तिक्त
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
तिक्तम्, क्ली, (तेजयतीति । तिज + बाहुलकात् क्तः ।) पर्पटिकौषधिः । इति हेमचन्द्रः ॥
तिक्तः, पुं, (तेजयतीति । तिज + सामान्यापेक्ष- ज्ञापकात् चुरादीनां णिजभावे गत्यार्थाकर्म्म- केति क्तः ।) रसविशेषः । तित इति भाषा ॥ (यथा, सुश्रुते । १ । ४२ । “यो गले चोषमुत्पादयति मुखवैशद्यं जन- यति भक्तरुचिञ्चापादयति हर्षञ्च स तिक्तः ॥”) स वाय्वाकाशगुणबाहुल्यात् भवति । इति शिव- दासः ॥ तस्य गुणाः । जन्तुकुष्ठज्वरार्त्तिकास- दाहनाशित्वम् । रोचनत्वम् । इति राज- निर्घण्टः ॥ शीतत्वम् । तृषामूर्च्छापित्तकफ- विषोत्क्लेशरक्तगदनाशित्वम् । स्वयमरोचिष्णु- त्वम् । कण्ठस्तन्यास्यशोधनत्वम् । वातलत्वम् । अग्निकारित्वम् । नासाशोषणत्वम् । रूक्षत्वम् । लघुत्वञ्च । अतियुक्तस्य तस्य गुणाः । शिरःशूल- मन्यास्तम्भश्रमार्त्तिकम्पमूर्च्छातृषाकारित्वम् । बलशुक्रक्षयप्रदत्वञ्च । इति भावप्रकाशः ॥ * ॥ (“तिक्ताख्यो वत वातलोऽपि हि नृणां कुष्ठादि दोषापहः सोऽन्तः सर्व्वरुजापहो भ्रमहरो रुच्योऽपि संक्लेदहृत् । जिह्वास्फोटकनाशनोऽथ भवति क्षीणक्षतानां हितो वक्त्रोत्क्लान्तिहरः प्रकृष्टगुणधृत् निम्बादिकानां रसः ॥” इति हारीते प्रममे स्थाने सप्तमेऽध्याये ॥) सुगन्धः । इति मेदिनी । ते, २१ ॥ (सुरभिः । यथा, माघे । ५ । ३३ । “नादातुमन्यकरिमुक्तमदाम्बुतिक्तं धूताङ्कुशेन न विहातुमपीच्छताम्भः ॥” तिक्तस्तिक्तरसोऽस्यास्तीति । अर्श आदित्वात् अच् ।) कुटजवृक्षः । इति शब्दचन्द्रिका ॥ वरुणवृक्षः । इति शब्दमाला ॥ तिक्तरसयुक्ते, त्रि । इत्यमरः । १ । ५ । ९ ॥
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
तिक्त पुं।
तिक्तरसः
समानार्थक:तिक्त
1।5।9।2।1
तुवरस्तु कषायोऽस्त्री मधुरो लवणः कटुः। तिक्तोऽम्लश्च रसाः पुंसि तद्वत्सु षडमी त्रिषु॥
पदार्थ-विभागः : , गुणः, रसः
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
तिक्त¦ पु॰ तेजयति तिज--बा॰ कर्त्तरि क्त। रसभेदे(तेत) अमरः।
२ पर्पटकोषधौ न॰ हेमच॰।
३ सुगन्धेमेदि॰।
४ कुटजवृक्षे पु॰ शब्दच॰।
५ वरुणवृक्षे शब्द-माला। एतेषां तिक्तरसाधिक्यात्तषात्वम्।
६ तिक्तरस-युक्ते अमरः।
“षड्विधस्तु रसस्तत्र” भाषोक्तेर्यद्यपितिक्तस्य पार्थिवगुणत्वं तथापि वायोरुपष्टम्भवशादेव पा-र्थिवे तिक्तरसस्य सम्भवः तदेतत् सुश्रुते न्यरूपि यथा
“आकाशयवनदहनतोयभूनिषु यथासङ्ख्यमेकोत्तरपरि-वृद्धाः शब्दस्पर्शरूपरगन्धाः तस्मादाप्यो रसः परस्यरसं-सर्गात्परस्परानुग्रहात् परस्परानुप्रवेशाच्च सर्वेषु सर्वेषांसान्निध्यमस्त्युत्कर्षापककर्षात्तु ग्रहणम्। स खल्वाप्योरसः शेषभूतसंसर्गाद्विदग्धः षोढा विभज्यते। तद्यषा। मधुरोऽम्लो लवणः कटुकस्तिक्तः कषाय इति। ते चभूयःपरस्परसंसर्गात्त्रिषष्टिधा भिद्यन्ते। तत्र भूम्बम्बु-गुणबाहुल्यान्मधुरः। भूम्यग्निगुणबाहुल्यादम्लः। तोयाग्निगुणवाहुल्याल्लवणः। वाय्यम्मिगुणवाहुल्यात्क-टुकः वा{??}काशगुणबाहुल्यात्तिक्तः। पृथिव्यनिलगुण-बाहुल्यात्कषाय इति। तत्र मधुराम्ललवणा वातघ्नाः। [Page3288-b+ 38] मधुरतिक्तकषायाः पित्तघ्नाः। कटुतिक्तकषायाः श्ले-ष्मघ्नाः। तत्र वायुरात्मनैवात्मा पित्तमाग्नेयं श्लेष्मासौम्य इति त एव रसाः स्वयोनिवर्द्धना अन्ययीनिप्रश-मनाश्च। केचिदाहुरग्नोषोमीयत्वाज्जगतो रसा द्विविधाःसौम्या आग्नेयाश्च तत्र मधुरतिक्तकषायाः सौम्याः। कट्वम्ललवणा आग्नेयाः। मधुराम्ललवणाः स्निग्धागुरवश्च। कटुतिक्तकषाया रूक्षा लघवश्च। सौम्याःशीता आग्नेयाश्चीष्णाः”।
“सूक्ष्मरूक्षखरशिशिरलघुविशदं स्पर्शबहुलमीषत्तिक्तंविशेषतः कषायमिति वायवीयं तद्वैशद्यलाघवग्लपन-विरूक्षणविचारणकरमिति”। तिक्तरसलक्षणं तत्रोक्तं यथा
“यो गले चोषमुत्पादयतिमुखवैशद्यं जनयति भक्तरुचिं चापादयति हर्षञ्च सतिक्तः।
“तिक्तः शीतस्तृषामूर्च्छाज्वरपित्तकफान्जयेत्। रुच्यः स्वयमरोचिष्णुः कण्टस्तन्यास्यशोधनः। वातलोऽग्निकरो नासाशोषणो रूक्षणो लघुः”। रुच्यःअन्येषु वस्तुषु रुचिमुत्पादयति। स्वयमरोचिष्णुः यथानिम्बः स्वयन्न रोचते। अन्येषु रुचिं करोति (अति-युक्तस्य तिक्तस्य गुणाः) सोऽतियुक्तः शिरः शूलमन्या-स्तम्भश्रमार्त्तिकृत्। कम्पमूर्च्छावृषाकारी बलशुक्रक्षयप्रदः” भावप्र॰
“तिक्तः पित्तकफच्छेदी विषकुष्ठज्वरापहः। दीपनः पाचनो रुक्षः कण्डु कृमिहरो लघुः” आह्नि-कत॰।
“पित्तेन दूने रसने सितापि तिक्तायते हंसकुला-वतंस!” नैष॰ सुगन्धे।
“नादातुमन्यकरिमुक्तमदाम्बु-तिक्तम्” रघुः तिक्तं सुरभि
“कटुतिक्तकषायास्तुसौरभेऽपि प्रकोर्तिताः” केशवः मल्लि॰
“चूताङ्कुरस्वाद-कषायकण्ठः” मधुरकण्ठ इत्यर्थः।
“तस्यास्तिक्तैर्वनगज-मदैर्वासितं वान्तवृष्टिः” मेघ॰।
“तिक्तैः सुगन्धिभिस्तिक्त-रसवद्भिश्च” मल्लि॰।
“तोयक्रोडानिरतयुवती घ्राणति-क्तैर्मरुद्भिः” मेघ॰।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
तिक्त¦ mfn. (-क्तः-क्ता-क्तं)
1. Bitter.
2. Fragrant. m. (-क्तः)
1. A bitter taste, bitterness.
3. Fragrance, perfume.
3. A medicinal plant, (Echites antidysenterica.)
4. A tree, (Capparis trifoliata:) see वरुण। f. (-क्ता) Katuki, a medicinal plant. n. (-क्तं) A medicinal plant, (Mollugo pentaphylla.) E. तिज् to sharpen, (the appetite,) affix कर्त्तरि क्त |
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
तिक्त [tikta], a. [तिज्-बा˚ कर्तरि क्त]
Bitter, pungent (as one of the six flavours of Rasas); तस्यास्तिक्तैर्वनगजम- दैर्वासितं वान्तवृष्टिः Me.2.
Fragrant; कटुतिक्तकषायास्तु सौरभ्ये$पि प्रकीर्तिताः' इति केशवः Śi.5.33; तोयक्रीडानिरतयुवति- स्नानतिक्तैर्मरुद्भिः Me.33.
क्तः Bitter taste; (see under कटु).
The Kuṭaja tree.
Pungency.
Fragrance.-Comp. -गन्धा mustard. -तण्डुला long peper (Mar. पिंपळी). -धातुः bile. -फलः, -मरिचः the clearing-nut plant. -शाकम् a bitter (or fragrant) pot-herb (Mar. वायवर्णा); Rāj. T.5.49.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
तिक्त क्तकSee. below.
तिक्त mfn. bitter (one of the 6 modifications of taste , रस) , pungent MBh. xii , xiv Sus3r. etc.
तिक्त mfn. fragrant Megh. S3is3. v , 33
तिक्त m. a bitter taste , pungency W.
तिक्त m. fragrance W.
तिक्त m. Wrightia antidysenterica L.
तिक्त m. Capparis trifoliata L.
तिक्त m. Agathotes Chirayta Npr.
तिक्त m. = परि-ib.
तिक्त m. Terminalia Catappa ib.
तिक्त m. a sort of cucumber ib. (See. अनार्य-, किरात-, चिर-, महा-)
तिक्त n. N. of a medicinal plant L.
तिक्त n. a kind of salt Npr.