तिमिर
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
तिमिरम्, क्ली, (तिम्यतीति । तिम + “इषिमदि- मुदीति ।” उणां । १ । ५२ । इति किरच् ।) अन्धकारः । इत्यमरः । १ । १० । ३ ॥ (यथा, रामायणे । २ । २८ । १८ । “अतीववातस्तिमिरं बुभुक्षा चास्ति नित्यशः । भयानि च महान्त्यत्र अतो दुःखतरं वनम् ॥”) नेत्ररोगविशेषः । तस्य लक्षणमाह माधवकरः । “तिमिराख्यः स वै दोषश्चतुर्थं पटलं गतः । रुणद्धि सर्व्वतो दृष्टिं लिङ्गनाशमतः परम् ॥” (अस्य लक्षणानि यथा, -- “दोषे मण्डलसंस्थाने मण्डलानीव पश्यति । द्विधैकं दृष्टिमध्यस्थे बहुघा बहुधास्थिते ॥ दृष्टेरभ्यन्तरगते ह्रस्ववृद्धविपर्य्ययम् । नान्तिकस्थमधःसंस्थे दूरगं नोपरिस्थितम् ॥ पार्श्वे पश्येन्न पार्श्वस्थे तिमिराख्योऽयमामयः । प्राप्नोति काचतां दोषे तृतीयपटलाश्रिते ॥ तेनोर्द्धमीक्षते नाधस्तनुचेलावृतोपमम् । “त्रिंशद्भागा भुजङ्गस्य गन्धपाषाणपञ्चकम् । शुल्वतालकयोर्द्वौ द्वौ वङ्गस्यैकोऽञ्जनात्रयम् ॥ अन्धमूषीकृतं ध्मातं पक्वं विमलमञ्जनम् । तिमिरान्तकरं लोके द्वितीय इव भास्करः ॥ गोमूत्रे छगलरसेऽम्लकाञ्जिके च स्त्रीस्तन्ये हविषि विषे च माक्षिके च । यत्तुत्थं ज्वलितमनेकशो निषिक्तं तत्कुर्य्यात् गरुडसमं नरस्य चक्षुः ॥” “रसेन्द्रभुजगौ तुल्यौ तयोस्तुल्यमथाञ्जनम् । ईषत् कर्पूरसंयुक्तमञ्जनं नयनामृतम् ॥” “सामान्यं साधनमिदं प्रतिदोषमतः शृणु । वातजे तिमिरे तत्र दशमूलाम्भसा घृतम् ॥ क्षीरे चतुर्गुणे श्रेष्ठाकल्कपक्वं पिबेत्ततः ॥” “पित्तजे तिमिरे सर्पिर्जीवनीयफलत्रयैः । विपाचितं पाययित्वा स्निग्धस्य व्यधयेच्छिराम् ॥ श्लेष्मोद्भवेऽमृताक्वाथवराकणशृतं घृतम् । विध्येच्छिरां पीतवतो दद्याच्चानुविरेचनम् ॥” “रक्तजे पित्तवत्सिद्धिः शीतैश्चास्रं प्रसादयेत् ।” “दद्यादुशीरनिर्य्यूहचूर्णितं कणसैन्धवम् ॥ तत् शृतं सघृतं भूयः पचेत् क्षौद्रं घने पिबेत् । शीते चास्मिन् हितमिदं सर्व्वजे तिमिरेऽञ्जनम् ॥” “चक्षूरक्षायां सर्व्वकालं मनुष्यै- र्यत्नः कर्त्तव्यो जीविते यावदिच्छा । व्यर्थो लोकोऽयं तुल्यरात्रिन्दिवानां पुंसामन्धानां विद्यमानेऽपि वित्ते ॥” इति चोत्तरस्थाने त्रयोदशेऽध्याये वाभटे- नोक्तम् ॥ “सौवीरमञ्जनन्तुत्थन्ताप्यो धातुर्म्मनःशिला । चक्षुष्यं मधुकं लोहा मणयः पौष्यमञ्जनम् ॥ सैन्धवं शौकरीदंष्ट्रा कतकञ्चाञ्जनं शुभम् । तिमिरादिषु चूर्णं वा वर्त्तिर्व्वेयमनुत्तमा ॥” “वदने कृष्णसर्पस्य निहितं मासमञ्जनम् । ततस्तस्मात् समुद्धृत्य सशुष्कं चूर्णयेद्बुधः ॥ सुमनःक्षारकैः शुष्कैरर्द्धांशैः सैन्धवेन च । एतन्नित्याञ्जनं कार्य्यं तिमिरघ्नमनुत्तमम् ॥” इति चरके चिकित्सास्थाने २६ अध्याये ॥)
तिमिरः, पुं, (तिम्यति क्लिद्यति चक्षुरनेन । तिम + “इषिमदिमुदीति ।” उणां । १ । ५२ । इति किरच् ।) चक्षूरोगविशेषः । तस्य निदानादि यथा । चतुर्थपटलगतदोषमाह । “तिमिराख्यः स यो दोषश्चतुर्थपटलं गतः । रुणद्धि सर्व्वतो दृष्टिं लिङ्गनाश इति क्वचित् ॥ अस्मिन्नपि तमोभूते नातिरूढे महागदे । चन्द्रादित्यौ स नक्षत्रावन्तरीक्षे च विद्यतः ॥ निर्म्मलानि च तेजांसि भ्राजिष्णूनि च पश्यति । स एव लिङ्गनाशस्तु नीलिकाकाचसंज्ञितः ॥ यो दोषः दोषोऽत्र रोगः चतुर्थपटलं वाह्य- पटलं गतः स तिमिराख्यः । तिमिरदर्शनेन तिमिरमस्यास्तीति तिमिरः अर्श आदित्वात् । तस्य लक्षणमाह रुणद्धीत्यादि । स तिमि- राख्यः । सर्व्वतः सर्व्वत्र । लिङ्गनाश इति क्वचित् तन्त्रान्तरे लिङ्गनाशसंज्ञः । तस्य निरु- भृङ्गरजः भृङ्गराजः भङ्गगरा इति लोके । क्षीरकाकोल्या अलाभे अश्वगन्धामूलं ग्राह्यम् ॥ मधुपर्ण्यत्र जलजं यष्टीमधु चक्षुष्यत्वात् । तद- लाभे सामान्यं यष्टीमधु ग्राह्यं तूल्यगुणत्वात् ॥ त्रिफलाद्यं घृतम् ॥ * ॥ शतमेकं हरीतक्या द्विगुणञ्च विभीतकम् । चतुर्गुणं त्वामलकं वृषमार्कवयोः समम् ॥ चतुर्गुणोदकं दत्त्वा शनैर्म्मृद्वग्निना पचेत् । भागं चतुर्थं संरक्ष्य क्वाथं तमवतारयेत् ॥ शर्करा मधुकं द्राक्षा मधुयष्टिर्न्निदिग्धिका । काकोली क्षीरकाकोली त्रिफला नागकेशरम् ॥ पिप्पली चन्दनं मुस्तं त्रायमाणामथोत्पलम् । घृतप्रस्थसमं क्षीरं कल्कैरेतैः शनैः पचेत् ॥ हन्यात् सतिमिरं काचं नक्तान्ध्यं शुक्रमेव च । तथा स्रावञ्च कण्डूञ्च श्वयथुञ्च कषायताम् ॥ कलुषत्वञ्च नेत्रस्य विधर्म्मपटलान्वितम् । बहुनात्र किमुक्तेन सर्व्वान् नेत्रामयान् हरेत् ॥ यस्य चोपहता दृष्टिः सूर्य्याग्निभ्यां प्रपश्यतः । तस्यैतद्भेषजं प्रोक्तं मुनिभिः परमं हितम् ॥ मार्ज्जितं दर्पणं यद्वत् परां निर्म्मलतां व्रजेत् । तद्वदेतेन पीतेन नेत्रं निर्म्मलतामियात् ॥ वारिद्रोणद्वयं चात्र वृषमार्कवयोस्तुले । काकोलीयुगलालाभे अश्वगन्धामूलं ग्राह्यम् ॥ द्वितीयं त्रिफलाद्यं घृतम् ॥ * ॥ वासाविश्वामृतादार्व्वीरक्तचन्दनचित्रकैः । भूनिम्बनिम्बकटुकापटोलत्रिफलाम्बुदैः ॥ निशाकलिङ्गकुटजैः क्वाथः सर्व्वाक्षिरोगहा । वैस्वर्य्यं पीनसं श्वासं कासं नाशयति ध्रुवम् ॥ वासादिक्वाथः । इति नेत्ररोगाधिकारः ।” इति भावप्रकाशः ॥ * ॥ किञ्च । गारुडे १९८ अध्याये । “कतकस्य फलं शङ्खं सैन्धवं त्र्युषणं वचा । फेनो रसाञ्जनं क्षौद्रं विडङ्गानि मनःशिला ॥ एषां वर्त्तिर्हन्ति कासं तिमिरं पटलं तथा ॥”
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
तिमिर नपुं।
अन्धकारः
समानार्थक:अन्धकार,ध्वान्त,तमिस्र,तिमिर,तमस्,अन्ध,वृत्र
1।8।3।1।4
अन्धकारोऽस्त्रियां ध्वान्तं तमिस्रं तिमिरं तमः। ध्वान्ते गाढेऽन्धतमसं क्षीणोऽन्धतमसं तमः॥
: घनान्धकारः, क्षीणतमस्, व्यापकतमस्
पदार्थ-विभागः : , अभावः, तेजोभावः
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
तिमिर¦ पुं न॰ तिम--किरच् अर्द्धर्चा॰।
१ अन्धकारे
२ नेत्ररोग-भेदे च।
“तिमिराखयः स वै दोषश्चतुर्थपटलं गतः। रुणद्धिसर्वतो दृष्टिं लिङ्गनाशमतःपरम्” माधवः अक्षिपटलशब्दे
४३ पृ॰ दृश्यम्।
“सामानाधिकरण्यं हि तेजस्तिमिरयोःकुतः”।
“पतिते घनतिमिरमुषिः” माघः।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
तिमिर¦ n. (-रं)
1. Darkness.
2. Gutta serena, total blindness from affection of the optic nerve. E. तिम् to be damp, or तम् to give pain, किरच् Unadi affix, in the latter case, इत् is inserted.
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
तिमिर [timira], n. [तिम्-किरच्] Dark; विन्यस्यन्तीं दृशौ तिमिरे पथि Gīt.5; बभूवुस्तिमिरा दिशः Mb.
रः, रम् Darkness; तन्नैशं तिमिरमपाकरोति चन्द्रः Ś.6.3; Ku.4.II; Śi.4.57.
Blindness; तेजोमयं तिमिरदोषहतं हि चक्षुः Rāj. T.4.314.
Iron-rust. -Comp. -अरिः, -नुद्, m., -रिपुः the sun; तिमिरारिस्तमो हन्ति प्रातः स्ववधभीरवः Udb.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
तिमिर mf( आ)n. (fr. तमर्[Old Germ. demar] = तमस्)dark , gloomy MBh. vi , 2379 R. vi , 16 , 104
तिमिर mf( आ)n. = -नयनVarBr2. xx , 1 Sch.
तिमिर m. a sort of aquatic plant(See. -वन) VarBr2S. lv , 11
तिमिर n. darkness (also pl. ) Ya1jn5. iii , 172 MBh. etc. ( ifc. f( आ). R. v , 10 , 2 Katha1s. xviii )
तिमिर n. darkness of the eyes , partial blindness (a class of morbid affections of the coats [ पटल] of the eye) Sus3r. i , iii , v f. Asht2a7n3g. vi , 13 Ra1jat. iv , 314
तिमिर n. iron-rust Npr.
तिमिर n. N. of a town R. iv , 40 , 26
तिमिर n. See. वि-, स-.
Purana index
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
--the God of night. वा. १०८. ३२.