तालः

विकिशब्दकोशः तः

सम्स्कृतम्[सम्पाद्यताम्]

नामः[सम्पाद्यताम्]

वृक्षविशेषः

तालः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तालः, पुं, (तलत्यत्र । तल + “हलञ्च ।” ३ । ३ । १२२ । इति घञ् ।) वृक्षविशेषः । तत्पर्य्यायः । ताल- द्रुमः २ पत्री ३ दीर्घस्कन्धः ४ ध्वजद्रुमः ५ तृण- राजः ६ मधुरसः ७ मदाढ्यः ८ दीर्घपादपः ९ चिरायुः १० तरुराजः ११ दीर्घपत्रः १२ गुच्छ- पत्रः १३ आसवद्रुः १४ । इति राजनिर्घण्टः ॥ लेख्यपत्रः १५ महोन्नतः १६ । इति भाव- प्रकाशः ॥ अस्य गुणाः । मधुरत्वम् । शीत- त्वम् । पित्तदाहश्रमापहत्वञ्च ॥ * ॥ अस्य रसगुणः । कफपित्तदाहशोफनाशित्वम् । मद- कारित्वञ्च ॥ * ॥ तत्फलगुणाः । शीतलत्वम् । बल्यत्वम् । स्निग्धत्वम् । स्वादुरसत्वम् । गुरु- त्वम् । विष्टम्भित्वम् । वातपित्तास्रक्षतदाहक्षय- नाशित्वञ्च । इति राजनिर्घण्टः ॥ पित्तरक्त- श्लेष्मविवर्द्धनत्वम् । दुर्ज्जरत्वम् । बहुमूत्रत्वम् । तन्द्राभिष्यन्दिशुक्रदातृत्वञ्च । इति भावप्रकाशः ॥ वातकृमिकुष्ठरक्तपित्तनाशित्वम् । बृंहणत्वम् । वृष्यत्वम् । स्वादुत्वञ्च । इति राजवल्लभः ॥ * ॥ तद्वीजस्य अर्थात् तालशस्यस्य गुणाः । मूत्र- करत्वम् । मिष्टत्वम् । वातपित्तहरत्वम् । गुरु- त्वञ्च ॥ * ॥ तदस्थिमज्जगुणाः । मधुरत्वम् । मूत्रलत्वम् । शीतलत्वम् । गुरुत्वञ्च ॥ * ॥ तालाम्बुगुणाः । पित्तनाशित्वम् । शुक्रस्तन्य- वृद्धिकारित्वम् । गुरुत्वञ्च । इति राजनिर्घण्टः ॥ तालजतरुणतोयगुणः । अतिशयमदकारित्वम् । तदेवाम्लीभूतं पित्तवातदोषकृत् । इति भाव- प्रकाशः ॥ कफकृमिहरत्वम् । रुच्यत्वम् । वात- लत्वम् । दुर्ज्जरत्वञ्च । इति राजवल्लभः ॥ * ॥ तालप्रलम्बगुणः । रूक्षत्वम् । क्षतरोगनाशि- त्वञ्च । इति राजनिर्घण्टः ॥ * ॥ तालतरुण- मज्जगुणाः । किञ्चिन्मदकरत्वम् । लघुत्वम् । शेषे युग्मं तथा शून्यं देवमात्रा च सोच्यते ३ ॥ चन्द्रशून्यं त्रितालञ्च विरामेण क्रमेण तु । अत्यूर्द्ध्वन्तु भवत्येवं अर्द्धज्योतिरिति स्थितिः ४ ॥ एकैकतालान्तरयुग्मतालात् शून्यत्रयं तत्परमेकतालम् । कलाभिदा शून्यभिदा समाख्या स स्वर्गसाराख्यनवीनतालः ५ ॥ युग्मशून्यं विरामेण देवतालमिति क्रमात् । क्षमाष्टाख्योऽन्तरे शून्यं इति सर्व्वत्र भाषितम् ६ ॥ नवाम्बुदे दामिनि शीघ्रयानं तथा सुसम्बद्धसुतालभानम् । युग्मं सत्रस्तं क्रमतश्च तालं शेषे त्रितालञ्च धराधराख्या ७ ॥ एकतालञ्च शून्यञ्च क्रमेणापि चतुष्टयम् । क्रमात्तालत्रयञ्चैव वसन्तवागुदाहृतः ॥ ८ ॥ सविरामं द्वयं तालं युग्मतालं तथा परे । शेषैकत्र त्रितालञ्च भवेत् काककलेति सा ॥ ९ ॥ त्रितालञ्च भवेत्त्रस्तं तत्परं त्वेकतालकम् । शेषेऽपि च त्रितालञ्चेत् कीरशब्दा प्रचक्ष्यते १० ॥ युग्मं युग्मं तथा युग्मं तालन्त्वेकं भवेत् क्रमात् । शेषशून्यं कलाभेदे ताण्डवीति भवेत् पृथक् ११ ॥ सविरामं द्वयं तालं युग्मशून्यञ्च तत्परम् । शेषोर्द्ध्वन्तु त्रितालञ्च हर्षधारा प्रकीर्त्तिता १२ ॥ चन्द्रशून्यं विरामेण द्वयं तालं भवेत् क्रमात् । अत्यूर्द्ध्वन्तु भवेत्रस्तं भाषाख्यं तालमुत्तमम् १३ ॥ अत्यूर्द्ध्वन्तु त्रितालञ्च द्वयं तालं विरामकम् । इत्यर्द्धमात्रा विज्ञेवा सङ्गीतभुवि सर्व्वतः ॥” इति सङ्गीतदामोदरः ॥ दशावतारप्रबन्धलक्षणं प्रबन्धशब्दे नित्यनाट्य- प्रबन्धवाद्यलक्षणं वाद्यशब्दे द्रष्टव्यम् ॥ * ॥ करतलम् । अङ्गुष्ठमध्यमाभ्यां सम्मितम् । करा- स्फालः । (यथा, मेघदूते । ७९ । “तालैः सिञ्चद्बलयसुभगैर्नर्त्तितः कान्तया मे यामध्यास्ते दिवसविगमे नीलकण्ठः सुहृद्वः ॥”) कांस्यनिर्म्मितवाद्यभाण्डम् । त्सरुः । इति मेदिनी । ले, २४ ॥ (महादेवः । यथा, महा- भारते । १३ । १७ । १२८ । “तलस्तालः करस्थाली ऊर्द्ध्वसंहननो महान् ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तालः [tālḥ], [तल् एव अण्]

The palmyra tree, Bhāg. 8.2.12; विधिवशात्तालस्य मूलं गतः Bh.2.9; R.15.23.

A banner formed of the palm.

Slapping or clapping the hands together, the noise made by it; तलतालांश्च वादयन् Mb.3.178.17; Māl.5.23.

Flapping in general; विस्तारितः कुञ्जरकर्णतालैः R.7.39.

Flapping of the ears of an elephant.

Beating time (in music); करकिसलयतालैर्मुग्धया नर्त्यमानम् U.3.1; Me.81.

A musical instrument made of bell-metal, Bhāg. 8.15.21; उषसि स गजयूथकर्णतालैः पटुपटहध्वनिभिर्विनीतनिद्रः R.9.71.

The palm of the hand.

A lock, bolt.

The hilt of a sword.

An epithet of Śiva.

(In prosody) A trochee.

A particular measure of height; Rām.6.

A short span; a span measured by the thumb and the middle finger.

A dance; S. D.6.

लम् The nut of the palmyra tree.

Yellow orpiment.

Comp. अङ्कः N. of Balarāma; तालाङ्को मुसली हली Ak. ततः शिवमहीपालस्तालाङ्कानुज- बुद्धिमान् Parṇāl.5.47.

the plam-leaf used for writing.

a book.

a saw.

N. of Śiva.

a man endowed with every fortunate mark or sign.-अव (प) चरः a dancer, an actor; Rām.2.3.17.-केतुः an epithet of Bhīṣma. -क्षीरकम्, -गर्भः the exudation of the palm; toddy. -जटा -प्रलम्बः the fibres of the palm tree (Mar. काथ्या). -ज्ञ a. knowing the measure (in music); Y.3.115. -धारकः a dancer.-ध्वजः, -भृत् m. an epithet of Balarāma. -नवमी The 9th day of the bright half of भाद्रपद.

पत्रम् the palmleaf used for writing.

a kind of ear-ornament (hollow cylinder of gold thrust through the lobe of the ear). -पत्री f. A widow; L. D. B. -फलम् the fruit of the plam tree; तालफलादपि गुरुमतिसरसम् । किं विफलीकुरुषे कुचकल- शम् ॥ Gīt.9.2. -बद्ध, -शुद्ध a. measured, rhythmical, regulated by musical time. -भङ्गः The loss of the measure (in music). -मर्दलः a kind of musical instrument, a cymbal.

यन्त्रम् a kind of surgical instrument.

a lock, a lock and key. -रेचनकः a dancer, an actor. -लक्षणः an epithet of Balarāma. -वनम् a grove of trees. -वृन्तम् a fan; Ś.3.21; Ku.2.35; तालवृन्तेन किं कार्यं लब्धे मलयमारुते Udb. also तालवृन्तकः.

"https://sa.wiktionary.org/w/index.php?title=तालः&oldid=506712" इत्यस्माद् प्रतिप्राप्तम्