तल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तल, गतौ । (भ्वां-परं-सकं-सेट् ।) सौत्रधातु- रयम् । तालिशः । इति दुर्गादासः ॥

तल, कि प्रतिष्ठितौ । इति कविकल्पद्रुमः ॥ (चुरां- पक्षे भ्वां-परं-अकं-सेट् ।) कि, तालयति तलति व्रतम् । संपूर्णं स्यादित्यर्थः । इति दुर्गादासः ॥

तलम्, क्ली पुं, (तलतीति । तल प्रतिष्ठायाम् + पचाद्यच् ।) स्वरूपम् । यथा महीतलम् । (यथाच माघे । २ । १११ । “कृत्वा कृत्यविदस्तीर्थेष्वन्तः प्रणिधयः पदम् । विदाङ्कुर्व्वन्तु महतस्तलं विद्बिषदम्भसः ॥” “तलं स्वरूपं प्रमाणमिति यावत् ॥” इति तट्टीकायां मल्लिनाथः ॥) अनूर्द्ध्वम् । इति मेदिनी । ले, २१ ॥ (अधः । इत्यमरः । ३ । ३ । २०१ ॥ यथा, मनुः । २ । ५९ । “अङ्गुष्ठमूलस्य तले ब्राह्मं तीर्थं प्रचक्षते ॥” यथा च शान्तिशतके । २ । १९ । “वासो वल्कलमास्तरः किशलयान्योक- स्तरूणां तलं मूलानि क्षतये क्षुधां गिरिनदीतोयं तृषाशान्तये ॥” हस्तादीनासुपरिभागः । यथा, -- “तलं प्रत्यङ्गुलीनां याः कण्डरा बाहुपृष्ठतः । बाह्वोः कर्म्मक्षयकरी -- ॥”

तलम्, क्ली, (तलतीति । तल + अच् ।) ज्याघात- वारणा । (यथा, -- “ततः समुत्पेतुरुदायुधास्ते महीक्षितो बद्धतलाङ्गुलित्राः ॥”) इति महाभारते । १ । १९० । १५ । काननम् । कार्य्यवीजम् । इति मेदिनी । ले, २१ ॥ गर्त्तः । इति त्रिकाण्डशेषः ॥ पादतलस्य मध्यम् । इति हेमचन्द्रः । ३ । २८२ ॥ (यथा, भागवते । ८ । २० । २३ । “रसामचष्टाङ्घ्रितलेऽथ पादयो- र्महीं महीध्रान् पुरुषस्य जङ्घयोः । पतत्त्रिणो जानुनि विश्वमूर्त्ते- रूर्व्वोगणं मारुतमिन्द्रसेनः ॥” हस्तस्य मध्यमपि । यथा, मनुः । ४ । १४३ । “पृष्ट्वैतानशुचिर्नित्यमद्भिः प्राणानुपस्पृशेत् । गात्राणि चैव सर्व्वाणि नाभिं पाणितलेन तु ॥”)

तलः, पुं, तालवृक्षः । चपेटः । (यथा, मार्क- ण्डेये । ९० । १६ । “स मुष्टिं पातयामास हृदये दैत्यपुङ्गवः । देव्यास्तञ्चापि सा देवी तलेनोरस्यताडयत् ॥” करतलाघातजन्यशब्दः । यथा, महाभारते । ३ । २७७ । २४ । ततः प्रहसिताः सर्व्वे तेऽन्योन्यस्य तलान् ददुः ॥”) त्सरुः । सव्यपाणिना तन्त्रीघातः । इति मेदिनी । ले, २१ ॥ स्वभावः । आधारः । इति हेम- चन्द्रः ॥ महादेवः । यथा, महाभारते शिव- सहस्रनामस्तोत्रे । १३ । १७ । १२८ । “तलस्तालः करस्थाली ऊर्द्ध्वसंहननो महान् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तल नपुं।

ज्याघातवारणः

समानार्थक:गोधा,तल

2।8।84।2।4

कपिध्वजस्य गाण्डीवगाण्डिवौ पुन्नपुंसकौ। कोटिरस्याटनी गोधातले ज्याघातवारणे॥

पदार्थ-विभागः : वस्त्रम्

तल नपुं।

अधः

समानार्थक:अनुत्तर,तल

3।3।202।2।1

छदिर्नेत्ररुजोः क्लीबं समूहे पटलं न ना। अधस्स्वरूपयोरस्त्री तलं स्याच्चामिषे पलम्.।

पदार्थ-विभागः : , द्रव्यम्, दिक्

तल नपुं।

स्वरूपः

समानार्थक:तल

3।3।202।2।1

छदिर्नेत्ररुजोः क्लीबं समूहे पटलं न ना। अधस्स्वरूपयोरस्त्री तलं स्याच्चामिषे पलम्.।

पदार्थ-विभागः : , शेषः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तल¦ प्रतिष्ठायां वा चुरा॰ उभ॰ पक्षे भ्वा॰ पर॰ अक॰ सेट्। तालयति ते तलति। अतीतलत् त अतालीत्। तालयाम् बभूय आस चकार। तताल तेलतुः तलम्।

तल¦ पु॰ न॰ तल--अच्। स्वरूपे
“शैलेयनद्धेषु शिलातलेषु” कुमा॰।
“हिमधाम्नि दर्पणतले च मुहुः” माघः।
“विदाङ्गुर्वन्तु महतस्तलं विद्विषदम्भसः”
“तलं स्वरूपंप्रमाणं वेति” मल्लिना॰।

२ ज्याघातवारणे।

३ कानने

४ कार्य्यवीजे न॰ मेदि॰।

५ गर्त्ते पु॰ त्रिका॰।

६ पादतलस्यमध्ये हेमच॰।
“इदं रसातलं नाम सप्तभं पृथिवीतलम्” भा॰ वि॰

३६

० अ॰।
“भुवस्तलमिव व्योम कुर्वन्व्योमेव भूतलम्” रघुः।

७ तालवृक्षे पु॰

८ चपेटे (चड)

९ त्सरौ

१० खड्गमुष्टौ

११ सव्यहस्तेन तन्त्रोवादने पु॰मेदि॰।

१२ गोधायां पु॰ हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तल¦ r. 1st and 10th cls. (तलति तालयति-ते)
1. To be full or complete to.
2. To fix, to found.
3. To establish. E. चुरा० उभ० पक्षे भ्वा-पर-सक-सेट् |

तल¦ n. (-लं)
1. Essential nature, (in composition especially, as महीतलं the earth itself, the very earth.)
2. Depth, bottom, lowness, in- feriority of position, the place under or underneath.
3. A wood, a forest.
4. A hole, a pit, a chasm.
5. Cause, origin, motive, the root or seed of events.
6. Sole of the foot.
7. A slap with the hand. nf. (-लं-ला) A leathern fence worn by archers on the left arm. m. (-लः)
1. The palmyra tree.
2. The palm with extended fingers.
3. The hilt or handle of a sword, &c.
4. Pressing the strings of a lute with the left hand.
5. The stand or support of any thing, that which is under or below it.
6. The fore arm.
7. A span. E. तल् to fix, affix अच्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तलः [talḥ] लम् [lam], लम् [तल्-अच्]

A surface; भुवस्तलमिव व्योम कुर्वन् व्योमेव भूतलम् R.4.29; sometimes used at the end of comp. without much alteration of meaning; महीतलम् 'surface of the earth' i. e. earth itself; शुद्धे तु दर्पणतले सुलभावकाशा Ś.7.32; नभस्तलम् &c.

The palm of the hand; R.6.18.

The sole of the foot; Bhāg.1.36. 8.

The fore-arm.

A slap with the hand.

Lowness, inferiority of position.

A lower part, part underneath, base, foot, bottom; रेवारोधसि वेतसीतरुतले चेतः समुत्कण्ठते K. P.1.

(Hence) The ground under a tree or any other object, shelter afforded by anything; फणी मयूरस्य तले निषीदति Ṛs.1.13.

A hole, pit.

A span.

लः The hilt of a sword.

The palmyra tree.

N. of Śiva.

Pressing the strings of a lute with the left hand; तत्र तत्र महानादैरुत्कृष्टतलनादितैः Mb.1.221.6.

A division of hell.

लम् A pond.

A forest, wood; भस्मप्रस्तरशायी च भूमिशय्या तलेषु च Mb.12.33.11.

Cause, origin, motive.

A leathern fence worn round the left arm (तला also in this sense); उद्यतैरायुधैश्चित्रास्तलबद्धाः कलापिनः Mb.6.16.14.-Comp. -अङ्गुलिः f. a toe. -अतलम् the fourth of the seven divisions of hell; Bhāg.2.5.41. -ईक्षणः a hog.-उदर a. having a protuberant belly, pot-bellied.-उदरी f. A wife; L. D. B. -उदा a river. -घातः a slap with the palm of the hand.

तालः a kind of musical instrument.

clapping of the hands. -त्रम्, -त्राणम्, -वारणम् a leathern glove of an archer; शरासन- ज्यातलवारणध्वनिः Ki.14.29; पाणयः सतलत्राश्च... Śiva B.12.8.-प्रहारः a slap with the hand. -बद्धः a. having fastened round one's arm the तल (त्र); Mb.6.16.14. -युद्धम् a fight with the palms of the hands. -लोकः nether world (पाताल); Bhāg.2.6.42.

सारकम् a martingale.

a horse's food-receptacle; M. W. -सारणम्, -सारिकाibid. -हृदयम् the centre of the sole of foot.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तल ( m. L. ) n. ( स्तृ)surface , level , flat roof (of a house) MBh. etc. (chiefly ifc. [ f( आ). R. v , 13 ] See. नभस्-, मही-etc. )

तल mfn. the part underneath , lower part , base , bottom Mn. ii , 59 VarBr2S. Pan5cat. etc. (See. अधस्-, तरु-etc. )Page440,3

तल mn. the palm (of the hand See. कर-, पाणि-) R. ii , 104 , 17 S3ak. Ragh. vi , 18

तल mn. the sole (of the foot , अङ्घ्रि-, पाद-) MBh. i VarBr2S.

तल mn. (without कर-etc. ) the palm of the hand( अन्यो ऽन्यस्य, or परस्परं तलंor लान्-दा, to slap each other with the palms of the hands) MBh. Hariv. R. Sus3r.

तल m. n. L. the sole of the foot R. v , 13 , 47

तल m. the fore-arm L.

तल m. = ताल(a span L. ; the handle of a sword L. ; the palmyra tree Viddh. ii , 13 )

तल m. pressing the strings of a lute with the left hand MBh. viii

तल m. N. of a hell A1run2Up. S3ivaP. (See. तला-तल)

तल m. शिवMBh. xiii , 17 , 130

तल m. N. of a teacher g. शौनका-दि

तल n. = -हृदयL.

तल n. = तल्कL.

तल n. = तलक(See. ) L.

तल n. = तल्ल(See. ) L.

तल n. the root or seed of events L.

तल n. = -त्रA1s3vGr2. iii , 12 , 11 ( तल) MBh. R.

"https://sa.wiktionary.org/w/index.php?title=तल&oldid=499914" इत्यस्माद् प्रतिप्राप्तम्