तामिस्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तामिस्रम्, क्ली, (तमिस्रं अन्धकारततिरस्त्यस्येति । तमिस्र + अण ।) अन्धकारमयनरकम् । इति मनुः ॥ परवित्तापत्यकलत्रापहर्त्ता यमदूतैर्निपा- त्यते यत्र । इति श्रीभागवतम् ॥ (अन्धकारमये, त्रि । यथा, महाभारते । ३ । १६२ । १० । “तामिस्रं प्रथमं पक्षं वीतशोकभयो वस ॥” अन्धकारविचारिणि । यथा, रघुः । १५ । २ । “लवणेन विलुप्तेज्यास्तामिस्रेण तमभ्ययुः ॥”)

तामिस्रः, पुं, (तमिस्रं तमोगुणोत्थः क्रोधः प्रचुरतयास्त्यस्येति । अण् ।) भोगेच्छाप्रतिघाते क्रोघः । इति श्रीभागवतटीकायां स्वामी ॥ (यथा, भागवते । ३ । १२ । २ । “ससर्ज्जाग्रेऽन्धतामिस्रमथ तामिस्र आदिकृत् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तामिस्र¦ पु॰ तमिस्रा तमस्ततिरस्त्यत्र अण्। नरकभेदे।
“तामिस्रो ह्यन्धतामिस्र इत्युपक्रमे। तन्निदानरूपादिभाग॰।

५ ।

२६ उक्तं यथा
“यस्तु परिवित्तापत्यकल-त्राण्यपहरति स हि कालपाशबद्धो यमपुरुषैरतिभयानकैस्तामिस्रे नरके बलान्निपात्यते”
“स पर्य्यायेण याती-मान् नरकानेकविंशतिम्। तामिस्रमन्धतामिस्रं महा-रौरवरौरवौ। नरकं कालसूत्रञ्च महानरकमेव च। सञ्जीवनं महावीचिं तपनं सम्प्रतापनम्। संघातञ्चसकाकोलं कुड्मलं पूतिमृत्तिकम्। लोहशङ्कुमृजीषञ्चपन्थानं शाल्मलीं नदीम्। असिपत्रवनञ्चैव लोहदा-रकमेव च” मनुः अत्रोपक्रमे यातीति क्रियासम्बन्धा-पेक्षतया पन्थानं शाल्मलीं नदीमित्युत्तरत्र स्पष्टं द्विती-याश्रवणाच्च तामिस्रादिशब्दानां द्वितीयान्ततैव नरकविशे-षवाचित्वात्तस्य पुंस्त्वात्। शब्दकल्पद्रुमे क्लीवतोक्तिः मनुवचने द्वितीयान्ततामिस्रशब्दे प्रथमान्तत्वभ्रान्त्यैवेतिबोध्यम्। तमिस्रया साध्यमण्।

२ द्वेषे।
“भेदस्तमसो-ऽष्टविधो मोहस्य च दशविधो महामोहः।
“तामिस्रो-ऽष्टदशधा” सा॰ का॰।
“तामिस्रो द्वेषोऽष्टादशधाशब्दादयो दशविषया रञ्जनीयाः स्वरूपतः, ऐश्वर्य्यंत्वणिमादिकं न स्वरूपतो रञ्जनं किन्तु रञ्जनीयशब्दा-द्युपायाः। ते च शब्दादय उपस्थिताः परस्परेणोपह-न्यमानास्तदुपायाश्चाणिमादयः स्वरूपेणैव कोपनीयामवन्तीति। शब्दादिभिर्दशभिः सहाणिमाद्यष्टादशधेतितद्विषयो द्वेषस्तामिस्रोऽष्टादशविषयत्वादष्टादशधेति” तत्त्वकौ॰ द्वेषमूलत्वात् भोगेच्छाप्रतिघातरूपे

३ क्रोधेभाग॰ टी॰ श्रीधरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तामिस्र¦ n. (-स्रं)
1. Great darkness.
2. A hell, that of deep gloom. m. (-स्रः) Indignation at being disappointed or slighted. E. तमिस्र, and अण् added. तमिस्रा तमस्ततिः अस्ति अत्र |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तामिस्रः [tāmisrḥ], 1 A division of hell; Ms.4.88; Bhāg.3. 12.2.

The dark fortnight of a month.

Hatred.

Anger; तमिस्रं क्रोध उच्यते Mb.12.313.25.

A demon, Rākṣasa (going about in the dark).

(Phil.) Dislike; तामिस्रोष्टादशधा Sāṅ K.48.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तामिस्र mfn. (fr. तम्and तमिस्राg. ज्योत्स्ना-दि)(with पक्ष)or m. the dark half of the month La1t2y. ix Gobh. iii f. MBh. iii , 11813

तामिस्र m. " nightwalker " , a राक्षसRagh. xv , 2

तामिस्र m. (in सांख्यphil. ) indignation , anger (one of the 5 forms of अ-विद्या) MBh. xiv , 1019 Sa1m2khyak. Tattvas. BhP. iii (also n. ) Ma1rkP. iii l

तामिस्र m. N. of a hell Mn. iv , xii Ya1jn5. iii , 222 BhP. iii., v Ma1rkP.

तामिस्र m. See. अन्ध-.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a hell among the twenty-eight in number. Here are put to torments, those who lay hands on another's property, children and women. भा. III. ३०. २८; IV. 6. ४५; V. २६. 7-8; Vi. I. 6. ४१; III. ११. १०४.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


TĀMISRA : A hell. (See under Kāla).


_______________________________
*3rd word in left half of page 785 (+offset) in original book.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तामिस्र न.
(सप्त) (तामिस्रा + अण्) महीने के कृष्ण पक्ष में, मा.श्रौ.सू. 1.6.2.4.

"https://sa.wiktionary.org/w/index.php?title=तामिस्र&oldid=499939" इत्यस्माद् प्रतिप्राप्तम्