सामग्री पर जाएँ

तिथिः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिथिः, स्त्री पुं, (तनोति विस्तारयति चन्द्रकला- मिति । तन्यते चन्द्रकलयेति वा । तन + बाहु- लकात् इथिन् नादिलोपश्च । तदुक्तं “तन्यन्ते कलया यस्मात् तस्मात् तास्तिथयः स्मृताः ।” इति । यद्बा, अततीति । अत सातत्यगमने + “ऋतन्यञ्जीति ।” उणां । ४ । २ । इथिन् प्रत्य- येन अतिथिरिति सिद्धे बाहुलकात् अलोपः । इति वर्णविवेकः ।) चन्द्रकलाक्रियारूपा । चन्द्र- कलाक्रियोपलक्षितः काल इति वा । तस्याः स्वरूपं यथा, -- “अमादिपौर्णमास्यन्ता या एव शशिनः कलाः । तिथयस्ताः समाख्याताः षोडशैव वरानने ! ॥ तत्र प्रथमकलाक्रियारूपां प्रतिपत् एवं द्बिती- यादिकलाक्रियारूपा द्वितीयादिः । सा च वृद्धि- रूपा चेत् शुक्ला ह्रासरूपा चेत् कृष्णा ॥ यथा, “तत्र पक्षावुभौ मासे शुक्लकृष्णक्रमेण हि । चन्द्रवृद्धिकरः शुक्लः कृष्णश्चन्द्रक्षयात्मकः ॥ पक्षत्याद्यास्तु तिथयः क्रमात् पञ्चदश स्मृताः । दर्शान्ताः कृष्णपक्षे ताः पूर्णिमान्ताश्च शुक्लके ॥ गोभिलोक्तामावास्याघटकोपर्य्यधोभावापन्नसम- सूत्रपातन्यायेन राश्येकावच्छेदेन सहावस्थान- युक्तार्कमण्डलाच्चन्द्रमण्डलस्य राशिद्वादशांश- द्वादशांशभोगात्मकनिर्गमरूपवियोगेन शुक्लायाः प्रतिपदादितत्तत्तिथेरुत्पत्तिः । एवं गोभि- लोक्तपौर्णमासीघटकसप्तमराश्यवस्थानरूपपरम- नियोगानन्तरमर्कमण्डलप्रवेशाय चन्द्रमण्डलस्य राशिद्वादशांशद्वादशांशभोगात्मकप्रवेशरूप- सन्निकर्षेण कृष्णायास्तत्तत्तिथेश्चोत्पत्तिरिति । अथ नवमी । सा चाष्टमीयुता ग्राह्या । तत्रालावुभक्षणं न कर्त्तव्यम् । माघस्य शुक्ला नवमी महानन्दा । रामनवमीव्यवस्था तच्छब्दे द्रष्टव्या ॥ * ॥ अथ दशमी । सा च शुक्ला एकादश्या कृष्णा तु नवम्या युता ग्राह्या । अत्र कलम्बीभक्षणं न कर्त्तव्यम् ॥ * ॥ एकादशीव्यवस्था श्रीविष्णोः शयनव्यवस्था च तत्तच्छब्दे द्रष्टव्या ॥ * ॥ अथ द्वादशी । सा च एकादशीयुता ग्राह्या । अत्र पूतिका- भक्षणं न कर्त्तव्यम् । फाल्गुनस्य शुक्ला द्बादशी पुष्यनक्षत्रयुक्ता चेत् गोविन्दद्वादशी ॥ * ॥ अथ त्रयोदशी । सा च शुक्ला द्वादशीयुता कृष्णा परयुता ग्राह्या । अत्र वार्त्ताकीभक्षणं न कर्त्तव्यम् ॥ * ॥ अथ चतुर्द्दशी । सा शुक्ला पूर्णिमायुता कृष्णा त्रयीदशीयुता ग्राह्या । तत्र माषो न भोक्तव्यः । ज्यैष्ठकृष्ण- चतुर्द्दश्यां प्रदोषे सावित्रीव्रतं कर्त्तव्यम् । तत्र यदा त्रयोदशी दिवाभागे दण्डद्बयमात्रसत्त्वे- ऽपि चतुर्द्दशी भवेत् तद्दिने व्रतं कर्त्तव्यम् । पूर्ब्बाहे तद्विधत्वेऽपि पराहे त्रिसन्ध्यव्यापित्वे पराह एव । यदा तु पूर्ब्बापरयोर्न तथाविधा तदापि पराह एव । भाद्रे मासि कृष्णा चतु- र्द्दशी अघोरा । माघे कृष्णा चतुर्द्दशी रटन्ती । शिवरात्रिव्यवस्था तच्छब्दे द्रष्ठव्या ॥ * ॥ अथ पौर्णमासी । तत्र मांसं न भोक्तव्यम् । सा च चतुर्द्दशीयुता ग्राह्या । सा तु मासर्क्षयुता चेत् तदा महती । कार्त्तिकमासे कृत्तिकानक्षत्रयुता पौर्णमासी महाकार्त्तिकी एवमन्यत्रापि । महाज्यैष्ठी- व्यवस्था तच्छब्दे द्रष्टव्या । कोजागरव्यवस्था तच्छब्दे द्रष्टव्या ॥ * ॥ अथामावस्या । अत्र मांसं न भोक्तव्यम् । सा प्रतिपद्युता ग्राह्या । मङ्गलवारे यदि अमावस्या भवेत् तदा अरुणोदयमारभ्य मौनी भूत्वा यो गङ्गायां स्नायात् स सहस्रगोदानजन्यफलमाप्नुयात् । अमावस्याश्राद्धव्यवस्था श्राद्धशब्दे द्रष्टव्या । पौषमाघयोरमावास्या यदि दिवारविवार- व्यतीपात-श्रवणनक्षत्रयुक्ता भवति तदा अर्द्धो- दययोगः स्यात् । अयं कोटिसूर्य्यग्रहतुल्यः अत्र तावज्जलं गङ्गोदकतुल्यं यत्किञ्चिद्दानं सेतु- सन्निभञ्च भवति । इति तिथ्यादितत्त्वम् ॥ तिथि- कृत्यं मासशब्दे द्रष्टव्यम् ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिथिः [tithiḥ], m. or f. [अत्-इथिन् पृषो˚ वा ङीप् cf. Uṇ.4.2]

A lunar day; तिथिरेव तावन्न शउद्ध्यति Mu.5; Ku.6.93, 7.1.

The number '15'. -Comp. -अर्धः, -र्धम् (half the तिथि), a Karaṇa. -ईशः the regent of a lunar day.

क्षयः the day of new moon.

the day on which a tithi begins and ends without one sunrise or between two sunrises. -पत्री an almanac.-पालनम् observance of the rites prescribed for the several lunar days. -प्रणीः (-णिः) the moon; सायंतनीं तिथिप्रण्यः पङ्कजानां दिवातनीम् Bk.5.65. -प्रलयः (pl.) difference between solar and lunar days in any particular period; Aryabhaṭṭa 3.6. -वृद्धिः f. the day in which a tithi is completed under two suns (one which comprises two sunrises).

"https://sa.wiktionary.org/w/index.php?title=तिथिः&oldid=401273" इत्यस्माद् प्रतिप्राप्तम्