ताडनम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ताडनम्, क्ली, (ताडि + भावे ल्युट् ।) आघातः । यथा, शृङ्गारतिलके । “श्लाघ्यं नीरसकाष्ठताडनशतं श्लाघ्यः प्रचण्डातपः ॥” यथाच, गारुडे ९६ अध्याये । “श्रुतिस्मृत्युक्तमाचारं कुर्य्यान्मर्म्माणि न स्पृशेत् । न निन्दाताडने कुर्य्यात् सुतं शिष्यञ्च ताडयेत् । आचरेत् सर्व्वदा धर्म्मं तद्विरुद्धन्तु नाचरेत् ॥” अपि च चाणक्ये । १२ । “लालने बहवो दोषास्ताडने बहवो गुणाः । तस्मात् पुत्त्रञ्च शिष्यञ्च ताडयेन्न तु लालयेत् ॥”

"https://sa.wiktionary.org/w/index.php?title=ताडनम्&oldid=137515" इत्यस्माद् प्रतिप्राप्तम्