ताम्रम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ताम्रम्, क्ली, (तम्यते आकाङ्क्ष्यते इति । तमु काङ्क्षायाम् + “अमितम्योर्दीर्घश्च ।” उणां । २ । १६ । इति रक् उपधाया दीर्घश्च ।) तैजस- घातुविशेषः । तामा इति ता~वा इति च भाषा ॥ तत्पर्य्यायः । ताम्रकम् २ शुल्वम् ३ म्लेच्छ- मुखम् ४ द्ब्यष्टम् ५ वरिष्ठम् ६ उडुम्बरम् ७ । इत्यमरः । २ । ९ । ९७ ॥ द्विष्ठम् ८ उदम्बरम् ९ औदुम्बरम् १० उदुम्बरम् ११ औडुम्बरम् १२ । इति तट्टीका ॥ तपनेष्टम् १३ अम्बकम् १४ अरविन्दम् १५ रविलोहम् १६ रविप्रियम् १७ रक्तम् १८ नैपालिकम् १९ रक्तधातु २० मुनि- पित्तलम् २१ अर्कम् २२ सूर्य्याङ्गम् २३ लोहि- तायसम् २४ । इति शब्दरत्नावली ॥ सुपक्वस्य तस्य गुणाः । मधुरत्वम् । कषायत्वम् । तिक्त- त्वम् । विपाके कटुत्वम् । शीतलत्वम् । कफपित्त- विबन्धशूलपाण्डूदरगुल्मनाशित्वञ्च । इति राज- निर्घण्टः ॥ अम्लत्वम् । सारकत्वम् । रोपण- त्वम् । लघुत्वम् । लेखनत्वम् । अर्शोज्वरकुष्ठ- कासश्वासक्षयपीनसाम्लपित्तशोथकृमिनाशि- त्वम् । अल्पबृंहणत्वञ्च । इति भावप्रकाशः ॥ परिणामशूलप्लीहवाय्वामशूलबहुरोगनाशित्वम् । शुद्धिकारित्वम् । बलायुस्तेजःपुष्टितुष्टिकारित्वं नित्यसेवने वलीपलितनाशित्वञ्च ॥ * ॥ मृद्- वेष्टितशूरणकन्दगर्भनिहितगोमयाग्निभस्मीकृत- पञ्चामृतद्बारा पञ्चपुटदत्तताम्रस्य गुणाः । वान्तिभ्रान्तिशूलाग्निमान्द्याम्लपित्तनाशित्वम् । बलकारित्वञ्च ॥ * ॥ अशोधितताम्रदोषाः । आयुःशुक्रबलनाशित्वम् । रोगवृद्धिच्छर्द्दिमूर्च्छा- भ्रमक्लेदनानारोगकुष्ठशूलविदाहस्वेदारुचिचित्त- सन्तापकारित्वम् । विषतुल्यत्वञ्च । इति सुख- बोधः ॥ * ॥ तस्योत्पत्तिर्यथा, -- “शुक्रं यत् कार्त्तिकेयस्य पतितं धंरणीतल । तस्मात् ताम्रं समुत्पन्नमिदमाहुः पुराविदः ॥” तस्य लक्षणं यथा, -- “जपाकुसुमसङ्काशं स्निग्धं मृदुं घनं क्षमम् । लोहनागोज्झितं ताम्रं मारणाय प्रशस्यते ॥ कृष्णरूक्षमतिस्तब्धं श्वेतञ्चापि घनासहम् । लोहनागयुतञ्चेति शुल्वं दुष्टं प्रकीर्त्तितम् ॥” तस्य शोघनविधिर्यथा, -- “पत्तलीकृतपत्राणि ताम्रस्याग्नौ प्रतापयेत् । निषिञ्चेत् तप्ततप्तानि तैले तक्रे च काञ्जिके ॥ गोमूत्रे च कुलत्थानां कषाये च त्रिधा त्रिधा । एवं ताम्रस्य पत्राणां विशुद्धिः संप्रजायते ॥” अथ तस्य मारणविधिर्यथा, -- “सूक्ष्माणि ताम्रपत्राणि कृत्वा संस्वेदयेद्बुधः । भुक्तः स्थौल्यजरापमृत्युशमनं पथ्याशिना वत्स- रात् ॥ ताम्रमुष्णं गरहरं यकृत्प्लीहोदरापहम् । क्रिमिशूलामवातघ्नं ग्रहण्यर्शोऽम्लपित्तजित् ॥” इति ताम्रमारणम् ॥ * ॥ इति वैद्यकरसेन्द्रसारसंग्रहे जारणमारणाधि- कारे ॥)