सामग्री पर जाएँ

तिलक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिलकम्, क्ली, (तिलति स्निह्यतीति । तिल + “क्वुन् शिल्पिसंज्ञयोः ।” इति क्वुन् ।) क्लोम । कृष्णवर्णसौवर्च्चलम् । इत्यमरः । २ । ६ । ६५ ॥ सौवर्च्चलम् । इति मेदिनी । के, १०० ॥

तिलकः, पुं, (तिल इव कायतीति । कै + कः ।) पुष्पवृक्षविशेषः । तत्पर्य्यायः । विशेषकः २ मुखमण्डनकः ३ पुण्ड्रकः ४ पुण्ड्रः ५ स्थिर- पुष्पी ६ छिन्नरुहः ७ दग्धरुहः ८ मृतजीवः ९ तरुणीकटाक्षकामः १० वासन्तसुन्दरः ११ दुग्धरुहः १२ भालविभूषणसंज्ञः १३ पुन्नागः १४ रेठकः १५ । इति राजनिर्घण्टः ॥ क्षुरकः १६ श्रीमान् १७ पुरुषः १८ छत्रपुष्पकः १९ । इति भावप्रकाशः ॥ (यथा, रघुः । ९ । ४१ । “न खलु शोभयति स्म वनस्थलीं न तिलकस्तिलकः प्रमदामिव ॥”) अस्य गुणाः । पाके कटुत्वम् । वातपित्तकफ- नाशित्वम् । बलपुष्टिमेदःकारित्वम् । हृद्यत्वम् । लघुत्वञ्च । तत्त्वग्गुणाः । कषायत्वम् । उष्ण- त्वम् । पुंस्त्वदन्तदोषकृमिशोफव्रणरक्तदोषनाशि- त्वञ्च । इति राजनिर्घण्टः ॥ * ॥ (तिल + स्वार्थे कन् ।) शरीरस्थतिलः । तत्पर्य्यायः । तिल- कालकः २ । इत्यमरः । २ । ६ । ४९ ॥ कालकः ३ पिप्लुः ४ जडुलः ५ । इति हेमचन्द्रः ॥ * ॥ मरु- वकः । इति रत्नमाला ॥ अश्वभेदः । रोग- भेदः । इति मेदिनी । के, १०० ॥ शेषस्य निदानलक्षणे यथा, -- “कृष्णानि तिलमात्राणि नीरुजानि समानि च । वातपित्तकफोच्छेकात् तान् विद्यात्तिलकाल- कान् ॥” इति माधवकरः ॥ प्रधाने त्रि । इति नानार्थध्वनिमञ्जरी ॥ ध्रुवक- भेदः । यथा, -- “पञ्चविंशतिवर्णाङ्घ्रितिलको ध्रुवको भवेत् । इष्टश्चच्चत्पुटे ताले रसे वीरेऽद्भुतेऽपि वा ॥” इति सङ्गीतदामोदरः ॥

तिलकः, पुं क्ली, (तिलवत् तिलपुष्पवत् कायतीति । कै + कः ।) चन्दनादिना ललाटादिद्वादशांङ्ग- कर्त्तव्यचिह्नविशेषः । तत्पर्य्यायः । तमालपत्रम् २ चित्रकम् ३ विशेषकम् ४ । इत्यमरः । २ । ६ । १२३ ॥ (यथा, माघे । ३ । ६३ । “विशेषको वा विशिशेष यस्याः श्रियं त्रिलोकीतिलकः स एव ॥”) अथ द्वादशतिलकविधिः । पद्मपुराणे उत्तर- खण्डे । “ललाटे केशवं ध्यायेन्नारायणमथोदरे । वक्षःस्थले माधवन्तु गोविन्दं कण्ठकूपके ॥ विष्णुञ्च दक्षिणे कुक्षौ वाहौ च मधुसूदनम् । त्रिविक्रमं कन्धरे तु वामनं वामपार्श्वके ॥ श्रीधरं वामबाहौ तु हृषीकेशन्तु कन्धरे । पृष्ठे तु पद्मनाभञ्च कट्यां दामोदरं न्यसेत् ॥ तत्प्रक्षालनतोयंन्तु वासुदेवेति मूर्द्धनि ॥” किञ्च । “ऊर्द्ध्वपुण्ड्रं ललाटे तु सर्व्वेषां प्रथमं स्मृतम् । ललाटादिक्रमेणैव धारणन्तु विधीयते ॥ इति । एवं न्यासं समाचर्य्य सम्प्रदायानुसारतः । न्यसेत् किरीटमन्त्रञ्च मूर्द्ध्व्नि सर्व्वार्थसिद्धये ॥” अथ किरीटमन्त्रः । ओम् श्रीकिरीटकेयूर- हारमकरकुण्डलचक्रशङ्खगदापद्महस्तपीताम्बर- धरश्रीवत्साङ्कितवक्षःस्थलश्रीभूमि-सहितस्वात्म- ज्योतिर्दीप्तिकराय सहस्रादित्यतेजसे नमो नमः ।” इति श्रीहरिभक्तिविलासे ४ विलासः ॥ तस्य धारणप्रकारो यथा, -- “द्वादशाङ्गे ललाटादौ तिलकं हरिमन्दिरम् । स्नानान्ते वैष्णवः कुर्य्यात् प्रत्येकं कृष्णनामभिः ॥ वामे वक्षसि नेत्रान्ते गण्डेऽंशे शङ्खचिह्नितम् । तथैव दक्षिणे कुर्य्याद्धरेश्चक्राङ्कितं मुने ! ॥ * ॥ ललाटे केशवं विद्यात् कण्ठे श्रीपुरुषोत्तमम् । वामबाहौ वासुदेवं सव्ये दामोदरन्तथा ॥ नाभौ नारायणञ्चैव माधवं हृदये तथा । गोविन्दं दक्षिणे पार्श्वे वामे चैव त्रिविक्रमम् ॥ विष्णुं सव्ये कर्णमूले दक्षिणे मधुसूदनम् । शिरोमध्ये हृषीकेशं पद्मनाभञ्च पृष्ठतः ॥ हरेर्द्वादशनामानि पठित्वा तिलकानि तु । यः कुर्य्याद्वैष्णवो नित्यं स प्रेमभक्तिमाप्नुयात् ॥ * ॥ ये कण्ठलग्नतुलसीभवकाष्ठमाला ये द्बादशाङ्गहरिनामकृतोर्द्ध्वपुण्ड्राः । ये कृष्णभक्तिसुदृढा धृतशङ्खचक्रा- स्ते वैष्णवा भुवनमाशु पवित्रयन्ति ॥ * ॥ तिलकन्तूर्द्ध्वपुण्ड्राख्यं मध्यच्छिद्रं हि नारद ! । यदि कुर्य्याल्ललाटे तद्बिज्ञेयं हरिमन्दिरम् ॥ आनासामूलमाश्रित्य शिरोमध्यगतं मुने । हरिपादाकृतं नासामूलमारभ्य यत्नतः ॥ गोरोचना च कस्तूरी हरिद्रागुरुचन्दनम् । वल्मीकमृत्तिका गन्धः पद्मकं हरिचन्दनग् ॥ गन्धकाष्ठं महानिम्बो यमुनातीरमृत्तिका । गुरुपादरजोवारिणी साध्वङ्घ्रिरजोजले ॥ कृत्वा प्रतिदिनं स्नानमेतैर्गन्धमृदादिभिः । चारु यत्तिलकं ग्राह्यं तन्नाम्ना वैष्णवैर्ध्रुवम् ॥ * ॥ काम्यं नैमित्तिकं नित्यं यत्किञ्चित् कर्म्म नारद ! । वर्णाश्रमाणां तन्नास्ति स्नानान्ते तिलकं विना ॥ कर्म्म वर्णाश्रमाणां स्यात दैवं पैत्रं न तत्फलम् । स्नानं सन्ध्यां पञ्चयज्ञान् पैत्रं होमादि कर्म्म यः । विना तिलकदर्भाभ्यां कुर्य्यात्तन्निष्फलं भवेत् ॥” इति पाद्मोत्तरखण्डम् ॥ * ॥ “वीक्ष्यादर्शे जले वापि यो विदध्यात् प्रयत्नतः । ऊर्द्ध्वपुण्ड्रं महाभागः स याति परमाङ्गतिम् ॥” इति पाद्मे पातालखण्डम् ॥ * ॥ “शिवागमे दीक्षितैस्तु धार्य्यं तिर्य्यक् त्रिपुण्ड्रकम् । विष्ण्वागमे दीक्षितस्तु ऊर्द्ध्वपुण्ड्रं विधारयेत् ॥” इति नागोजीभट्टधृतसूतसंहिता ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिलक पुं।

तिलकवृक्षः

समानार्थक:तिलक,क्षुरक,श्रीमत्

2।4।40।1।1

तिलकः क्षुरकः श्रीमान्समौ पिचुलझावुकौ। श्रीपर्णिका कुमुदिका कुम्भी कैटर्यकट्फलौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

तिलक पुं।

देहस्थतिलचिह्नः

समानार्थक:तिलक,तिलकालक

2।6।49।2।4

वलिरः केकरे खोडे खञ्जस्त्रिषु जरावराः। जडुलः कालकः पिप्लुस्तिलकस्तिलकालकः॥

पदार्थ-विभागः : चिह्नम्

तिलक नपुं।

उदर्यजलाशयः

समानार्थक:तिलक,क्लोमन्

2।6।65।2।1

पश्चाद्ग्रीवाशिरा मन्या नाडी तु धमनिः शिरा। तिलकं क्लोम मस्तिष्कं गोर्दं किट्टं मलोऽस्त्रियाम्.।

पदार्थ-विभागः : अवयवः

तिलक पुं-नपुं।

ललाटकृततिलकम्

समानार्थक:तमालपत्र,तिलक,चित्रक,विशेषक,अपाङ्ग

2।6।123।1।2

तमालपत्रतिलकचित्रकाणि विशेषकम्. द्वितीयं च तुरीयं च न स्त्रियामथ कुङ्कुमम्.।

 : कुङ्कुमम्

पदार्थ-विभागः : आभरणम्

तिलक नपुं।

कृष्णवर्णलवणम्

समानार्थक:तिलक

2।9।43।1।4

सौवर्चलेऽक्षरुचके तिलकं तत्र मेचके। मत्स्यण्डी फाणितं खण्डविकारः शर्करा सिता॥

पदार्थ-विभागः : पक्वम्

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिलक¦ न॰ तिल--क्कुन् तिल + इवार्थे स्वल्पे वा कन् वा।

१ क्लोमनि

२ कृष्णसौवर्चले अमरः

३ सौवर्चले मेदि॰।

४ तिलवृक्षे, पु॰ राजनि॰।

५ अश्वभेदे, पुंस्त्री॰ मेदि॰।

६ रोगभेदे, अमरः।

७ मरुवके च हेमच॰। स्वनामख्यातेनासादौ धार्य्ये

८ चन्दनादिविशेषके पुंन॰। तस्थधारणप्रकारो यथा
“द्वादशाङ्गे ललाटादौ तिलकंहरिमन्दिरम्। स्नानान्ते वैष्णवः कुर्य्यात् प्रत्येकंकृष्णनामभिः। वामे वक्षसि नेत्रान्ते गण्डेऽंसे शङ्ख-चिह्नितम्। तथैव दक्षिणे कुर्य्याद्धरेश्चक्राङ्कितं मुने!। ललाटे केशवं विद्यात् कण्ठे श्रीपुरुषोत्तमम्। वामवाहौवासुदेवं सव्ये दामोदरन्तथा। नाभौ नारायणञ्चैवमाधवं हृदये तथा। गोविन्दं दक्षिणे पार्श्वे वामे चैवत्रिविक्रमम्। विष्णुं सव्ये कर्णमूले दक्षिणे मधुसू-दनम्। शिरोमध्ये हृषीकेशं पद्मनाभञ्च पृष्ठतः। हरेर्द्वा-दशनामानि पठित्वा तिलकानि तु। यः कुर्य्याद्वैष्णवोनित्यं स प्र मभक्तिमाप्नुयात्। ये कण्ठलग्नतुलसीभव-काष्ठमाला ये द्वादशाङ्गहरिनामकृतोर्द्धपुण्ड्राः। ये कृष्ण-भक्तिसुदृढा धृतशङ्खचक्रास्ते वैष्णवा भुवनमाशु पवित्र-यन्ति। तिलकन्तूर्द्धपुण्ड्राख्यं मध्यच्छिद्रं हि नारद!। यदि कुर्य्याल्ललाटे तद्विज्ञेयं हरिमन्दिरम्। आनासा-मूलमाश्रित्य शिरोमध्यगतं मुने!। हरिपादाकृतं ना-सामूलमारभ्य यत्नतः। हरिमन्दिरवत् सर्वं तद्राधावल्ल-भीयकम्। श्रीराधावल्लभीयं यत्तिलकं सुमनोहरम्। यौगलं तत्तु विज्ञेयं यदि मध्यसुरङ्गितम्। यदूर्द्धपुण्ड्रंतिलकं शोभनं तन्मनोहरम्। तन्मध्ये पीतरेखञ्च श्रीम-द्रामानुजं विदुः। श्रीरामोपामना यस्य तिलकं तूर्द्ध्व-पुण्ड्रकम्। भ्रुवोर्म्मध्ये सविन्दु स्याद् यदि विप्र! मनो-हरम्। हरेः सर्वावताराणां मत्स्यादीनां विशेषतः। उपासकानां तिलकं केवलं हरिमन्दिरम्। ऊर्द्ध्व-पुण्ड्रं द्विजः कुर्य्यात् क्षत्रियाणां तथैव च। वैश्या-नान्तु तथा विप्र! शूद्रादेर्मण्डलाकृति। अच्छिद्रमूर्द्ध्व-पुण्ड्रन्तु ये कुर्वन्ति जनाधमाः। तेषां ललाटे सततं[Page3304-a+ 38] शुनः पादो न संशयः। दृष्ट्वा भाले द्विजातीनामच्छिद्र-मूर्द्ध्वपुण्ड्रकम्। कार्ष्णः कृष्णिस्मृतिं कृत्वा वस्त्रेणाच्छा-दयेन्मुखम्। ललाटदक्षिणे ब्रह्मा वसेद्वामे महेश्वरः। मध्ये विष्णुर्वसेन्नित्यं तस्मान् मध्यं न लेपयेत्। वर्त्तुलंतिर्य्यगच्छिद्रं ह्रस्वं दीर्घं ततं नतम्। षष्ठलक्षणसंयुक्तंतिलकं यन्निरर्थकम्। स्वनित्रयष्टिकुकूनत्रिशूलमुकुरा-कृति। त्रिपुण्ड्रमर्द्धचन्द्रञ्च तिलकं यन्निरर्थकम्। प्रमाणन्तूर्द्ध्वपुण्ड्रस्य दीर्घं स्यात् कलिवर्द्धनम्। आनासा-मूलमारभ्य ब्रह्मरन्ध्रगतं यदि। शूद्रस्येकाङ्गुलं प्रोक्त-मायतं द्व्यङ्गुलं विशि। क्षत्रिये त्र्यङ्गुलं तद्वद्ब्राह्मणेचतुरङ्गुलम्। नासिकायास्त्रिभागैको भागोमानेन योभवेत्। भ्रुवोर्मध्यादधः स्थानं मूलमाहुर्मणीषिणः। ब्रह्मचारी गृहस्थश्च वानप्रस्थो यतिस्तथा। कुर्य्यात्यदूर्द्ध्वपुण्ड्रं तद्वैष्णवो हरिमन्दिरम्। वैष्णवा विप्राभूपाश्चेत् वैश्यशूद्रान्त्यजाश्रमाः। यदूर्द्ध्वपुण्ड्रं विभृ-युस्तदेव हरिमन्दिरम्। नरोवाप्यथ वा नारी यदिकृष्णपथं लभेत्। यत्नतस्तुलसीमाला सन्धार्य्या हरिम-न्दिरम्। मध्यच्छिद्रं न कुर्य्यात् यस्तिलकं यदि वैष्णवः। श्वपदं तच्चितातुल्यं भवेन्नारद! नान्यथा। दण्डाकारं द्वि-रेखं यत्तिलकं मूलकोणकम्। मध्यच्छिद्रन्तु तत्प्राहु-रूर्द्ध्वपुण्ड्रं मनोहरम्। अधोमुखाब्जकलिकाकारंतिलकसुत्तमम्। मध्यच्छिद्रं युग्मरेखमूर्द्ध्वपुण्ड्रं प्रकी-र्त्तितम्। तीर्थमृद् यज्ञकाष्ठञ्च विल्वोमलयसम्भवम्। अश्वत्थतुलसीमूलमृत्तिका गोष्पदस्य च। जाह्न{??}ई मृन्-महानिन्बतुलसीकाष्ठमेव च। कस्तूरीकुङ्कुमं फल्गु-सिन्दूरं रक्तचन्दनम्। गोरोचना गन्धकाष्ठं जलं चागुरुगोमयम्। धात्रीमूलस्य मृद्गन्धो हरिद्रा गोगृहस्यच। स्नानान्ते सर्ववर्णानामाश्रामाणान्तथैव च। एतानि तिलकान्याहुः सन्ध्यादिसर्वकर्म्मसु”।
“गङ्गामृत्तुलसीमूलमृत्तिकामलयोद्भवम्। साधोश्चरणसंलग्नं रजोमृद्गोष्पदस्य च। याऽश्वत्थमूलमृद्गोपीचन्दनं तीर्थमृत्तिका। कुङ्कुमं तुलसीकाष्ठं वैष्णवा-हृतमृत्तिका। गोरोचना च कस्तूरी हरिद्रागुरुचन्द-नम्। वल्मीकमृत्तिकागन्धः पद्मकं हरिचन्दनम्। गन्धकाष्ठं महानिम्बो यमुनातीरमृत्तिका। गुरुपादरजोवारिसुसाध्वङ्घ्रिरजो जले। कृत्वा प्रतिदिनं स्नानमे-तैर्गन्धमृदादिभिः। चारु यत्तिलकं ग्राह्यं तन्नाम्नावैष्णवैर्ध्रुवम्। काम्यं नैमित्तिकं नित्यं यत् किञ्चित्[Page3304-b+ 38] कर्म्म नारद!। वर्णाश्रमाणां तन्नास्ति स्नामान्ते तिलकंविना। कर्म्म वर्णाश्रमाणां स्यात् दैवं पैत्रं न तत्फ-लम्। स्नानं सन्ध्यां पञ्च यज्ञान् पैत्रं होमादिकर्म्म यः। विना तिलकदर्भाभ्यां कुर्य्यात्तन्निष्फलं भवेत्”। इतिपद्मोत्तरखण्डम्
“वीक्ष्यादर्शे जले वापि यो विदध्यात्प्रयत्नतः। ऊर्द्ध्वपुण्ड्रं महाभागः स याति परमाङ्गतिम्” पाद्मे पातालखण्डे
“शिवागमे दीक्षितैस्तु धार्य्यंतिर्य्यक् त्रिपुण्ड्रकम्। विष्ण्वागमे दीक्षितस्तु ऊर्द्ध्व-पुण्ड्रं विधारयेत्”। इति नागोजीभट्टधृतसूतसंहिता। पद्मपुराणे उत्तरखण्डे
“ललाटे केशवं ध्यायेन्नारायणमथोदरे। वक्षःस्थले माधवन्तु गोविन्दं कण्ठकूपके। विष्णुञ्चदक्षिणे कुक्षौ वामे च मधुसूदनम्। त्रिविक्रमं कन्धरेतु वामनं वामपार्श्वके। श्रीधरं वामवाहौ तु हृषीकेशन्तुकन्धरे। पृष्ठे तु पद्मनाभञ्च कट्यां दामोदरं न्यसेत्। तत्प्रक्षालनतोयन्तु वासुदेवेति मूर्द्धनि”। किञ्च
“ऊर्द्ध्वपुण्ड्रंललाटे तु सर्वेषां प्रथमं स्मृतम्। ललाटादिक्रमेणैवधारणन्तु विधीयते” इति
“एवं न्यासं समाचार्य्य सम्प्र-दायानुसारतः। न्यसेत् किरीटमन्त्रञ्च मूर्द्ध्नि सर्वार्थ-सिद्धये” अथ किरीटमन्त्रः
“ओम् श्रीकिरीटकेयूरहार-मकरकुण्डलचक्रशङ्खगदापद्महस्तपीताम्बरधरश्रीवत्सा-ङ्कितवक्षःस्थलश्रीभूमिसहितस्वात्मज्योतिर्दीप्तिकराय सह-स्रादित्यतेजसे नमो नमः” हरिभक्तिविलामे

४ विलासः। ऊर्द्ध्वपुण्ड्रशब्दे अधिकं दृश्यम्।

९ ध्रुवकभेदे यथा
“पञ्चविंशतिवर्णाङ्घ्रिस्तिलको ध्रुवको भवेत्। इष्टश्चञ्चत्-पुटे ताले रसे वीरे अद्भूतेऽपि वा” सङ्गीतदा॰।
“मुखेमधुश्रीस्तिलकं प्रकाश्य” कुमा॰। तिलक इव उत्तरप-दस्यः

१० श्रेष्ठे
“श्रियं त्रिलोकी तिलकः स एव”।
“लोध्रचूर्णतिलकाकृतिः” माघः। स्वार्थे क।

११ तिलवृक्षेराजनि॰।
“न तिलकस्तिलकः प्रमदामिव” रघुः।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिलक¦ mfn. (-कः-का-कं)
1. Spotted, freckled, a person having moles or spots.
2. Chief, principal. mn. (-कः-कं) A mark or marks made with coloured earths or unguents upon the forehead, and between the eye-brows, either as an ornament or a sectarial distinction. m. (-कः)
1. A freckle, a natural mark on the person.
2. A kind of tree, commonly Tila.
3. A sort of horse.
4. A title, especially in composition, implying pre-eminence, as रघुवंशतिलकः the Tilaka of the race of RAGHU, a name of RAMA. n. (-कं)
1. The bladder.
2. Black Sochal salt, a factitious salt, containing sulphur and iron, &c.
3. A disease, the appearance of dark spots on the skin, un- attended with inflammation. f. (-का) A kind of necklace. E. तिल sesamum, &c. कन् added, or तिल् to go or be unctuous, and क्वुन् aff.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिलकः [tilakḥ], [तिल्-क्वुन्, तिल इवार्थे स्वल्पे वा कन् वा]

A species of tree with beautiful flowers; Rām.2.94.9; आक्रान्ता तिलकक्रियापि तिलकैर्लीनद्विरेफाञ्जनैः M.3,5; न खलु शोभयति स्म वनस्थलीं न तिलकस्तिलकः प्रमदामिव R.9.41. Kālidāsa describes the beauty of this tree as being akin to that of the saffron-mark on the forehead of a woman. The name suggests a relation to tila. the sesame plant, Sesamum indicum Linn. Now this plant has got flowers that have got a very pretty appearance. It is a shrub and not a tree. It grows four to five feet in height. Its flower has five petals. The lower petal is the longest. In wild variety there is a promiment spot on the longest petal which is highly suggestive of the saffron-mark on the forehead of a woman.

A freckle or natural mark under the skin.

The sesamum tree.

कः, कम् A mark made with sandalwood or unguents &c.; मुखे मधुश्री- स्तिलकं प्रकाश्य Ku.3.3; कस्तूरिकातिलकमालि विधाय सायम् Bv.2.4;1.121.

The ornament of anything (used at the end of comp. in the sense of 'best', 'chief' or 'distinguished'); कुल˚; जीवलोक˚ Māl.9.21; यस्य न विपदि विषादः संपदि हर्षो रणे न भीरुत्वम् । तं भुवनत्रयतिलकं जनयति जननी सुतं विरलम् ॥ Pt.1.15.

The burden of a song (ध्रुवक). -का A kind of necklace.

कम् The bladder.

The right lung.

A kind of salt.

A kind of disease, the appearance of dark spots on the skin without any inflammation.

Alliteration. -Comp. -आश्रयः the forehead.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिलक m. ( g. स्थूला-दि)Clerodendrum phlomoides (Symplocos racemosa L. ) MBh. etc.

तिलक m. a freckle (compared to a sesamum-seed) VarBr2S. l , 9 ; lii , 10 Katha1s.

तिलक m. a kind of skin-eruption L.

तिलक m. (in music) N. of a ध्रुवक

तिलक m. a kind of horse L.

तिलक m. N. of a prince of कम्पनाRa1jat. viii , 577 ff

तिलक m. ( n. Pan5cad. ii , 57 )a mark on the forehead (made with coloured earths , sandal-wood , or unguents , either as an ornament or a sectarial distinction) Ya1jn5. i , 293 MBh. iii , 11591 R. ( ifc. f( आ). , iii ) etc.

तिलक m. the ornament of anything (in comp. ) Pan5cat. i , 1 , 92 Katha1s. etc. ( ifc. f( आ). Ra1jat. iii , 375 )

तिलक n. id. L.

तिलक n. the right lung L.

तिलक n. black sochal salt L.

तिलक n. alliteration Ra1jat.

तिलक n. a metre of 4 x 6 syllables

तिलक n. = त्रि-श्लोकीL.

तिलक n. a kind of observance Ka1lanirn2. Introd. 12

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Tilaka : m. (pl.): Name of a Janapada.

Listed by Saṁjaya among the northern Janapadas (also called Deśas 6. 10. 68) of the Bhāratavarṣa 6. 10. 37, 5; (tilakāḥ pārasīkāś ca) 6. 10. 51.


_______________________________
*3rd word in right half of page p734_mci (+offset) in original book.

Mahabharata Cultural Index

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Tilaka : m. (pl.): Name of a Janapada.

Listed by Saṁjaya among the northern Janapadas (also called Deśas 6. 10. 68) of the Bhāratavarṣa 6. 10. 37, 5; (tilakāḥ pārasīkāś ca) 6. 10. 51.


_______________________________
*3rd word in right half of page p734_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=तिलक&oldid=499987" इत्यस्माद् प्रतिप्राप्तम्