ताम्बूलम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ताम्बूलम्, क्ली, (तम + “खर्जिपिञ्जादिभ्य ऊरो- लचौ ।” उणां । ४ । ९० । इति ऊलच् बुगा- गमो दीर्घश्च ।) पर्णम् । पान इति भाषा । अस्य गुणाः । कटुत्वम् । तिक्तत्वम् । उष्ण- त्वम् । मधुरत्वम् । क्षारत्वम् । कषायत्वम् । वातकृमिकफदुःखदोषनाशित्वम् । कामाग्नि- सन्दीपनत्वम् । स्त्रीसम्भाषणभूषणत्वम् । धृति- वक्त्रपाटवोत्साहकान्तिकारित्वम् । सुप्तोत्थिते भुक्ते च शस्तत्वम् । दन्तास्यदृग्गदे त्याज्यत्वम् । स्वर्गेऽपि दुर्लभत्वञ्च । इति राजवल्लभः ॥ अपि च । तीक्ष्णत्वम् । पीनसकासनाशित्वम् । रुच्यत्वम् । दाहकारित्वञ्च ॥ * ॥ कृष्णपर्णस्य गुणाः । तिक्तत्वम् । उष्णत्वम् । कषायत्वम् । दाहवक्त्रजाड्यमलधारित्वञ्च ॥ * ॥ शुभ्रपर्णस्य गुणाः । श्लेष्मवातामयनाशित्वम् । पथ्यत्वम् । रुच्यत्वम् । दीपनत्वम् । पाचनत्वञ्च ॥ * ॥ सद्यस्त्रोटितताम्बूलभक्षणगुणाः । मुखरोगजाड्य- दोषवातारोचकरक्तमलविष्टम्भकान्तिकारित्वम् ॥ त्रिरात्रत्रोटितभूयोजलयोजितताम्बूलगुणाः । उत्तमत्वम् । रुचिबलकारित्वम् । त्रिदोषार्त्ति- नाशित्वञ्च ॥ * ॥ “शिरापर्णन्तु शैथिल्यं कुर्य्यात्तस्यास्रहृद्रसः । शीर्णं त्वग्दोषदन्तस्य भक्षिते तु सितासिते ॥ अनिधाय मुखे पर्णं पूगं स्वादयते नरः । मतिभ्रंशो दरिद्रः स्यादन्ते न स्मरते हरिम् ॥” इति राजनिर्घण्टः ॥ * ॥ “पर्णमूले वसेद्ब्याधिः पर्णाग्रे पापसञ्चयः । चूर्णपर्णं हरेदायुः शिरा बुद्धिविनाशिनी ॥ नायुरग्रे विषं मूले मध्येऽलक्ष्मीर्व्यवस्थिता । तस्मादग्रञ्च मूलञ्च मध्यं पर्णस्य वर्ज्जयेत् ॥ चूर्णाधिकं हरति गन्धमथाधिपूगं रागं तथाधिकदलञ्च सुगन्धिकारि । ताम्बूलमुत्तममिदं रसनाग्रभिन्न- पर्णं निशास्वधिकखण्डितपर्णमह्नि ॥ ताम्बूलं न हितं प्रोक्तं शरीरे रूक्षदुर्ब्बले । ज्वरास्यशोषपित्तास्रमदमूर्च्छाक्षिरोगिषु ॥ ताम्बूलात्युपयोगात् स्याच्छोषः पित्तानिलास्रता । देहदृक्केशदन्ताग्निश्रोत्रवर्णबलक्षयः ॥” इति राजवल्लभः ॥ * ॥ “विना पणं मुखे दत्त्वा गुवाकं भक्षयेद्यदि । तावद्भवति चण्डालो यावद्गङ्गां न गच्छति ॥” इति कर्म्मलोचनम् ॥ * ॥ “ताम्बूलं विधवास्त्रीणां यतिनां ब्रह्मचारिणाम् । तपस्विनाञ्च विप्रेन्द्र ! गोमांससदृशं ध्रुवम् ॥” इति ब्रह्मवैवर्त्ते ब्रह्मखण्डम् ॥ * ॥ अस्य नामानि गुणाश्च । यथा, भावप्रकाशे । “ताम्बूलवल्ली ताम्बूली नागिनी नागवल्लरी । ताम्बूलं विशदं रुच्यं तीक्ष्णोष्णं तुवरं सरम् ॥ वश्यं तिक्तकटुक्षारं रक्तपित्तकरं लघु । बल्यं श्लेष्मास्यदौर्गन्धमलवातश्रमापहम् ॥” क्रमुकम् । इति मेदिनी । ले, ९७ ॥
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ताम्बूलम् [tāmbūlam], 1 The areca-nut.
The leaf of piperbetel, which together with the areca-nut, catechu, chunam, and spices is usually chewed after meals; ताम्बूलभृतगल्लो$यं भल्लं जल्पति मानुषः K. P.7; रागो न स्खलित- स्तवाधरपुटे ताम्बूलसंवर्धितः Ś. Til.7. -Comp. -अधिकारः the office of carrying the betel-box; Pt.1. -करङ्कः, -पेटिका a betel-box (Mar. पानदान, पानपुडा); आकृष्य ताम्बूलकरङ्कमध्यात्कर्पूरदानं विदधे बहुभ्यः Vikr.9.82. ˚वाह, ˚हिनी see next word. -दः, -धरः, -वाहकः a servant attached to men of rank to carry the betel-box and to provide them with ताम्बूल whenever necessary. -वल्ली the betelplant; ताम्बूलवल्लीपरिणद्धपूगाः R.6.64.