायकत्वेन परिशोधकत्वमित्यवधेयम्। सोऽयं तर्क एकादशविध इति प्राचीननैयायिकाः स्वीचक्रुःतदनुसारेण सर्व॰ स॰ उक्तम्
“स चैकादशविधः व्याघातात्मा-श्रयेतरेतराश्रयचक्रकानवस्थाप्रतिवन्दिकल्पनालाघवकल्पनागौरवोत्सर्गापवादवैजात्यभेदात्” इति व्याघातादीना-मप्रसञ्जनरूपत्वात् न तर्करूपत्वमिति किन्तु पञ्चविध-त्वमिति नव्याः। एतन्मतानुसारेणैव वृत्तौ इतरेषां मुख्य-तर्कत्वनिरासेन भाक्तर्कत्वमुक्तम् द्रष्टव्यम्। तर्कस्य च व्यभिचारशङ्कानिवर्त्तकतयानुमानाङ्गत्वं तच्चखण्डनखण्डखाद्ये निराकृतं यथा
“नापि विपक्षे वाधकस्तर्को वाच्यः तर्कस्य व्याप्तिमूलत्वा-भ्युपगमे अनवस्थाप्रसङ्गात्। तदनभ्युपगमे मूल-शैथिल्येन तर्काभासत्वापातात्। अथ ब्रूषे न शक्यमिदंवक्तुं तथा ह्यग्निधूमव्यभिचारशङ्कायां बाधकस्तर्कोऽय-मभिधीयते यदि धूमोऽग्निं व्यभिचरेदकारणकः सन्नित्यःस्यात् न स्यादेव वा स चायमनुत्तरस्तर्कः तत्र शङ्कायांव्याघातापत्तेः। तदेव ह्याशङ्क्यते यस्मिन्नाशङ्क्यमाने स्व-क्रियाव्याघातादयोदोषा नावतरन्तीति लोकमर्य्यादाएवं सर्वत्रानुत्तरस्तर्को बाघकोऽभिधेय इति चेत् मैवम्किमित्येवं शङ्कितव्यं तद्धेतुफलभाव एव न भविष्यति। एवं तु शङ्कितव्यम् अग्निं विहायान्यस्मादपि हेतोरय-मुदेष्यतीति। न च वाच्यमेवं हि सति धूमस्यैक-जातित्वं न स्यादिति क्वचिदिन्द्रियजन्यत्वे क्वचिदनु-मानादिजन्यत्वेऽपि ज्ञानैकजात्यवत्तदुपपत्तेः। तत्रे-न्द्रियादोनामवान्तरसामान्ये साक्षात्कारित्वादौ प्रयो-जकत्वं न ज्ञानतायामिति चेन्न ज्ञानत्वस्याकस्मिकत्वपरि-हारार्थं तत्कारणस्यानुगतस्य भवतावश्यं वक्तव्यत्वात्। धूमेऽपि वह्नेर्विशेष एव प्रयोजकत्वस्य तद्वच्छङ्कितुं शक्य-[Page3255-b+ 38] त्वात्। न दृश्यते तावदग्निप्रयोज्यो धूमे विशेषइति च न वाच्यम् एवं हि सति तददर्शनस्यापाततोहेत्वन्तरप्रयोज्यावान्तरजात्यदर्शनेनायोग्यतया विकल्प्यत्वादुपपत्तेः। यदा तु हेत्वन्तरप्रयोज्यो धूमस्य विशेषोद्रक्ष्यते तदासौ विकल्पिष्यत इति सम्भावनायादुर्निवा-रत्वात्। अस्त्यात्ममनोयोगोऽनुगतं कारणं ज्ञानोत्-पत्ताविति चेन्न यद्यात्ममनोयोगादुत्पद्यमानं ज्ञानंस्यादिच्छादयोऽपि ज्ञानं प्रसज्येरन्। यदि त्वदृष्टवि-शेषो वा शक्तिभेदो वा ज्ञानत्वजातिर्वा ज्ञानप्रागभावो वातत्रानुगतं कारणमुच्यते तदा तदितरत्रापि वह्नि-व्यभिचारे धूमस्यैकजात्यप्रयोजकतया शक्यत एव शङ्कि-तुम् दृष्टे व्यभिचारे युक्तमदृष्टादेरैकजात्यपरिकल्पनमितिचेत् अस्तु दृष्टे तन्निश्चयः अत्रापि व्यभिचारो न द्रक्ष्यतइत्यत्र नियामकाभावात् शङ्किष्यते एवं शङ्कमानस्यभवतो न क्वचिदनुमानं स्यादिति प्रतिवाद्यात्माद्यनुमाना-दिव्यतिरेकेण कथायामेव प्रवृत्त्यनुपपत्त्या स्वयं स्वीकर्त-व्येष्वनुमानेष्वेतादृशशङ्काक्रमणात् सएव व्याघात इतिचेन्न धूमवद्वह्नेरपि वह्निकारणविशेषानुमानस्यैव सतिसदनुमानत्वप्रसङ्गात् सामग्रीसाम्येन प्रमाऽप्रमावैचि-त्र्य्यानुपपत्तेः। साधारणधर्मदर्शनविशेषादर्शनानांसत्यपि शङ्कायाश्चानुदये सामग्र्यां सत्यामपि कार्य्यानु-दयात्परप्रतिपत्त्युत्पादानार्थं वचनादिरूपां प्रतिपत्ति-सामग्रीमुत्पादयितुं यतमानस्य भवतोऽपि स्वक्रियाव्याघातस्तुल्यः। व्याघातस्यैव विशेषत्वात् तद्दर्शनेन शङ्कासाम-ग्र्येव नास्ति प्रत्यक्षे कुतो व्याघातसाम्यमिति चेन्न तद्धिन तावत् आहार्य्यादिकारणाज्जायमानमेष्टव्यं कूट-विषयस्य तस्यातिप्रसञ्जकत्वात्। कूटभिन्नः प्रसञ्जकःप्रमितस्यैव स्यादिति चेन्न तस्य तर्कावसरे निरस्यत्वात्। तस्माद्यदैतद्व्याघातरूपस्य विशेषस्य दर्शनं शङ्काप्रतिपक्ष-भूतमुच्यते तत् किं? प्रमाणात् कुतश्चिदुपजायमानं वक्त-व्यम् तर्काद्वा। यदि प्रथमः शङ्कास्तित्वमपि तेनैव प्रमाणे-नोपेयं शङ्कायां सत्यां व्याघातात् यदि च शङ्कां विनापिव्याघातः तदा शङ्क्यमानाशङ्क्यमानयोर्व्याघातस्य साम्यंसिद्धमेव। भवतु शङ्कायामपि तत्प्रमाणं किमेतावताप्रथमोपजातशङ्कामवलम्ब्यावस्थितस्य व्याघातरूपस्य विशे-षस्य दर्शनात्तु शङ्कान्तरं नोत्पद्यत इति चेन्न व्याघात-सत्त्वकाले तदवलम्बिकया शङ्कयैव शङ्क्यमानव्यभिचारतातस्याः शङ्कायाव्युपरमे च तदवलम्बिनो व्याघातरूपस्य[Page3256-a+ 38] निशेषस्याभावात् कः शङ्कान्तरोत्पत्तेर्वारयितेति वक्तव्यममा नामास्तु तदा व्याघातात्मा विशेषस्तदवगमस्तदाहितोवा संस्कारस्तावदस्ति। विशेषावगमतत्संस्कारौ चशङ्काविरोधिनौ। ननु स्वरूपेण क्वचिदपि विशेषस्याव-स्थानं तथेति चेन्न अयावदाश्रयभाविनो विशेषस्य पूर्व-स्थितस्य यद्दर्शनं तदाहितो वा संस्कारः तस्य कालान्तरेतत्प्रतिधर्मसंशयविरोधित्वे अवयविपाकपक्षे कुम्भस्यपरमाणुपाकपक्षे परम्परया तदारम्भकस्य परमाणोःपूर्वं श्यामतया ज्ञातस्य कालान्तरे सम्भवितया कस्यपाकजन्यरूपविशेषवत्तायां संशयो न स्यात्। यदि चशङ्कायां व्याघातस्तदा शङ्काश्रयस्य विशेषरूपस्य व्याघातस्यदर्शनाच्छङ्कायां शङ्कान्तरं मा भूत्। यदि तु व्यभिचारा-श्रयस्तदा व्यभिचारः स्यादेव व्याघाताश्रयस्य व्यभिचार-स्यापि प्रमित्यापत्तेः। अनादिसिद्धव्याप्तिकास्ते तर्काइति चेन्न तद्बुद्धेः प्रमितित्वासिद्धेः शरीरे स्वात्म-प्रत्ययस्य तादृशस्यात्मप्रमात्वोपगमात् अनादित्वासिद्धे-श्चोभयत्राविशेषात्। नापि यद्यत्र व्यभिचारः शङ्क्येततदा व्याघातः स्यादित्येवं रूपात्तर्काद्व्याधातावगमःव्याघातप्रतिपादकस्य तर्कस्य मूलशथिल्ये तर्काभासत्वा-पातात् तादृशस्यापि व्याघातोपनायकत्वे व्याघातापत्तेश्चसाम्यं शक्यत एव तर्काभासाद्भवतोऽपि व्याघात उपनेतुम्। अथ तर्कस्य व्याप्तिर्मूलभूताभ्युपगम्यते तत्रापि व्यभिचार-शङ्कायां पुनरनवस्थैव तत्रापि व्याघातापादने पुनरित्य-नवस्थैव।
“तस्मादस्माभिरप्यस्मिन्नर्थे न खलु दुष्पठा। त्वद्गाथैवान्यथाकारमक्षराणि कियन्त्यपि। व्याघातोयदि शङ्कास्ति न चेच्छङ्का ततस्तराम्। व्याघाता-वधिराशङ्का तर्कः शङ्कावधिः कुतः। ” अव्यभिचार-श्चैकपरित्यागव्यवच्छेदेनापरान्वयः समकालदृष्टे नष्टे-ऽदृष्टः शङ्क्यत इत्याहुः”। तर्कस्य यथा व्याप्तिनिश्चयोपयोगिता तथा अनु॰ चि॰पूर्वपक्षीकृत्य न्यरूपि यथा
“अत्रोच्यते व्यभिचारज्ञानविरहसहकृतं सहचार-दर्शनं व्याप्तिग्राहकम् ज्ञानं च निश्चयः शङ्का च सा चक्वचिदुपाधिसन्देहात् क्वचिद्विशेषादर्शनसहितसाधा-रणधर्मदर्शनात् तद्विरहश्च क्वचिद्विपक्षबाधकतर्कात्क्वचित् स्वतः सिद्धएव। तर्कस्य व्याप्तिग्रहमूलकत्वेनानव-स्थेति चेत् न यावदाशङ्कं तर्कानुसरणात् यत्र चव्याघातेन शङ्कैव नावतरति तत्र तर्कं विनैव व्याप्तिग्रहः[Page3256-b+ 38] तथाहि घूभो यदि वह्न्यसमवहिताजन्यत्वे सतिवह्निसमवहिताजन्यः स्यान्नोत्पन्नः स्वादित्यत्र किं घूमोऽ-वह्नेरेव भविष्यति क्वचिद्वह्निं विनापि भविष्यति अहेतु-कएव वोत्पत्स्यत इति शङ्का स्यात् सर्वत्र स्वक्रियाव्या-धातः स्यात् यदि हि गृहीतान्वयव्यतिरेकं हेतुं विनाकार्य्योत्पत्तिं शङ्केत तदा स्वयमेव घूमार्थं वह्नेः, तृप्त्यर्थंभोजनस्य, परप्ररिपत्त्यर्थं शब्दस्य चोपादानं नियमतःकथं कुर्य्यात् तेन विनापि तत्सम्भवात् तस्मात्तत्तदुपादान-मेव तादृशशङ्काप्रतिबन्धकं, शङ्कायां न नियतोपादानं,नियतोपादाने च न शङ्का तदिदमुक्तं
“तदेव ह्याशङ्क्यतेयस्मिन्नाशङ्क्यमाने स्वक्रियाव्याघातो न भवतीति” नहिसम्भवति स्वयं वह्न्यादिकं धूमादिकार्य्यार्थं नियमतउपादत्ते तत् कारणं तन्नेत्याशङ्क्यते चेति एतेनव्याधातो विरोधः सच सहानवस्थाननियत इति तत्राप्य-नवस्थेति निरस्तं स्वक्रियायाएव शङ्काप्रतिबन्धकत्वात्अतएव
“व्याघातो यदि शङ्कास्ति न चेच्छङ्का ततस्तराम्। व्याधातावधिराशङ्का तर्कः शङ्कावधिः कुतः” इति खण्डन-कारमतमप्यपास्तम्। नहि व्याघातः शङ्काश्रितः किन्तुस्वक्रियैव शङ्काप्रतिबन्धिकेति न वा विशेषदर्शनात् क्कचित्शङ्कानिवृत्तिरेव स्यात् न चैतादृशतर्कावतारो भूयोदर्शनंविनेति भूयोदर्शनादरः नतु स स्वतएव प्रयोजकः अत-एव न तदाहितसंस्कारो न मानान्तरं तर्कस्याप्रमात्वात्तच्च न प्रत्यक्षं व्याप्तिज्ञाने हेतुः तदभावेऽपि शब्दानुमा-नाभ्यां तद्ग्रहात्। ननु सहचारदर्शनव्यभिचारादर्शनव-द्व्यभिचारशङ्काविरहानुकूलतर्कयोर्ज्ञानं व्यभिचारिसाधा-रणमिति न ततोऽपि व्याप्तिनिश्चयः इति चेन्न स्वरूपस-तोरेव तयोर्व्याप्तिग्राहकत्वात् सत्तर्काद्व्याप्तिप्रमा तदाभा-सात्तदप्रमा विशेषदर्शनसत्यत्वासत्यत्वाभ्यां पुरुषज्ञानमिव। अपरे तु यत्र तर्के व्याप्त्यनुभवोमूलं तत्र नर्कान्तरा-पेक्षा यत्र तु व्याप्तिस्मरणं हेतुः तत्र न तर्कान्तरापेक्षेतिनानवस्था अस्ति च जातमात्राणामिष्टानिष्टसाधनतानु-मितिहेतुव्याप्तिस्मरणं तदानीं व्याप्त्यनुभावकाभावात्तन्मूलानुभवमूला चाग्रेऽपि व्याप्तिस्मरणपरम्परेति। यत्त्वनादिसिद्धकार्य्यकारणभावविरोधादिमूलाः केचित्तर्काइति तन्न तत्र प्रमाणानुपयोगेऽनुमान एव पर्य्यवसानात्। नच व्याप्तिग्रहान्यथानुपपत्त्यैव तर्कस्यानादिसिद्धव्याप्ति-कत्वज्ञानमिति वाच्यम् अनुपपत्तेरप्यनुमानत्वात्। अन्येतु विपक्षवाधकतर्कादनौपाधिकत्वग्रह एव तदधीनो[Page3257-a+ 38] व्याप्तिग्रह इति तदपि न तर्कंस्याप्रमाणत्वात्। व्यभि-चारादिशङ्कानिरासद्वारा प्रत्यक्षादिसहकारी स इतिचेन्न अनवस्थाभयेन तर्कं विना व्याघातात् यत्र शङ्का-विरहस्तत्र व्याप्तिग्रहे तर्कस्य व्यभिचारात्। यत्तुयोग्यानामुपाधीनां योग्यानुपलब्ध्याभावग्रहः अयो-ग्यानान्तु साध्याव्याप्यत्वसाधनव्यापकत्वसाधनादभावग्रहइत्यनौपाधिकत्वं सुग्रहमिति तत्तुच्छम् अनुमानेनतत्साधनेऽनवस्थानात् प्रमाणान्तरस्याभावात्। ये चानु-कूलतर्कं विनैव सहचारादिदर्शनमात्रेण व्याप्तिग्रहंवदन्ति तेषां पक्षेतरत्वस्य साध्यव्यापकत्वग्रहेऽनुमान-मात्रमुच्छिद्येत अनुमानमात्रोच्छेदकत्वादेव पक्षेतरोनो-पाधिरिति चेत भ्रान्तोऽसि नहि वयमुपाधित्वेन तस्यदोषत्वमाचक्ष्महे साध्यव्यापकत्वेन तद्व्यतिरेकात् पक्षेसाध्यव्यावर्तकतया व्यापकव्यतिरेके व्याप्यव्यतिरेकस्यवज्रलेपाच्च। अपि च करवह्निसंयोगः शक्त्यतिरिक्ताती-न्द्रियधर्मसमवायी जनकत्वादित्यत्राप्रयोजकत्वान्न साधकंतत्र व्याप्तस्य पक्षवर्मत्वे किमप्रयोजकं नाम? तस्माद्विपक्ष-बाधकतर्काभावान्न तत्र व्याप्तिग्रह इत्यप्रयोजकत्वमिति”। तर्कं वेत्त्यषीते वा ठञ्। तार्किक तर्कवेत्तरि तर्कशास्त्रा-ध्येतरि च।
“तार्किकशिरोमणिस्तनुते” दीधितिः।

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तर्क¦ r. 10th cl. (तर्कयति-ते)
1. To shine.
2. To speak.
3. To reason, to discuss.
4. To doubt or apprehend. दीप्तौ अक० आकाङ्क्षायां वितर्के च सक० चुरा० उभ० सेट् |

तर्क¦ m. (-र्कः)
1. Doubt or disputation, discussion, reasoning.
2. Wish. desire.
3. Supplying an ellipsis.
4. Cause, motive.
5. The science of reasoning, logic.
6. (In logic,) Reduction to absurdity, a con- clusion opposed to or disproving the premises. E. तर्क to infer, to reason, &c. affix भावे अच्।

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तर्कः [tarkḥ], (तर्क्-भावे अच्)

Supposition, conjecture, guess; प्रसन्नस्ते तर्कः V.2.

Reasoning, speculation, discussion, abstract reasoning; कुतः पुनरस्मिन्नवधारिते आगमार्थे तर्कनिमित्तस्याक्षेपस्यावकाशः; इदानीं तर्कनिमित्त आक्षेपः परिह्रियते Ś. B.; तर्को$प्रतिष्ठः स्मृतयो विभिन्नाः Mb.; Ms.12.16.

Doubt.

Logic, the science of logic; यत्काव्यं मधुवर्षि धर्षितपरास्तर्केषु यस्योक्तयः N.22.155; तर्कशास्त्रम्, तर्कदीपिका

(In logic) Reduction to absurdity, a conclusion opposed to the premises, a reductio ad absurdum.

A system of doctrine founded on pure reasoning or free thinking, a philosophical system (particularly one of the six principal Darṣanas q. v.).

A name for the number 'six'.

Supplying an ellipsis.

Cause, motive.

Wish, desire. -र्का Speculation, reasoning. -Comp. -अटः a beggar.-आभासः fallacious reasoning, fallacy in drawing conclusions. -कौमुदी N. of a Vaiśeṣika-work. -मुद्रा a particular position of the hand; कृत्वोरौ दक्षिणे सव्यं पादपद्मं च जानुनि । बाहुप्रकोष्ठे$क्षमालामासीनं तर्कमुद्रया ॥ Bhāg.4. 6.38. -विद्या logic; philosophical treatise.

शास्त्रम् logic.

a philosophical work.

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तर्क m. conjecture MBh. etc.

तर्क m. reasoning , speculation , inquiry Kat2hUp. ii , 9 Pa1rGr2. ii , 6 , 5 Gaut. Mn. xii , 106 MBh. etc.

तर्क m. doubt W.

तर्क m. system or doctrine founded on speculation or reasoning , philosophical system ( esp. the न्यायsystem , but applicable also to any of the six दर्शनSee. ) BhP. ii , vii f. Prab. Vop. Caran2. Madhus.

तर्क m. the number 6 Su1ryas. xii , 87

तर्क m. logic , confutation ( esp. that kind of argument which consists in reduction to absurdity) Tarkas. Sarvad. Madhus.

तर्क m. wish , desire L.

तर्क m. supplying an ellipsis L.

तर्क m. cause , motive L.

तर्क n. a philosophical system Hcat. i , 7

तर्क n. See. अ-, कु-, दुस्-, रूप-.

Purana index[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--came to see the Trivikrama form of Hari. भा. VIII. २१. 2.
(II)--Logic. वा. १०१. २११.
"https://sa.wiktionary.org/w/index.php?title=तर्क&oldid=499907" इत्यस्माद् पुनः प्राप्तिः