सामग्री पर जाएँ

ताम्रचूड

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ताम्रचूडः, पुं स्त्री, (ताम्रा ताम्रवर्णा चूडा अस्य ।) कुक्कुटः । इत्यमरः । २ । ५ । १७ ॥ (यथा, महाभारते । ३ । २२४ । २४ । “अपरेणाग्निदायादस्ताम्रचूडं भुजेन सः । महाकायमुपश्लिष्टं कुक्कुटं बलिनां वरम् ॥” यथा चोत्तरतन्त्रे ३९ अध्याये सुश्रुतेनोक्तम् । “ताम्रचूडस्य मांसेन पिबेद्बा मद्यमुत्तमम् ॥”) कुक्कुरद्रुः । इति राजनिर्घण्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ताम्रचूड पुं।

कुक्कुटः

समानार्थक:कृकवाकु,ताम्रचूड,कुक्कुट,चारणायुध,दक्ष

2।5।17।2।2

दार्वाघाटोऽथ सारङ्गस्तोककश्चातकः समाः। कृकवाकुस्ताम्रचूडः कुक्कुटश्चरणायुधः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, पक्षी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ताम्रचूड¦ पुंस्त्री॰ ताम्रा रक्ता चूडा यस्य।

१ कुक्कुटे (कुकडा)ख्याते खगे अमरः स्त्रियां ङीष्। तद्रुतविशेषफलं वृ॰ स॰

८८ अ॰ यथा
“भीता रुबन्ति कुकुकुक्विति ताम्रचूडास्त्यक्त्वारुतानि भयदान्यपराणि रात्रौ”। कुक्कुटश्च द्विविधः नारि-केलाकृतिः प्राच्यवाटः, वलाकाकृतिश्च प्रतीच्यवाटः। तत्रप्राच्यवाटः बलाधिकः। तथैव वर्णितं दशकुमारे ताम्र-चूडयुद्धाधिकारे।
“कथमिव नारिकेलजातेः प्राच्य-वाटकुक्कुटस्य प्रतीच्यवाटः पुरुषैरसमीक्ष्य वलाका-जातिस्ताम्रचूडो बलप्रमाणाधिकस्यैवं प्रति विसृष्ट इति।
“प्रायुध्यत चातिसंरब्धमनुप्रहारप्रवृत्तस्वपक्षमुक्तकण्ठी-रवरवं विहङ्गमद्वयम्। जितश्चासौ प्रतीच्यवाट कुक्कुटः” दशकु॰।

२ कुक्कुरद्रुमे (कुकसिमा) राजनि॰। तस्य रक्त-शिखत्वात्तथात्वम्।
“द्वाभ्यां गृहीत्वा पाणिभ्यां शक्तिंचान्येन पाणिना। अपरेणाग्निदायादस्ताम्रचूडं भुजेनसः। महाकायमुपश्लिष्टं कुक्कुटं बलिनां वरम्” भा॰ व॰

२२

४ अ॰ तत्रैव
“अरुणस्ताम्रचूडञ्च प्रददौ चरणायुधम्”।

३ कुमारानुचरमातृगणभेदे स्त्री
“सुभगा लम्बिनीलम्बा ताम्रचूडाविकाशिनी” भा॰ श॰

४७ अ॰। मातृगणौक्तौ

४ रक्तशिखायुक्ते त्रि॰ ताम्रचूडभैरवः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ताम्रचूड¦ m. (-डः) A cock. E. ताम्र, and चूडा a crest. ताम्रा रक्ता चूडा यस्य |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ताम्रचूड/ ताम्र--चूड mfn. red-crested (a cock) MBh. iii , ix

ताम्रचूड/ ताम्र--चूड m. a cock Sus3r. iv , vi VarBr2S. lxxxviii , 44 Das3.

ताम्रचूड/ ताम्र--चूड m. Blumea lacera L.

ताम्रचूड/ ताम्र--चूड m. = दकPSarv. Mantram. xix

ताम्रचूड/ ताम्र--चूड m. N. of a परि-व्राजकPan5cat. ii , 1 , 0/1

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Tāmracūḍa : m.: Name of a cock (?).

Given by Aruṇa to Skanda; fighting with feet i. e. with nails (caraṇāyudha) 9. 45. 46.


_______________________________
*2nd word in left half of page p29_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Tāmracūḍa : m.: Name of a cock (?).

Given by Aruṇa to Skanda; fighting with feet i. e. with nails (caraṇāyudha) 9. 45. 46.


_______________________________
*2nd word in left half of page p29_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=ताम्रचूड&oldid=499943" इत्यस्माद् प्रतिप्राप्तम्