ताल

विकिशब्दकोशः तः
नेविगेशन पर जाएँ खोज पर जाएँ

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तालम्, क्ली, (तलत्यनेनेति । तल प्रतिष्ठायाम् + “हलश्च ।” ३ । ३ । १२२ । इति घञ् ।) हरि- तालम् । (अस्य नामानि यथा, -- “हरितालं तालमालं मालं शैलूषभूषणम् । पिञ्जकं रोमहरणं तालकं पातमित्यपि ॥” इति वैद्यकरसेन्द्रसारसंग्रहे जारणमारणाधि- कारे ॥) तालीशपत्रम् । इति राजनिर्घण्टः ॥ दुर्गा- सिंहासनम् । इति हेमचन्द्रः । ४ । २०२ ॥ (तालस्य विकारः । “तालादिभ्योऽण् ।” ४ । ३ । १५२ । इत्यस्य तालाद्धनुषि इति वार्त्ति- कोक्त्या अण् । धनुः । इति सिद्धान्तकौमुदी ॥ तालस्येदम् । अण् तस्य लुक् ।) तालफलम् ॥ (यथा, महाभारते । ३ । १०१ । ५ । “शिरोभिः प्रपतद्भिश्चाप्यन्तरीक्षात् महीतलम् । तालैरिव महाराज ! वृन्ताद्भ्रष्टैरदृश्यत ॥”)

तालः, पुं, (तलत्यत्र । तल + “हलञ्च ।” ३ । ३ । १२२ । इति घञ् ।) वृक्षविशेषः । तत्पर्य्यायः । ताल- द्रुमः २ पत्री ३ दीर्घस्कन्धः ४ ध्वजद्रुमः ५ तृण- राजः ६ मधुरसः ७ मदाढ्यः ८ दीर्घपादपः ९ चिरायुः १० तरुराजः ११ दीर्घपत्रः १२ गुच्छ- पत्रः १३ आसवद्रुः १४ । इति राजनिर्घण्टः ॥ लेख्यपत्रः १५ महोन्नतः १६ । इति भाव- प्रकाशः ॥ अस्य गुणाः । मधुरत्वम् । शीत- त्वम् । पित्तदाहश्रमापहत्वञ्च ॥ * ॥ अस्य रसगुणः । कफपित्तदाहशोफनाशित्वम् । मद- कारित्वञ्च ॥ * ॥ तत्फलगुणाः । शीतलत्वम् । बल्यत्वम् । स्निग्धत्वम् । स्वादुरसत्वम् । गुरु- त्वम् । विष्टम्भित्वम् । वातपित्तास्रक्षतदाहक्षय- नाशित्वञ्च । इति राजनिर्घण्टः ॥ पित्तरक्त- श्लेष्मविवर्द्धनत्वम् । दुर्ज्जरत्वम् । बहुमूत्रत्वम् । तन्द्राभिष्यन्दिशुक्रदातृत्वञ्च । इति भावप्रकाशः ॥ वातकृमिकुष्ठरक्तपित्तनाशित्वम् । बृंहणत्वम् । वृष्यत्वम् । स्वादुत्वञ्च । इति राजवल्लभः ॥ * ॥ तद्वीजस्य अर्थात् तालशस्यस्य गुणाः । मूत्र- करत्वम् । मिष्टत्वम् । वातपित्तहरत्वम् । गुरु- त्वञ्च ॥ * ॥ तदस्थिमज्जगुणाः । मधुरत्वम् । मूत्रलत्वम् । शीतलत्वम् । गुरुत्वञ्च ॥ * ॥ तालाम्बुगुणाः । पित्तनाशित्वम् । शुक्रस्तन्य- वृद्धिकारित्वम् । गुरुत्वञ्च । इति राजनिर्घण्टः ॥ तालजतरुणतोयगुणः । अतिशयमदकारित्वम् । तदेवाम्लीभूतं पित्तवातदोषकृत् । इति भाव- प्रकाशः ॥ कफकृमिहरत्वम् । रुच्यत्वम् । वात- लत्वम् । दुर्ज्जरत्वञ्च । इति राजवल्लभः ॥ * ॥ तालप्रलम्बगुणः । रूक्षत्वम् । क्षतरोगनाशि- त्वञ्च । इति राजनिर्घण्टः ॥ * ॥ तालतरुण- मज्जगुणाः । किञ्चिन्मदकरत्वम् । लघुत्वम् । शेषे युग्मं तथा शून्यं देवमात्रा च सोच्यते ३ ॥ चन्द्रशून्यं त्रितालञ्च विरामेण क्रमेण तु । अत्यूर्द्ध्वन्तु भवत्येवं अर्द्धज्योतिरिति स्थितिः ४ ॥ एकैकतालान्तरयुग्मतालात् शून्यत्रयं तत्परमेकतालम् । कलाभिदा शून्यभिदा समाख्या स स्वर्गसाराख्यनवीनतालः ५ ॥ युग्मशून्यं विरामेण देवतालमिति क्रमात् । क्षमाष्टाख्योऽन्तरे शून्यं इति सर्व्वत्र भाषितम् ६ ॥ नवाम्बुदे दामिनि शीघ्रयानं तथा सुसम्बद्धसुतालभानम् । युग्मं सत्रस्तं क्रमतश्च तालं शेषे त्रितालञ्च धराधराख्या ७ ॥ एकतालञ्च शून्यञ्च क्रमेणापि चतुष्टयम् । क्रमात्तालत्रयञ्चैव वसन्तवागुदाहृतः ॥ ८ ॥ सविरामं द्वयं तालं युग्मतालं तथा परे । शेषैकत्र त्रितालञ्च भवेत् काककलेति सा ॥ ९ ॥ त्रितालञ्च भवेत्त्रस्तं तत्परं त्वेकतालकम् । शेषेऽपि च त्रितालञ्चेत् कीरशब्दा प्रचक्ष्यते १० ॥ युग्मं युग्मं तथा युग्मं तालन्त्वेकं भवेत् क्रमात् । शेषशून्यं कलाभेदे ताण्डवीति भवेत् पृथक् ११ ॥ सविरामं द्वयं तालं युग्मशून्यञ्च तत्परम् । शेषोर्द्ध्वन्तु त्रितालञ्च हर्षधारा प्रकीर्त्तिता १२ ॥ चन्द्रशून्यं विरामेण द्वयं तालं भवेत् क्रमात् । अत्यूर्द्ध्वन्तु भवेत्रस्तं भाषाख्यं तालमुत्तमम् १३ ॥ अत्यूर्द्ध्वन्तु त्रितालञ्च द्वयं तालं विरामकम् । इत्यर्द्धमात्रा विज्ञेवा सङ्गीतभुवि सर्व्वतः ॥” इति सङ्गीतदामोदरः ॥ दशावतारप्रबन्धलक्षणं प्रबन्धशब्दे नित्यनाट्य- प्रबन्धवाद्यलक्षणं वाद्यशब्दे द्रष्टव्यम् ॥ * ॥ करतलम् । अङ्गुष्ठमध्यमाभ्यां सम्मितम् । करा- स्फालः । (यथा, मेघदूते । ७९ । “तालैः सिञ्चद्बलयसुभगैर्नर्त्तितः कान्तया मे यामध्यास्ते दिवसविगमे नीलकण्ठः सुहृद्वः ॥”) कांस्यनिर्म्मितवाद्यभाण्डम् । त्सरुः । इति मेदिनी । ले, २४ ॥ (महादेवः । यथा, महा- भारते । १३ । १७ । १२८ । “तलस्तालः करस्थाली ऊर्द्ध्वसंहननो महान् ॥”)

अमरकोशः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ताल पुं।

तालः

समानार्थक:ताल,कालक्रियामान

1।7।9।2।1

विलम्बितं द्रुतं मध्यं तत्त्वमोघो घनं क्रमात्. तालः कालक्रियामानं लयः साम्यमथास्त्रियाम्.।

 : तालभेदः

पदार्थ-विभागः : , गुणः, शब्दः, ध्वन्यात्मकः

ताल पुं।

तालवृक्षः

समानार्थक:तृणराजाह्वय,ताल

2।4।168।2।2

तृणानां संहतिस्तृण्या नड्या तु नडसंहतिः। तृणराजाह्वयस्तालो नालिकेरस्तु लाङ्गली॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

ताल पुं।

मध्यमासहिताङ्गुष्ठविस्तृतहस्तः

समानार्थक:ताल

2।6।83।2।2

पुनर्भवः कररुहो नखोऽस्त्री नखरोऽस्त्रियाम्. प्रादेशतालगोकर्णास्तर्जन्यादियुते तते॥

पदार्थ-विभागः : अवयवः

ताल नपुं।

हरितालम्

समानार्थक:पिञ्जर,पीतन,ताल,आल,हरितालक

2।9।103।2।3

रीतिपुष्पं पुष्पकेतु पुष्पकं कुसुमाञ्जनम्. पिञ्जरं पीतनं तालमालं च हरितालके॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, मूलकम्

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ताल¦ पु॰ तल एव अण्।

१ करतले शब्दार्थचि॰। ताड्यतेतड--आघाते कर्मणि अच् डस्य लः।

१ हरिताले

२ तालीशपत्रे न॰ राजनि॰

३ दुर्गासिंहासने न॰ हेमच॰तालस्येदम् अण् तस्य लुक्।

४ तालफले न॰। अङ्गुष्ठमध्य-म भ्यां मिते

५ परिमाणे

६ करास्फालने

७ कांस्यनि-र्मितवाद्यभेदे (करताल)

८ त्सरौ खडगमुष्टौ च पु॰मेदि॰

९ स्वनामख्याते वृक्षभेदे भावप्र॰।
“पक्वं तालफलं पित्तरक्तश्लेष्मविवर्द्धनम्। दुर्जरं बहु-मूत्रञ्च तन्द्राऽभिष्यन्दशुक्रदम्। तालमज्जा तु तरुणःकिञ्चिन्मदकरो लघुः। श्लेष्मलो वातपित्तघ्नः सस्नेहो मधुरःसरः। तालमज्जा तालफलवीजमज्जा। तालजं तरुणंतोयमतीव मदकृन्मतम्। अम्लीभूतं तदा तत् स्यात्पित्तकृतद्वातदोषहृत्” भावप्र॰।
“तालो द्वादशभिर्जानु-परिणाहपरिभ्रमैरिति” उक्ते

१० मानविशेषे। हस्तेनजानुमण्डलपरिभ्रमणं यावत्याकालमात्रया क्रियते ताव-तीभिर्द्वादशभिस्तालाख्यः कालांशो ज्ञेयः इत्यर्थः।

११ गीतकालक्रियामाने। अयं स्वर इयत्कालं गेयः इय-त्कालं विलम्बित इयत्कालं द्रुतम् इयत्कालं मध्य-मिति बोधयितुं ईदृशैर्हस्तैरङ्गुल्याकुञ्चनप्रसारणाक्रिया-भिर्नर्त्तितव्यं गातव्यञ्चेति कालक्रिययोः प्रमाणंतालः। इदमियत्कालं गेयमिति कालेनाङ्गुल्याद्याकु-ञ्चनादिक्रियामानं ताल इति यावत्।
“कालस्य एकद्वि-त्रिमात्राद्युच्चारणनियमितस्य क्रियायाः परिस्पन्दात्मिकायाः परिच्छेदहेतुस्तालम्” इति मधुसू॰।
“कालेन नर्त्तनगलवादनक्रियाणां मानं तालः ताराद्येककालमेषांविरामस्ताल इत्यन्थे” इत्यमरटीकायां भरतः। तन्निरुक्तिस्तु गौरीहरयोर्नृत्येन तालो बभूव। तथा हि। हरनृत्यस्य ताण्डवं गौर्य्यानृत्यस्यलास्यम् इति संज्ञा पुरुषन्यृत्यस्य ताण्डवं नार्य्या-नृत्यस्य लास्यमिति नियमात्। ताण्डवस्याद्याक्ष-रेण लास्यस्याद्याक्षरेण च मितित्वा ताल इतिसंज्ञा जाता इति” संगीतशास्त्रे तस्य भेदा यथा
“चर्च्चत्पुट

१ श्चारु पुटः



३ घट्टितापुत्रकस्तथा।

४ उद्घट्टकः[Page3282-b+ 38]

५ सन्निपातः

६ कङ्खणः

७ कोकिलारवः।

८ राजकोलाहलो

९ रङ्गविद्याधर

१० शचीप्रियौ।

११ पार्वतीलोचनो

१२ राजचूडामणि

१३ जयश्रियौ

१४ वादकाकल

१५ कन्दर्प

१६ न-लकूवर

१७ दर्पणाः।

१८ रतिलीलो

१९ मोक्षपतिः

२० श्रीरङ्गः

२१ सिंहविक्रमः।

२२ दीपको

२३ मल्लिकामोदो

२४ गजलीलश्च

२५ चर्च्चरी।

२६ कुहक्को

२७ विजयानन्दो

२७ वीरविक्रम

२८ टेङ्किके।

२९ रङ्गाभरण

३० श्रीकीर्त्ति

३१ वननालि

३२ चतुर्मुखाः।

३३ सिंहनन्दन

३४ नन्दीश

३५ चन्द्रविम्ब

३६ द्वितीयकाः।

३७ जयमङ्गल

३८ गन्धर्व

३९ मकरन्द

४० त्रिभङ्गयः।

४१ रतितालो

४२ वसन्तश्च

४३ जगझम्प्रो

४४ ऽथ मारुतिः।

४५ कविशेखर

४६ घोषौच

४७ हरवल्लभ

४८ भैरवौ

४९ । गतप्रत्यागतो

५० मल्लतालो

५१ भैरवमस्तकः

५२ । सरस्वतीकण्ठाभरणः

५३ क्रीडा

५४ निःसारुरेव च।

५५ मुक्तावली

५६ रङ्गराज

५७ भरता-नन्दा

५८ दितालकाः

५९ । सम्पक्वेष्टक

६० इत्यादि तालाभरत संमताः। संक्षेपतो निगदिता अथैषां ल णंतथा। अर्द्धमात्रं द्रुतं ज्ञेयमेकमात्र लघु स्मृतम्। द्विमात्रन्तु गुरुज्ञेयं त्रिमात्रन्तु प्लुतं मतम् ताले चर्च्चत्पुटे ज्ञेयं गुरु द्वन्द्वं लघुः प्लुतः

१ । गुरर्लघुः प्लुतश्चैवभवेच्चारुपुटाभिधे

२ । गलागलगलाश्चैव षट्टितापुत्रके मताः

३ । उद्घट्टके तु गमनाः

४ सन्निपाते गुरुर्मतः

५ । चतुर्विधः परिज्ञेयस्तालः कङ्कणनामकः

६ । पूर्णःखण्डः समश्चैव विषमश्चैव कथ्यते। लचतुष्कं गणौपूर्णे खण्डे विन्दुद्वयं गुरुः। यगणस्तु समे ज्ञेयस्तगणो विषमे भवेत्। खचतुष्कं सयत्यन्तं गुरुर्विन्दुचतुष्टयम्। सयत्यन्तं लघुश्चैव तालोऽयं कोकिलारवः

७ लचतुष्कं सयत्यन्तं खत्रयं खत्रयं लघुः। लघुर्विन्दु-द्वयञ्चेति राजकोलाहलाभिधे

८ । खद्वयं द्वौ प्लुतौयत्र रङ्गविद्याधरः स तु

९ । लघूनि त्रीणि यत्र स्युर्गु-रूणि त्रीणि यत्र वै। प्लुतद्वयञ्च यत्रास्ति स तालःस्याच्छचीप्रियः

१० । खद्वयं गुरुलौ विन्दुर्गौ प्लुतौगौ प्लुतौ पुनः। यत्र तालः स विज्ञेयः पार्वतीलोचना-भिधः

११ । राजचूडामणौ विन्दुर्लश्च विन्दुर्लगौ मतौ

१२ । रगणोनो गुरुश्चैव जयश्रीरिति कथ्यते

१३ । प्लुतौलघुचतुष्कञ्च मौ नौ द्रुतयुगं लघुः। लचतुष्कं विना-शब्दं तालः स्याद्वादकाकलः

१४ । द्रुतद्वयं यकारश्चकन्दर्पेऽपि प्रकीर्त्तितः

१५ । चत्वारो गुरवो यत्र चत्वारप्लुतका अपि। लष्वक्षराणि चत्वारि तालीऽयं नलकू[Page3283-a+ 38] वरः

१६ । विन्दुद्वयं गुरुश्चैव भवेद्यत्र स दर्पणः

१७ । रतिलोले विधातव्यं लघुद्वन्द्वं गुरुद्वयम्

१८ । आदौषोडश गुरुवो द्वात्रिंशल्लघवस्ततः। चतुःषष्टिर्द्रुता यत्रसोऽयं मोक्षपतिर्मतः

१९ । श्रीरङ्गसंज्ञके ताले मगणाल्लःप्लुतौ मतौ

२० । सिंहविक्रमताले तु मगणो नखगाःखगौ

२१ । प्लुतो नश्च प्लुतश्चैव ताले दीपकनामनि

२२ ताले स्यान्मल्लिकामोदे लद्वयं खचतुष्टयम्

२३ । लचतुष्कंविरामान्तं गजलीले प्रकीर्त्तितम्

२४ । अष्टकृत्वस्तु चर्च्चर्य्यांविरामान्ते द्रुतौ लघुः

२५ । द्रुतद्वन्द्वं भवेत्ताले कुह-क्काख्ये लघुद्वयम्

२६ । भवेच्च विजयानन्दे लत्रयञ्च लघुत्र-यम्

२७ । वीरविक्रमताले तु द्रुतौ लगौ ततः प्लुतः

२८ । टेङ्किका रगणेन स्यादेकेनैव कृतास्पदे

२९ । भगणो गप्लुतौ स्यातां रङ्गाभरणनामके

३० । श्रीकीर्त्तिसंज्ञके तालेगुरुद्वन्द्वं लघुद्वयम्

३१ । चतुर्द्रुता लघू द्वौ तु द्रुतो गोवनमालिनि

३२ । चतुर्मुखाभिधे ताले यगणानन्तरं प्लुतः।

३३ । भश्च प्लुतो लगौ विन्दुद्वयं गौ नः प्लुतस्तथा। लघुः प्लुतो द्रुतश्चैको लघुद्वयमथापि च। निःशब्दं लचतुष्कञ्च ताले स्यात् सिंहनन्दने

३४ । गो लघुर्गौ लघुःप्लतस्ताले नन्दीश्वरे मतः

३५ । गो द्रुतौ नौ प्लतद्वन्द्वंचन्द्रविम्बे प्रकीर्त्तितम्

३६ । द्र तद्वन्द्वं लघुश्चैकस्तालेस्यात्तु द्वितीयके

३७ । सकारश्च यकारश्च जयमङ्गल-नामनि

३८ । चत्वारो गुरवो विन्दुश्चत्वारश्च प्लुता अपि। विन्दवो दश षट् लाश्च ताले गान्धर्वसंज्ञके

३९ । मकरन्देद्रुतद्वन्द्वं लघुद्वन्द्वमथो गुरुः

४० । गुरुर्लघुः प्लुतश्चैवत्रिभङ्गिः परिकीर्त्तिता

४१ । गुरुद्वयं लघुद्वन्द्वं रतितालेप्रकीर्त्तितम्

४२ । वसन्तताले कर्त्तव्यो नगणो मगणस्तथा

४३ । जगझम्पे गुरुश्चैको विरामान्तञ्च खद्वयम्

४४ । गप्लुतौ लौ द्रुतौ लश्च प्लुतो मारुतिनामनि

४५ । कविशै-खरे प्लुतः शून्यं नगौ लश्च ततो लघुः

४६ । खचतुष्कंविना शब्दं यत्र घोषः स उच्यते

४७ । हरवल्लभताले चप्लुतो लो गौं च खद्वयम्

४८ । भगणः प्लुतौ गणौ गयौप्लुतौ लघुश्च भैरवे

४९ । गतप्रत्यागते ताले लो मौ गौ नौप्रकीर्त्तितौ

५० । चतुर्लघु मल्लताले विरामान्तं द्रुतद्वयम्

५१ । लगौ गौ मो नगौ गश्च खद्वयं लद्वयं पुनः। नचतुष्कंविना शब्दं ताले भैरवमस्तके

५२ । सरस्वतीकण्ठाभरणे गौलघुश्च द्रुतद्वयम्

५३ । एक एव प्लुतो यत्र क्रीडातालःस उच्यते

५४ । द्रुतद्वयं विरामान्तं ताले निःसारकेमतम्

५५ । खत्रयं सविरामान्तं नौ पुनः खत्रय-[Page3283-b+ 38] न्तथा। प्लुतौ गः खयुगं गश्च यत्र मुक्तावली तु सा

५६ । लगौ विन्दुयुगं गौ लौ रङ्गराजे प्रकीर्त्तितः

५७ । खद्वयं सविरामान्तं गुरुः प्लुतद्वयं लघुः। यत्र ताले सविज्ञेयो भरतानन्दसंज्ञकः

५८ । आदिताले लघुश्चैकइत्याह भरतो मुनिः

५९ । भगणश्च प्लुताद्यन्तःसंपक्वे-ष्टकतालके

६० । एकाधिकशते ताले षष्टिर्मुख्यतमा इमे”। अथ प्लुतादिमात्राभेदेन तालघातनम्।
“ताले निष्णात-हस्तः प्लुतमनुघटयेद्घातमेकं सशब्दं तत्पश्चात् द्वौ च घातौनिनदविरहितौ दर्शयेदूर्द्ध्वतोऽधः। शुन्यत्वात् पक्कता-लाविति जगति पुनः सूत्रसिद्धौ सनन्दा विल्वं घातत्रयंतत् त्रिफलतनुवहिर्बर्द्धयेद्दुर्लकारम। एको घातः स-शब्दो द्विकल इह गुरौ शब्दहीनस्तथान्यः सोऽप्यूर्द्ध्वंयाति लीलावलयवलयितोत्तानहस्ताङ्गुलीभिः। किञ्चो-च्चैकैकमात्रा समुदयिनि लघौ घात एको निनादी घात्योमात्रार्द्धभाजि द्रुतवपुषि लघोरर्द्धनादेन घातः”। संगी॰ दा॰

३ स्तवकः। (
“आदावष्टस्तथा रुद्रो ब्रह्म इन्द्रश्चतुर्दशः। दशावतारवन्धा-दिनृत्यनाट्यं ततः परम्। ” अथष्टतालभेदाः।
“आडः

१ दोजः

२ ज्योतिः

३ चन्द्रशेखर

४ गञ्जनं

५ पञ्चतालः

६ रूपकं

७ समतालः

८ । ” तत्र रुद्रतालस्य भेदाः। बीरविक्रमः

१ । विषमसमुद्रः

२ धरणं

३ वीरदशकः

४ मण्डूकः

५ कन्दर्पः

६ डां शपाहिडः

७ ध्रुवचरणं

८ दशकोषी

९ गजेन्द्रगुरुः

१० छुटका

११ । ” अथ ब्रह्मतालभेदाः
“ब्रह्म

१ विरामब्रह्म

२ षट्कला

३ सप्तमात्रा

४ ” अथेन्द्रतालभेदाः।
“देवसारः

१ देवचाली

२ मदनदोला

३ गुरु-गन्धर्वः

४ पञ्चाली

५ इन्द्रभाषः

६ । ” अथ चतुर्द्दशतालभेदाः।
“चिह्नतालः

१ चन्द्रमात्रा

२ देवमात्रा

३ अर्द्धज्योतिः

४ स्वर्गसारः

५ क्षमाष्टः

६ धराधारा

७ वस-न्तवाक्

८ काककला

९ कीरशब्दा

१० ताण्डवी

११ हर्षधारिका

१२ भाषा

१३ अर्द्धमात्रा

१४ । ” क्रमेणैषां लक्षणादि तत्रापि अष्ट तालभेदस्य लक्षणानि यथा
“एकतालस्ततः शून्यं यगलं तालिका परे। सङ्गीतेप्रथमः सार आडतालः प्रकीर्त्तितः

१ । एकतालञ्चशून्यञ्च क्रमेणापि त्रिधा भवेत्। शेषशून्यं कलाभेदेदोजाख्यश्च भवेत् पृथक्

३ । प्रथमं युगलं तालंएक एकस्तथा परे। कलाभेदे गानमेवं ज्योतिश्चपरिकीर्त्तितम्

३ । चन्द्रश्चन्द्रस्तथा युग्मं तथा चन्द्र-स्तथा परे। षट् तालानि भवन्त्येवं चन्द्रशेखर-[Page3284-a+ 38] भाषितः

४ । एकतालो भवेत् श्रेष्ठः क्रमेणापि चतुष्ट-यम्। शेषशून्यं गञ्चनञ्च सर्वतो मुनिभाषितम्

५ । प्रथमंयुगलञ्चैव तत्परं तालमेककम्। शेषे युग्मं तथा शून्यंपञ्चतालं प्रकीर्त्तितम्

६ । युगलं प्रथमं तालं तत्परन्त्वेक-शून्यकम्। शेषे च युगलं त लं रूपकं परिकीर्त्तितम्

७ । एकतालं तथा शून्यं क्रमेण द्विविधं भवेत्। शेषे युग-लतालञ्च समतालं भवेत् परम्

८ । ” रुद्रतालभेदलक्षणादि
“एकतालं तथा शून्यं क्रमेणत्रिविधं भवेत्। तत्परं युगलं ताल इत्येव वीरविक्रमः

१ । युग्मतालं तथा शून्यं तत्परं द्वयतालकम्। शेषे च युगलंतालं समुद्रविषमं स्मृतम्

२ । युग्मतालञ्च शून्यञ्च एक-तालञ्च तत्परे। शेषैकत्र त्रिशून्यञ्च विषमं धरणंभवेत्

३ । एकतालं तथा शून्यं क्रमेणापि त्रिघाभवेत्। युगलं युगलं पश्चात् स वीरदशकः स्मृतः

४ । प्रथममेकतालञ्च तत्परं शून्यमेककम्। शेषैकत्र त्रिता-लञ्च मण्डूकस्य गतिर्यथा

५ । समतालं यथा दृष्टं तथाकन्दर्पसंज्ञितम्। समताले भवेत् शून्यं कन्दर्पे नास्ति,तत्पुनः

६ । पञ्चतालात् परं शून्यं डां शपाहिडमुत्त-मम्। अत्यूर्द्ध्वञ्च भवेत् त्रस्तं संग्रामस्य यथा गतिः

७ । एकतालं तथा शून्यं क्रमेणापि द्विधा भवेत्। शेषैकत्रत्रितालञ्च घ्रुवचरणभाषितम्

८ । एकतालं एकशून्य-मित्येवञ्च भवेत् क्रमात्। विरामे एकतालञ्च वाग्भेदेदशकोषिका

९ । युगलं युगलं पश्चात् तदन्तेप्येकताल-कम्। शेषे च युग्मं शून्यञ्च गजेन्द्रगुरुभाषितम्

१० युग्मशून्यं विरामे च एकतालं भवेत् क्रमे। छुटका-ख्यानकं धीरं सङ्गीतपरिनिष्ठितम्

११ । ” ब्रह्मतालभेदलक्षणानि।
“युगञ्च त्रस्तं प्रथमैकतालंकिञ्चिद्विरामे पुनरेकतालम्। ब्रह्माख्यतालञ्च सुगीत-मध्ये यथा कपोती हि करोति शब्दम्

१ । युम्म-तालं भवेद्त्रस्तं एकतालञ्च तत्परे। शेषे द्वितीयशून्येच विरामब्रह्मतालकम्

२ । प्रथमञ्चैकतालञ्च युग्मशून्यंतथा परे। शेषैकत्र त्रितालेति षट्कला खलु कथ्यते

३ । आदौ युग्मं तथा युग्मं त्रितालञ्च तथा परे। सप्त-मात्रा भवत्येषा व्रह्मतालान्तरे शुभे

४ । ” इन्द्रतालभेदलक्षणानि
“सविरामं त्रितालञ्च एकशून्यन्तथा-परे। शेषे त्रस्तं त्रितालञ्च देवसार इतीर्य्यते

१ । द्वितीय-शून्यं विरामे भवति ततश्च त्रितालानि। शेषेण द्विशून्य-मित्येवं देवचाली

२ । प्रथममेव युग्मतालं तत्पश्चादेक[Page3284-b+ 38] शून्यविरामे। शेषे त्रितयतालं भवतीति मदनदोलेति। युग्मतालं समारभ्य पञ्चतालं भवेत्तथा। अत्यूर्द्ध्वञ्च तथा त्रस्तं गुरु गन्धर्व ईरितः

४ । श्रावणस्ययथा धारा तथा तालो भवेद्घनः। पञ्चतालान्तराणीतिपञ्चालीति प्रकीर्त्तिता

५ सविरामं चतुस्तालं त्रितालंशून्यमन्ततः। मेघारम्भे यथा केका रूयन्ते इन्द्रभा-सितः

६ । ” चतुर्दशतालभेदलक्षणानि
“एकतालञ्च शून्यञ्च क्रमेणत्रितयं ततः। शेषे चतुष्टयं त्रस्तं चिह्नताल इतीर्य्यते

१ । एकचन्द्रस्तथा युग्मं तालं प्रत्येकतस्त्रयम्। शेषे त्रीणिच शून्यानि चन्द्रमात्रा भवेत्परा

२ । प्रथमं षट्कतालञ्चअत्यूर्द्ध्वन्तु भवेत् क्रमात्। शेषे युग्मं तथा शून्यं देवमात्राच सोव्यते

३ । चन्द्रशून्यं त्रितालञ्च विरामेण क्रमेण तु। अत्युर्द्ध्वन्तु भवत्येवमर्द्धज्योतिरिति स्थितिः

४ । एकैक-तालान्तंरयुग्मतालात् शून्यत्रयं तत्परमेकतालम्। कलाभिदा शून्यभिदा समाख्या स स्वर्गसाराख्यनवीन-तालः

५ । युग्मशुन्यं विरामेण देवतालमिति क्रमात्। क्षमाष्टाख्योऽन्तरे शून्यमिति सर्वत्र भाषितम्

६ । नवाम्बुदेरासिनि शीघ्रयानं तथा सुखंवद्धसुतानभानम्। युम्मं सत्रस्तं क्रमतश्च तालं शेषे त्रितालञ्च घराध-राख्या

७ । एकतालञ्च शून्यञ्च क्रमेणापि चतुष्टयम्। क्रमात्तालत्रयञ्चैव वसन्तवागुदाहृता

८ । सविरामं द्वयंतालं युग्मतालं तथा परे। शेषैकत्र त्रितालञ्च भवेत् का-ककलेति सा

९ । त्रितालञ्च भवेद् त्रस्तं तत्परं त्वेकता-लकम्। शेषेऽपि च त्रितालञ्चेत् कीरशब्दा प्रचक्ष्यते

१० । युग्मं युग्मं तथा युग्मं तालन्त्वेकं भवेत् क्रमात्। शेषे शून्यं कलाभेदे ताण्डवीति भवेत् पृथक्

११ । सवि-रामं द्वयं तालं युग्मशून्यञ्च तत्परम्। शेषोर्द्ध्वन्तु त्रिता-लञ्च हर्षधारा प्रकीर्त्तिता

१२ । चन्द्रशून्यं विरामेण द्वयंतालं भवेत् क्रमात्। अत्यूर्द्ध्वन्तु भवेद् त्रस्तं भाषाख्यंतालमुत्तमम्

१३ । अत्यूर्द्ध्वन्तु त्रितालञ्च द्वयं तालं विरा-मकम्। इत्यर्द्धमात्रा विज्ञेया सङ्गीता भुवि सर्वतः”

१४ सङ्गीतदामोदरे

४ स्तवकम्”। तालस्येदम् उत्सा॰ अञ्।
“पानसं द्राक्षमाघुकं खार्जुरंतालमैक्षवम्” प्रा॰ वि॰ पुलस्त्योक्ते

११ मद्यभेदे न॰

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ताल¦ mfn. (-लः-ली-लं) Made of the palm wood. m. (-लः)
1. Beating time in music, musical time or measure.
2. A short span, one measur- ed by the thumb and middle finger.
3. Slapping or clapping the hands together, or against the arms, &c.
4. The open hand with the fingers extended, the palm.
5. A musical instrument of bell metal or brass, (a sort of cymbal,) played with a stick.
6. The hilt of a sword or sacrificial knife, &c.
7. The palmyra tree or fan palm, (Borassus flabelliformis.)
8. A lock, a bolt.
9. In proso- dy, a trochee. n. (-लं)
1. The throne of DURGA.
2. Yellow orpiment: see हरिताल।
3. The fruit of the palm tree. f. (-ली)
1. A sort of key or pin.
2. A species of the mountain palm, (Corypha taliera, Rox.)
3. A plant, (Flacourtia cataphraeta:) see झटा and अमला।
4. A fra- grant earth: see तुवरिका।
5. A plant, (Curculigo orchioides.)
6. The spirituous juice of the palm, the common Tady. E. तल् to fix or तन् to spread, affix घञ्; or in the causal form, with अच् affix fem. affix ङीष्, न changed to ल; otherwise, तड् to beat, to overcome, (disease, &c.) अच् and ङीष् affixes, and ड changed to ल; the adjective is derived from the substantive by adding अण्।

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तालः [tālḥ], [तल् एव अण्]

The palmyra tree, Bhāg. 8.2.12; विधिवशात्तालस्य मूलं गतः Bh.2.9; R.15.23.

A banner formed of the palm.

Slapping or clapping the hands together, the noise made by it; तलतालांश्च वादयन् Mb.3.178.17; Māl.5.23.

Flapping in general; विस्तारितः कुञ्जरकर्णतालैः R.7.39.

Flapping of the ears of an elephant.

Beating time (in music); करकिसलयतालैर्मुग्धया नर्त्यमानम् U.3.1; Me.81.

A musical instrument made of bell-metal, Bhāg. 8.15.21; उषसि स गजयूथकर्णतालैः पटुपटहध्वनिभिर्विनीतनिद्रः R.9.71.

The palm of the hand.

A lock, bolt.

The hilt of a sword.

An epithet of Śiva.

(In prosody) A trochee.

A particular measure of height; Rām.6.

A short span; a span measured by the thumb and the middle finger.

A dance; S. D.6.

लम् The nut of the palmyra tree.

Yellow orpiment.

Comp. अङ्कः N. of Balarāma; तालाङ्को मुसली हली Ak. ततः शिवमहीपालस्तालाङ्कानुज- बुद्धिमान् Parṇāl.5.47.

the plam-leaf used for writing.

a book.

a saw.

N. of Śiva.

a man endowed with every fortunate mark or sign.-अव (प) चरः a dancer, an actor; Rām.2.3.17.-केतुः an epithet of Bhīṣma. -क्षीरकम्, -गर्भः the exudation of the palm; toddy. -जटा -प्रलम्बः the fibres of the palm tree (Mar. काथ्या). -ज्ञ a. knowing the measure (in music); Y.3.115. -धारकः a dancer.-ध्वजः, -भृत् m. an epithet of Balarāma. -नवमी The 9th day of the bright half of भाद्रपद.

पत्रम् the palmleaf used for writing.

a kind of ear-ornament (hollow cylinder of gold thrust through the lobe of the ear). -पत्री f. A widow; L. D. B. -फलम् the fruit of the plam tree; तालफलादपि गुरुमतिसरसम् । किं विफलीकुरुषे कुचकल- शम् ॥ Gīt.9.2. -बद्ध, -शुद्ध a. measured, rhythmical, regulated by musical time. -भङ्गः The loss of the measure (in music). -मर्दलः a kind of musical instrument, a cymbal.

यन्त्रम् a kind of surgical instrument.

a lock, a lock and key. -रेचनकः a dancer, an actor. -लक्षणः an epithet of Balarāma. -वनम् a grove of trees. -वृन्तम् a fan; Ś.3.21; Ku.2.35; तालवृन्तेन किं कार्यं लब्धे मलयमारुते Udb. also तालवृन्तकः.

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ताल m. ( Siddhnapun6s. 25 Sch. )the palmyra tree or fan-palm (Borassus flabelliformis , producing a sort of spirituous liquor ; considered as a measure of height R. iv ; vi , 2 , 6 Lalit. iii , xxii ; forming a banner MBh. iv , vi , xvi Hariv. ; to pierce seven fan-palms with one shot is held to be a great feat R. i , 1 , 64 AgP. viii , 2 ) Mn. viii , 246 MBh. etc.

ताल m. (fr. ताड)slapping the hands together or against one's arm , xiii , 1397 R. etc.

ताल m. the flapping of an elephant's ears Ragh. ix , 71 Katha1s. xii ; xxi , 1 Prab. i , v

ताल m. musical time or measure MBh. etc. (See. -ज्ञand -शील)

ताल m. a dance Sa1h. vi , 277

ताल m. a cymbal Pan5cat. BhP. viii , 15 , 21

ताल m. (in prosody) a trochee

ताल m. a span measured by the thumb and middle finger Hcat. i , 3 , 855 and 6 , 171

ताल m. (= तल)the palm (of the hand) L.

ताल m. a lock , bolt W.

ताल m. (= तल)the hilt of a sword L.

ताल m. a goldsmith Gal.

ताल m. शिवMBh. xiii , 1243

ताल m. pl. N. of a people(See. -वनand अपर-) VarBr2S. xiv , 22

ताल mn. orpiment L.

ताल mn. N. of a hell VP. ii , 6 , 2 and 10 S3ivaP.

ताल n. the nut of the fan-palm MBh. iii , 8718 Hariv. 3711 (See. काकतालीय)

ताल n. the throne of दुर्गा(See. मनस्-) L. ( v.l. )

ताल mf( ईPa1n2. 4-3 , 152 )n. made of palmyra wood Mn. xi , 96/97

Purana index[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--span, employed in describing measurement in iconography; nine तालस् generally for deities, दानवस् and kinnaras; measurement made usually by the middle finger. Br. I. 7. ९७; M. २५८. १६ and ७५; २५९. 1-2; वा. 8. १०३.
(II) (च्)--kingdom watered by the R. चक्ष. Br. II. १८. ४६.
(III)--a hell into which falls one, who murders a क्षत्रिय or वैश्य or Brahmana, or one who defiles a precep- tor's bed. Br. IV. 2. १४६; वा. १०१. १४६, १५३; Vi. II. 6. 2.

Purana Encyclopedia[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


TĀLA : A hell. There are many hells under water includ- ing Tāla. (Chapter 6, Aṁśa 2, Viṣṇu Purāṇa).


_______________________________
*1st word in left half of page 784 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=ताल&oldid=499960" इत्यस्माद् प्रतिप्राप्तम्