तीर्थ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तीर्थम्, क्ली, (तरति पापादिकं यस्मात् । तॄ + “पातॄतुदिवचीति ।” उणां । २ । ७ । इति थक् ।) पुण्यस्थानादि । तीर्थतोयस्य स्नाने पुण्यत्वं यथा, -- “नदीदेवनिखातेषु तडागेषु सरःसु च । स्नानं समाचरेन्नित्यं गर्त्तप्रस्रवणेषु च ॥ निपानादुद्धृतं पुण्यं ततः प्रस्रवणादिकम् । ततोऽपि सारसं पुण्यं ततो नादेयमुच्यते ॥ तीर्थतोयं ततः पुण्यं गङ्गातोयं ततोऽधिकम् ॥” इत्याद्ये वह्निपुराणे स्नानविधिर्नाम ४ अध्यायः ॥ जलसमीपस्थारत्निमात्रस्थानम् । यथा, आदित्य- पुराणे । “अरत्निमात्रं जलं त्यक्त्वा कुर्य्याच्छौचमनुद्धृते । पश्चाच्च शोधयेत्तीर्थमन्यथा न शुचिर्भवेत् ॥ राजाकृतकृत्यो भवति । तानि चोक्तानि नीति- शास्त्रे यथा, -- ‘मन्त्री पुरोहितश्चैव युवराजश्च भूपतिः । पञ्चमो द्बारपालश्च षष्ठोऽन्तर्वंशिकस्तथा ॥ कारागाराधिकारी च द्रव्यसञ्चयकृत्तथा । कृत्याकृत्येषु चार्थानां नवमो विनियोजकः ॥ प्रदेष्टा नगराध्यक्षः कार्य्यनिर्म्माणकृत्तथा । धर्म्माध्यक्षः सभाध्यक्षो दण्डपालस्त्रिपञ्चमः ॥ षोडशो दुर्गपालश्च तथा राष्ट्रान्तपालकः । अटवीपालकान्तानि तीर्थान्यष्टादशैव तु ॥ चारान् विचारयेत्तीर्थे स्वात्मनश्च परस्य च । पाषण्डादीनविज्ञातानन्योन्यमितरेष्वपि ॥ मन्त्रिणं युवराजञ्च हित्वा स्वेषु पुरोहितम् ॥’ इत्येषां तीर्थशब्दवाच्यत्वम् ॥ हलायुधः । योनौ जलावतारे च मन्त्र्याद्यष्टादशस्वपि । पुण्यक्षेत्रे तथा पात्रे तीर्थं स्यात् दर्शनेष्वपि ॥” इति तट्टीकायां नीलकण्ठः ॥) योनिः । दर्शनम् । घट्टः । इति हेमचन्द्रः ॥ विप्रः । आगमः । निदानम् । अग्निः । इति संक्षिप्तसारे उणादिवृत्तिः ॥ (पुण्यकालः । इति स्वामी ॥ यथा, भागवते । १ । १२ । १४ । “हिरण्यं गां महीं ग्रामान् हस्त्यश्वान् नृपतिर्वरान् । प्रादात् स्वन्नञ्च विप्रेभ्यः प्रजातीर्थे स तीर्थवित् ॥” पुं, सन्न्यासिनामुपाधिविशेषः । यथा, प्राण- तोषिण्यां अवधूतप्रकरणे । “त्रिवेणीसङ्गमे तीर्थे तत्त्वमस्यादिलक्षणे । स्नायात्तत्त्वार्थभावेन तीर्थनामा स उच्यते ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तीर्थ नपुं।

आगमः

समानार्थक:तीर्थ

3।3।86।2।1

अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु। निपानागमयोस्तीर्थमृषिजुष्टे जले गुरौ॥

पदार्थ-विभागः : , अपौरुषेयः

तीर्थ नपुं।

कूपसमीपरचितजलाधारः

समानार्थक:आहाव,निपान,तीर्थ

3।3।86।2।1

अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु। निपानागमयोस्तीर्थमृषिजुष्टे जले गुरौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

तीर्थ नपुं।

ऋषिजुष्टजलम्

समानार्थक:तीर्थ

3।3।86।2।1

अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु। निपानागमयोस्तीर्थमृषिजुष्टे जले गुरौ॥

पदार्थ-विभागः : , द्रव्यम्, जलम्

तीर्थ नपुं।

संस्कारादिकर्तुर्गुरुः

समानार्थक:गुरु,देशिक,तीर्थ

3।3।86।2।1

अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु। निपानागमयोस्तीर्थमृषिजुष्टे जले गुरौ॥

पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तीर्थ¦ न॰ तॄ--थक्।

१ शास्त्रे

२ यज्ञे

३ क्षेत्रे

४ उपाये

५ नारीरजसि

६ अवतारे

७ ऋषिजुष्टजले

८ पात्रे

९ उपाध्याये

१० मन्त्रिणिच मेदि॰।

११ योनौ

१२ दर्शने

१३ घट्टे हेमच॰।

१४ विप्रे

१५ आगमे

१६ निदाने

१७ वह्नौ च संक्षिप्तसा॰। तीर्थं त्रिविधम् जङ्गमं

१ मानसं

२ स्थावरं

३ च। तथा हि
“व्राह्मणा जङ्गमं तीर्थं निर्मलं सार्वकामिकम्। येषां वाक्योदकेनैव शुद्ध्यन्ति मलिनाजनाः। अगस्तिरुवाच। शृणु तीर्थाणि गदतो मानसानि ममानघे! !येषु सम्यक् नरः स्नात्वा प्रयाति परमां गतिम्। सत्यंतीर्थं क्षमा तीर्थं तीर्थमिन्द्रियनिग्रहः। सर्वभूतदया-तीर्थं सर्वत्रार्जवमेय च! दानं तीर्थं दमस्तीर्थंसन्तोषस्तीर्थमुच्यते। ब्रह्मचर्य्यं परं तीर्थं तीर्थञ्चप्रियवादिता। ज्ञानं तीर्थं धृतिस्तीर्थं पुण्यं तीर्थ-मुदाहृतम्। तीर्थानामपि तत्तीर्थं विशुद्धिर्मनसःपुरा। एतत्ते कथितं देवि! मानसं तीर्थलक्षणम्। [Page3309-a+ 38] नौभानामपि तीर्थानां पुण्यत्वे कारणं शृणु। यथाशरीरस्योद्देशाः केचिन्मेध्यतमाः स्मृताः। तथा पृथि-व्यामुद्देशाः केचित् पुण्यतमाः स्मृताः। प्रभावादद्भु-ताद्भूमेः सलिलस्य च तेजसा। परिग्रहान् मुनी-नाञ्च तीर्थानां पुण्यता स्मृता। तस्माद्भौमेषु तीर्थेषुभनमेषु च नित्यशः। उभयेष्वपि यः स्नाति स यातिपरमां गतिम्” तीर्थभेदा ब्रह्मपुराणे उक्ता यथा( मुनय ऊचुः।
“पृथिव्यां यानि तीर्थानि वनान्या-यतनानि च। वक्तुमर्हसि धर्म्मज्ञ! श्रोतुं नो वर्त्ततेमनः। रोमहषर्ण उवाच। यस्य हस्तौ च प्रादौच मनश्चैव सुसंयतम्। विद्या तपश्च कीर्त्तिश्च स तीर्थ-फलमश्नुते। मनो विशुद्धं पुरुषस्य तीर्थं वाचांयम-स्त्विन्द्रियनिग्रहस्तपः। एतानि तीर्थानि शरीरजानिस्वर्गस्य मार्गं प्रतिबोधयन्ति। चित्तमन्तर्गतं दुष्टं तीर्थ-स्नानं न शुध्यति। शतशोऽथ जलैर्धौतं सुराभाण्ड-मिवाशुचि। न तीर्थानि न दानानि न व्रतानि नचाश्रमाः। दुष्टाशयं दम्भरुचिं पुनन्ति व्यथितेन्द्रियम्। इन्द्रियाणि वशे कृत्वा यत्र तत्र वसेन्नरः। तत्र तस्यकुरुक्षेत्रं प्रयागं पुष्करं तथा। तस्माच्छृणुध्वं वक्ष्यामितीर्थान्यायतनानि च। संक्षेपेण मुनिश्रेष्ठाः। पृथिव्यांयानि कानि च। विस्तरेण न शक्यन्ते वक्तुं वर्षश-तैरपि। प्रथमं पुष्करं तीर्थं नैमिषारण्यमेव च। प्रयागञ्च प्रवक्ष्यामि धर्म्मारण्यं द्विजोत्तमाः !। धेनुकाचम्पकारण्यं सैन्धवारण्यमेव च। गया प्रयागंश्रीतीर्थं दिव्यं कनस्वलन्तथा। भृगुतुङ्गं हिर-ण्याक्षं भीमारण्यं कुशस्थली। लोहार्गलं सकेदारंमन्दरारण्यमेव च। महाप्रमं कुरुक्षेत्रं सर्वपापहर-न्तथा। रूपतोर्थं शूकरञ्च चक्रतीर्थं महाफलम्। योगतीर्थं सोमतीर्थं तीर्थं शाखोटकं तथा। तीर्थंकोकामुकं पुण्यं वदरीशैलमेव च। सोमतीर्थंतुड्गकूटं तीर्थं स्कन्दाश्रमन्तथा। सूर्य्यप्रभं रामतीर्थंसप्तसामुद्रकं तथा। धर्मोद्भवं कोटितीर्थं तीर्थञ्चाधप्रणाशनम्। गङ्गाद्वारं पञ्चकुब्जं मध्यकेशवमेव च। चक्रप्रभं मतङ्गञ्च कुशदण्डञ्च विश्रुतम्। दंष्ट्राकुण्डंविष्णुतीर्थं सर्वकामिकमेव च। तीर्थं सुमलिनञ्चैववदरीसुप्रभं तथा। ब्रह्मकुण्डं वह्निकुण्डं तीर्थं सत्य-पदन्तथा। चतुःस्रोतश्चतुःशृङ्गं शैलं द्वादशर्वारकम्। मानसं स्थूलशृङ्गञ्च स्थूलदण्डं तथोर्वशो। लोकपाली[Page3309-b+ 38] मरुवकं सोमाद्रिशैलमेव च। सदाप्रभं मेरुकुण्डं तीर्थंसोमाभिषेचनम्। महाशोभं कोचवकं पञ्चधारं त्रिधार-कम्। सप्तधारैकतीर्थञ्च तीर्थञ्चामरकण्टकम। शालग्रामंचक्रतीर्थं कोटिद्रुममनुत्तमम्। विन्दुप्रभं देवह्रदं तीर्थंविष्णुप्रभन्तथा। शङ्खप्रभं दारुकुण्डं तीर्थं वज्रायुधंतथा। अग्निप्रभं सुपुन्नागं देवप्रभमनुत्तमम्। विद्याधरंसगन्धर्वं श्रीतीर्थं ब्रह्मणा कृतम्। तीर्थञ्च लोक-पालाख्यं पुण्यं पिण्डारकं तथा। वस्त्रापदं दारुवनंछायारोहणमेव च। वटावटं भद्रवटं कोषाक्षी चदिवाकरा। द्वीपं सरस्वती चैव विजयं कामजन्तथा। सारवं गोप्रतारञ्च गाचरं वटमूलकम्। स्नानकुण्डंप्रयागञ्च गुह्यं विष्णुपदन्तथा। कन्याश्रमं विष्णुपदंजम्बुमार्नं तथोत्तमम्। गभस्तितीर्थञ्च तथा ययातिपतनं शुचि। कोटितीर्थं भद्रवटं महाकालवनं तथा। नर्मदातीर्थपरमं तीर्थं वर्षं तथार्बुदम्। पिङ्गुतीर्थंसावशिष्टं तीर्थञ्च प्रियसङ्गमम्। तीर्थं दौर्वासिकं नामतथा पिञ्चरकं शुभम्। ऋषितीर्थं ब्रह्मकुण्डं वसुतीर्थंकुमारिका। शक्रतीर्थं शापनदं रेणुकातीर्थमेव च। पैतामहञ्च विमलं रुद्रपादं तथोत्तरम्। मणिमन्थञ्चकामाख्यं कृष्णतीर्थं कुमारिणम्। यजनं याजनञ्चैवतथैव ब्रह्मवालकम्। पुष्पाभ्यासं पुण्डरीकं मणिपूरंतथोत्तरम्। दीर्घसत्रं हंसपदं तीर्थञ्चानशनन्तथा। गङ्गोद्भेदं शिवोद्भेदं नर्मदोद्भेदमेव च। वज्रकोटिशङ्कुमानं तीर्थं शक्रावनामितम्। समन्तपञ्चकं तीर्थंब्रह्मतीर्थं सुदर्शनम्। सततं पृथिवीतीर्थं पञ्चप्लवपृथूदकौ। दशाश्वमेधिकं तीर्थं सर्पिदं विषयान्तिकम्। कोटितीर्थं पञ्चनदं वाराहं पक्षिणीहृदम्। पुण्डरीकंसोमतीर्थं मञ्जुवाटं तथोत्तमम्। वदरीवनमासीमं रत्न-मूलकमेव च। लोकद्वारं पञ्चतीर्थं कपिलातीर्थमेवच। सूर्य्यतीर्थं शङ्खिनी च धराभवनमेव च। तीर्थंच यक्षराजस्य ब्रह्मावर्तं सुतीर्थकम्। कामेश्वरं मातृ-तीर्थं तीर्थं शीतवनं तथा। श्वानहोमायनञ्चैव मांस-मशनकं तथा। दशाश्वमेधं केदारं ब्रह्मोडुम्बरमेवच। सप्तर्षिकुण्डञ्च तथा तीर्थं देव्याः सुजम्बुकम्। इडास्पदं कोटिकूटं किन्नरं किंजपं तथा। कारण्डवञ्चबिन्ध्यञ्च त्रिपिष्टपमथापरम्। पाणिक्षारं मिश्रकञ्चमधुवटमनोजवौ। कौशिकी देवतीर्थञ्च तीर्थञ्च ऋण-मोचनम्। दिव्यञ्च तृणमूलाख्यं तीर्थं विष्णुपदन्तथा। [Page3310-a+ 38] श्रीकुण्डं शालितीर्थञ्च नैमिषेयञ्च विश्रुतम्। ब्रह्मस्थानंसोमतीर्थं कन्य तीर्थं तथोत्तरम्। ब्रह्मतीर्थं मन-स्तीर्थं तीर्थञ्चैलावनन्तथा। सौगन्धिकवनञ्चैव मणि-तीर्थं सरस्वती। ईशानतीर्थं प्रवरं पाणिनं पाञ्च-यज्ञिकम्। त्रिशूलधारा माहेन्द्रं देवस्थानं कृतालयम्। शाकम्भरी देवतीर्थं स्वर्णाख्यं कालियं ह्रदम्। क्षीरे-श्वरं विरूपाक्षं भृगुतीर्थं कुशोद्भवम्। ब्रह्मतीर्थं ब्रह्म-योनिं नीलपर्वतमेव च। कुब्जाभ्रकं भद्रवटं वशिष्ठ-पदमेव च। धूमावर्त्तं तथा मेकं वारुणं कपिलञ्चयत्। स्वर्गद्वारं प्रजाद्वारं कालिकाश्रममेव च। रुद्रावर्त्तं सगन्धाश्वं कपिलावनमेव च। भद्रकर्णह्रदञ्चैव शङ्कुकं ह्रदकं तथा। सप्तसारस्वतञ्चैव तीर्थ-मौशनसं तथा। कपालमोचनञ्चैव नरकञ्चैव काम्य-कम्। तत्र सामुद्रिकञ्चैव शतिकञ्च सहस्रिकम्। रेणुकं पञ्चवटकं विमोचनमथौजसम्। विश्वेश्वंरं वाम-नकं कक्षं नारायणाश्रमम्। गङ्गाह्रदं वटञ्चैव वदरीपचनन्तथा। ऐन्द्रमार्गमेकरात्रं क्षीरिकाराममेव च। सोमतीर्थं दारवञ्च श्रुततीर्थञ्च भोद्विजा!। कन्याश्रमंसन्निहितं कोटितीर्थञ्च पुन्नदी। कोटितीर्थस्थलीञ्चैवभद्रकालीह्रदन्तथा। अरुन्घतीवनञ्चैव ब्रह्मावर्त्तन्तथो-त्तमम्। अश्ववेदी कुब्जवनं यमुनाप्रभवं तथा। वीर-प्रभोक्षं सिन्धूत्थं शमीकुल्या सकृत्तिका। उर्वशी-क्रमणञ्चैव मायाविद्योद्भवन्तथा। महाश्रमो वेतसिका-रूपं सुन्दरिकाश्रमम्। ब्रह्मतीर्थन्तु वैश्वासं गङ्गोद्भेदंसरस्वती। अरुणोदं तथा चान्द्रं शक्रतीर्थं सवालु-कम्। तीर्थञ्चैवाविमुक्ताख्यं नीलकण्ठह्रदन्तथा। स्वर्गद्वारं किम्पुलिका तीर्थकोटिस्तथैव च। पिशाचमोचनञ्चैव सुभद्राह्रदमेव च। कुण्डं विमलदं तस्यांतीर्थं चण्डेश्वरस्य च। अष्टस्थानह्रदञ्चैव हरिकेश-वनं तथा। अजामुखवनञ्चैव घण्टाकर्णह्रदन्तथा। पुण्डरीकह्रदञ्चैव वापीकङ्कोटिकन्तथा। कुण्डं घर्घ-रिकायाश्च श्यामाकं पञ्चपुण्यदम्। श्मशानशुम्भकुण्डञ्चविनायकह्रदन्तथा। कूपं सिद्धभवञ्चैव पुण्यं व्रह्मसर-न्तथा। रुद्रावासं तथा तीर्थं नागतीर्थं सुलोमकम्। शृङ्गतीर्थं महातीर्थं श्रेष्ठा चैव महानदी। दिव्यंब्रह्मसरः पुण्यं गयाशीर्षाक्षयं वटम्। दक्षिणञ्चोत्तर-ञ्चैव गोमयं रूपशान्तिकम्। कपिह्रदं गृध्रकूटंसावित्रीह्रदमेव च। प्रभासनं शीतवनं योनिद्वारञ्च[Page3310-b+ 38] धेनुकम्। रम्यकं कोकिलाख्यञ्च मतङ्गह्रदमेव च। पितृकूपं रङ्गतीर्थं शक्रतीर्थं सुमालिनम्। ब्रह्मस्थानंसप्तकुण्डं मणिरत्नह्नदन्तथा। मुद्गलस्याश्रमञ्चैव मुद्गल्या-ह्रदमेव च। तीर्थं जनककूपाख्यं वैश्यं विनशन-न्तथा। आद्यं विनाशतीर्थञ्च धारा माहेश्वरी तथा। देवपुष्करिणी रम्या पर्य्यङ्ककूपमेव च। जातिस्मरं वाम-नकं वटेश्वरह्रदन्तथा। कौशाख्यं भरतञ्चैव तीर्थंश्रेष्ठात्मिका तथा। विश्वेश्वरं कल्पशतं कन्यासायुज्य-मेव च। वाराहकं कोटितीर्थं कुमारं सर्व-तीर्थकम्। वीराश्रमं ब्रह्मसरो वीरवीरा च तापिनी। कुमारधारा श्रीधारा गौरीशिखरमेव च। कुम्भकर्णपदञ्चैव कौशिकीह्रदमेव च। धर्मतीर्थं कामतीर्थंतीर्थमुद्दालकं तथा। दण्डा विमालिनी तीर्थं तीर्थ-ञ्चैव नरेभिका। सन्ध्यातीर्थं कारतोयं कपिलालोहितार्णवम्। सोमोद्भवं वंशगुल्ममृषभं काल-तीर्थकम्। पुण्यतीर्थह्रदं तीर्थं तीर्थं वदरिकाश्रमम्। रामतीर्थं सिन्धुवनं विरजातीर्थमेव च। मार्कण्डेय-वनञ्चैव कृष्णतीर्थं तथा वटम्। ध्रुवं स्वरूपं प्रवर-मिन्द्रद्युम्नसरश्च यत्। सानुगर्त्तं समाहेन्द्रं श्रीतीर्थंश्रीवनन्तथा। इषुतीर्थञ्चर्षभञ्च कावेरीतीर्थमेव च। कन्यातीर्थञ्च गोतीर्थं गोमतीस्थानमेव च। संवर्त्त-स्थापिनी स्थानं सप्तगोदावरीह्रदम्। वदरीह्रदमन्यच्चब्रह्मतृष्णाविकर्त्तनम्। जातिह्रदं वेदह्रदं कुशपवणमेवच। सर्वदेवव्रतञ्चैव कन्याश्रमह्रदन्तथा। तथान्यत् वालिखिल्वानां सप्तर्षीणां तथा परम्। तथान्यच्च महर्षी-णामखण्डितह्रदन्तथा। तीर्थेष्वेतेषु विधिवत् सम्यक्श्रद्धासमन्वितः। स्नानं करोति यो मर्त्यः सर्वपापैःप्रमुच्यते। अभ्यर्च्च्य देवतास्तत्र स्थित्वा च रजनी-त्रयम्। पृथक् पृथक् फलंतेषु प्रतितिष्ठं श्च भो द्विजाः!। प्राप्तोति हयमेधस्य फलं प्राप्नोत्यसंशयम्। यस्त्विदंशृणुयान्नित्यं तीर्थमाहात्म्यमुत्तमम्। पठेच्च श्रावयेद्वापिसर्वपापैः प्रसुच्यते”। पद्मपुराणे श्राद्धे प्रशस्ततीर्थानि उक्तानि यथा( भीष्म उवाच।
“कस्मिन् वासरभागे तु श्राद्धं श्राद्धीसमाचरेत्। तीर्थेषु केषु वै श्राद्धं कृतं बहुफलंभवेत्। पुलस्त्य उवाच। तीर्थन्तु पुष्करं नाम पुण्यंश्रेष्ठतमं स्मृतम्। सर्बेषां द्विजमुख्यानां मनोरथस्थितंतथा। यत्र दत्तं हुतं सर्वमनन्तं मुनिरब्रवीत्। [Page3311-a+ 38] पितॄणां वल्लभं नित्यमृषीणां परमं प्रियम्। नन्दथु-र्ललिता तद्वत्तीर्थं मायापुरी तथा। शुभं मित्रपदंराजंस्ततः केदारमुत्तमम्। गङ्गासागरमित्याहुः सर्व-तीर्थमयं शुभम्। तीर्थं ब्रह्मसरस्तद्वत् शतद्रुः सलिला-ह्रदः। तीर्थन्तु नैमिषञ्चैव सर्वतीर्थफलप्रदम्। गङ्गोद्भे-दस्तु गोमत्यां यवोद्भूतः सनातनः। तथा यज्ञवराहस्तुदेवदेवश्च श्लधृक्। यत्र तत् काञ्चनद्वारमष्टादशभुजो-हरः। नेमिस्तु धर्म्मचक्रस्य शीर्णो यत्राभवत् पुरा। तदेतन्नैमिषारण्यं सर्वतीर्थनिषेवितम्। देवदेवस्यतत्रापि वराहस्य च दर्शनम्। यः प्रयाति स पूतात्मानारायणपुरं व्रजेत्। कोकामुखं परं तीर्थं ब्रह्मणोऽव्यक्तजन्मनः। पुष्करारण्यसंस्थोऽसौ यत्र देवः पितामहः। विरिञ्चिदर्शनं श्रेष्ठं त्वपवर्गफलप्रदम्। कृतं तेनमहापुण्यं सर्वपापनिसूदनम्। यत्राद्यो नरसिंहस्तुस्वयमेव जनार्द्दनः। तीर्थमिक्षुमती नाम पितॄणांवल्लभा सदा। तुष्यन्ति पितरो नित्यं गङ्गायमुनसङ्गमे। कुरुक्षेत्रं महापुण्यं यत्र मार्गोऽपि लक्ष्यते। अद्यापिपितृतीर्थं तत् सर्वकामफलप्रदम्। नीलकण्ठमितिख्यातं पितृतीर्थं नराधिप!। तथा भद्रसरःपुण्यं सरोमानसमेव च। मन्दाकिनी तथाच्छेदो विपा-शाथ सरस्वती। पूर्वमिन्द्रपदं तद्वद्वैद्यनाथं महासुखम्। गोदावरी तथा पुण्या तथा कालञ्जरं शुभम्। बंशोद्-भेदं हरोद्भेदं गङ्गोद्भेदं महालयम्। भद्रेश्वरं वि-ष्णुपदं नर्म्मदाद्वारमेव च। गयापिण्डप्रदानेन समा-न्याहुर्महर्षयः। एतानि पितृतीर्थानि सर्वपापहराणिच। स्मरणादपि लोकानां किमु श्राद्धप्रदायिनाम्। ओङ्कारं पितृतीर्थन्तु कावेरी कपिलोदकम्। कुरुक्षे-त्राच्छतगुणम् तस्मिन् सुखादिकम्भवेत्। शक्रतीर्थन्तुविख्यातं तीर्थं सोमेश्वरं स्मृतम्। सर्वव्याधिहरं पुण्यंफलं कोटिशताधिकम्। श्राद्धे दाने तथा होमे स्वाध्यायेजपसन्निधौ। छायावरोहणं नाम देवदेवस्य शूलिनः। अवतारं रोचयानो ब्राह्मणावसथे शुभे। जातं तत्सुमहापुण्यं तथा चर्म्मण्वती नदी। नदी च वरणातद्वत्तीर्थं हौताशनं परम्। भैरवं भृगुतुङ्गञ्च गौरी-तीर्थमनुत्तमम्। तीर्थं वैनायकं नाम वज्रेश्वरमनुत्तमम्। तथा पापहरं नाम पुण्या वेत्रवती नदी। शूलतापीपयोष्णी च पयोष्णीसङ्गमस्तथा। महाबोधी पदेनापिनागतीर्थमवन्तिका। तथा वेण्वा नदी पुण्या महाशा-[Page3311-b+ 38] लस्तथैव च। महारुद्रो महालिङ्गो दशार्णा च महा-नदी। शतरुद्रागता वापि तथा पितृपदं परम्। युद्धः-वाराहिकं तद्वन्नदौ द्वौ शोणघर्घरौ। कालिका च नदीपुण्यं पितरा च नदी तथा। एतानि पितृतीर्थानिशस्यन्ते स्नानदानयोः। श्राद्धमेतेषु यद्दत्तं तदनन्तफलंस्मृतम्। शनीचाटनदीधारा शवक्षीरनदी तथा। द्वारका कृष्णतीर्थञ्च तथाप्युत सरस्वती। नदी मणिमतीनाम तथा च गिरिकर्णिका। धुतपापं तथा तीर्थंसमुद्रे दक्षिणे तथा। गोकर्णो गणकर्णश्च तथा चपुरुषोत्तमः। श्रीशैलं शाकतीर्थञ्च नारसिंहमतः परम्। महेन्द्रश्च तथा पुण्यः पुण्या चापि महानदी। एतेष्वपिसदा श्राद्धमनन्तफलमश्नुते। दर्शनादपि पुण्यानि सद्यःपापहराणि च। तुङ्गभद्रा नदो पुण्या तथा भीमनदी सरित्। भीमेश्वरं कृष्णवेण्वा कावेरी वङ्क्षुरा नदी। नदी गोदावरी पुण्या त्रिसन्ध्या तीर्थमुत्तमम्। तीर्थं त्रैयम्बकं नाम सर्वतीर्थनमस्कृतम्। यत्रास्ते भग-वान् भीमः स्वयमेव त्रिलोचनः। श्राद्धमेतेषु तीर्थेषुदत्तं शतगुणं भवेत्। स्मरणादपि पापानि व्रजन्तिशतधा नृप!। श्रीपर्णी च नदी पुण्या व्यासतीर्थमनु-त्तमम्। तथा मत्स्यनदीधारा शिवधारा तथैव च। भवतीर्थञ्च विख्यातं पुण्यतीर्थञ्च शाश्वतम्। पुण्यं रामे-श्वरं तद्वदेलापुरमनुत्तमम्। अङ्गारभृत्यं विख्यात-मात्मदर्शमनायुधम्। तीर्थं व्रतेश्वरं तद्वत्तथा कोकामुखंपरम्। गोवर्द्धनं हरिश्चन्द्रं पृथुचन्द्रं पृथूदकम्। सह-स्राक्षं हिरण्याक्षं तथा च कदली नदी। नामाधिपापि च तथा तथा सौमित्रसङ्गतम्। इन्द्रनीलंमहानादं तथा च प्रियमेलकम्। एतान्यपि सदा श्राद्धेप्रशस्तान्यधिकानि च। एतेषु सर्वदेवानां सान्निध्यंपठ्यते यतः। दानमेतेषु सर्वेषु भवेत् कोटिशताधिकम्। बाहुदा च नदी पुण्या तथा सिद्धवनं शुभम्। तीर्थंपाशुपतञ्चैव नदी पर्पटिका तथा। श्राद्धमेतेषु सर्वेषुदत्तं कोटिशताधिकम्। तथैव पर्वतीर्थञ्च त्रिपुरं खाण्डवंनदी। धुता लिङ्गसहस्रेण सव्येतरजलावहा। जाम-दग्न्यस्य सत्तीर्थं वेदायतनमुत्तमम्। प्रतीकस्याभयासिद्धा यदा गोदावरी नदी। तीर्थं तद्धव्यकव्याना-मप्सरोगणसंयुतम्। श्राद्धादिदानकार्य्यञ्च तद्वत् कोटिशताधिकम्। तथा सहस्रलिङ्गञ्च राघवेश्वरमुत्तमम्। सेन्द्रफला नदी पुण्या यत्र दुःखाद्गतः पुरम्। निमेश्च[Page3312-a+ 38] प्रसृतिमित्रं तपसा स्वर्गमाप्नुयात्। तत्र दत्तं नरैःश्राद्धमनन्तफलदं भवेत्। पुष्करं नाम वै तीर्थं शाल-ग्रामं तथैव च। शौनपातश्च विख्यातो यत्र वैश्वा-नरालयः। तीर्थं सारस्वतं नाम स्वामितीर्थं तथैवच। मनन्दुरा नदी पुण्या कौशिकी चन्द्रिका तथा। विदर्भा चाप्यवेणाथ पयोष्णी प्राङ्मुखी परा। कावेरीचोत्तरागा च तथा जालन्धरो गिरिः। एतेषु श्राद्धती-र्थेषु श्राद्धमानन्त्यमश्नुते। लौहदण्डं तथा दण्डं चित्र-कूटन्तथैव च। दिव्यं सर्वत्र गङ्गायास्तथा नदीतटं शुभम्। कुब्जाभ्रञ्च तथा तीर्थमुर्वशीपुलिनं तथा। संसारमो-चनं तीर्थं तथैव ऋणमोचनम्। एतेषु प्रितृतीर्थेषुश्राद्धमानन्त्यमश्नुते। अट्टहासं तथा तीर्थं गौतमेश्व-रमेव च। तथा वशिष्ठतीर्थञ्च भारतञ्च ततः परम्। ब्रह्मावर्त्तं कुशावर्त्तं हंसतीर्थं तथैव च। पिण्डार-कञ्च विख्यातं शङ्खोद्बारं तथैव च। खाण्डेश्वरं विश्व-कञ्च नीलपर्वतमेव च। तथा च वदरीतीर्थं रामती-र्थन्तथैव च। जयन्तं विजयञ्चैव शुक्रतीर्थं तथैव च। एतेषु श्राद्धदातारः प्रयान्ति परमं पदम्। तीर्थंमातृगृहं नाम करवोरपुरं तथा। सप्तगोदावरी-तोर्थं सर्वतीर्थेश्वरेश्वरम्। तत्र श्राद्धं प्रदातव्यमनन्त-फलमिच्छुभिः। कीकटेषु गया पुण्या पुण्यं राजगृहंवनम्। च्यवनस्याश्रमं पुण्यं नदी पुण्या पुनः-पुनाः। यत्र गाथा विचरति ब्रह्मणा परिकीर्त्तिता। एष्टव्याबहवः पुत्रा यद्यप्येको गयां व्रजेत्। यजेत-वाश्वमेधेन नींलं वा वृषमुत्सृजेत्। एषा गाथा विच-रति तीर्थेष्वायतनेषु च। सर्वे मनुष्या राजेन्द्र! की-र्त्तयन्तः समागताः। किमस्माकं कुले कश्चिद्गयां यास्यतिमत्सुतः। प्रीणयिष्यति ताङ्गत्वा सप्त पूर्वांस्तथाऽवरान्। मातामहानामप्येवं श्रुतिरेषा चिरन्तनी। गङ्गायाञ्चास्थिनिचयं गत्वा क्षेप्स्यति मत्सुतः। तिलैःसप्ताष्टभिर्वापि दास्यते च जलाञ्जलिम्। अरण्यत्रितये चापि पिण्डदानं करिष्यति। प्रथमं पुष्करा-रण्यं नैमिषन्तदनन्तरम्। धर्मारण्यं ततः प्राप्यश्राद्धं भक्त्या प्रदास्यति। गयायां धर्म्म पृष्ठे वा सरसिब्रह्मणस्तथा। गयाशीर्षवटे चैव पितृणां दत्तमक्षयम्। व्रतं कुर्य्यान्नरो यस्तु अध्वानं परिसर्पति। नरकस्थान्पितॄंस्तद्वत् स्वर्गं नयति सत्वरः। कुले तस्य न राजेन्द्र!प्रेतो भवति कश्चन। प्रेतत्वमोक्षभावञ्च पिण्डदानाच्च[Page3312-b+ 38] गच्छति। गयायां पिण्डदानस्य नान्यज्ञानं विशिष्यते। एकेन पिण्डदानेन तृप्तास्ते मोक्षगामिनः। धाम्यप्रदानंप्रवरं वदन्ति वस्त्रप्रदानञ्च तथा मुनीन्द्राः। तोयञ्चतीर्थेषु नरैः प्रदत्तं तद्धर्महेतुं प्रवरं प्रदिष्टम्। सर्वाथहा सुरुचिरा महावला महानदी। ये तु पश्यन्तितां गत्वा मानसे दक्षिणोत्तरे। प्रणम्य द्विजमुख्येभ्यःप्राप्तं तैर्जन्मनः फलम्। यद्यदिच्छति वै मर्त्यस्तत्तत्प्राप्तोत्यसंशयम्। एष तूद्देशतः प्रोक्तस्तीर्थानां संग्रहोमया। वागीशोऽपि न शक्रोति विस्तरात् किमु मा-मुषाः” पुराणसर्वस्वे। श्राद्धे तीर्थभेदस्य प्राशस्त्यं विष्णुसंहितायामुक्तं यथा(
“अथ पुष्करेषु श्राद्धम् जप्यहोमतपांसि च। पुष्करे स्नानमात्रतः सर्वपापेभ्यः पूतो भवति। एव-मेव गयाशीर्षे अक्षयवटे अमरकण्टकपर्वते वराहपर्वतेयत्र क्वचन नर्मदातीरे गङ्गायां विशेषतः, कुशावर्त्ते वि-ल्वके नीलपर्वते कनखले कुब्जाम्रे भृगुतुङ्गे केदारे महा-लये नडन्तिकायां सुगन्धायां शाकम्भर्य्यां फलगुतीर्थेमहागङ्गायां त्रिधालिकाश्रमे कुमारधारायां प्रभासे यत्रक्वच्न सरस्वत्यां विशेषतः। गङ्गाद्वारे प्रयागे च गङ्गा-सागरसङ्गमे। सततं नैमिंषारण्ये वाराणस्यां विशेषतः। अगस्त्याश्रमे कौशिक्यो सरयूतीरे शोणस्य ज्योतिषायाश्चसङ्गमे। श्रीपर्वते कालोदके उत्तरमानसे वडवायां मत-ङ्गवाप्यां सप्तर्षे विष्णुपदे स्वर्गमार्गपदे गोदावर्य्यां गोमत्यांवेत्रावत्यां विपाशायां वितस्तायां शतद्रुतीरे चन्द्रभा-गायाम् इरावत्यां सिन्धोस्तीरे दक्षिणे पञ्चनदे औशनसे। एवमादिष्व{??}आन्येषु तीर्थेष्र सरिद्वरासु सर्वेष्वपि स्वभावेषुपुलिनेषु प्रस्रवणेषु पर्वतेषु निकुञ्जेषु वनेषूपवनेषु गोम-योपलिप्तेषु मनोज्ञेषु”( तीर्थागमने दोषो यथा
“अनुपोष्य त्रिरात्राणितीर्थान्यनभिगम्य च। अदत्त्वा काञ्चनं गाञ्च दरिद्रोनाम जायते” प्रा॰ त॰। तीर्थगमने फलं यथा(
“अग्निष्टोमादिभिर्यज्ञैरिष्ट्वा विपुलदक्षिणैः। न तत्फलमाप्नोति तीर्थाभिगमनेन यत्। तीर्थान्यनुस्मरन्धीरः श्रद्दधानः सनाहितः। कृतपापो विशुध्येत किंपुनः शुद्धकर्मकृत्। तिर्य्यग्योनिं न वै गच्छेत् कुदेशेन च जायते। न दुःखी स्यात् स्वर्गभाक् च मोक्षोपा-यञ्च विन्दति” ब्रह्मवै॰ पु॰। ( तीर्थसम्यक्फलभागिनो यथा
“यस्य हस्तौ च पादौ[Page3313-a+ 38] च मनश्चैव सुसंयतम्। विद्या तपश्च कीर्त्तिश्चस तीर्थफलमश्रुते। प्रतिग्रहादुपावृत्तः सन्तुष्टो येनकेनचित्। अहङ्कारविमुक्तश्च स तीर्थफलमश्नुते। अदाम्भिको निरारम्भो लघ्वाहारो जितेन्द्रियः। विमुक्तः सर्वसङ्गैर्यः स तीर्थफलमश्नुते। अकोपनोऽ-मलमतिः सत्यवादी दृढव्रतः। आत्मोपमश्च भूतेषुस तीर्थफलमश्नुते। अश्रद्दधानः पापात्मा नास्तिकोऽ-च्छिन्नसंशयः। हेतुनिष्ठश्च पञ्चै ते न तीर्थफलभागिनः। इति काशीखण्डम्। प्रा॰ त॰। तीर्थप्रतिग्रहे दोषोयथा। (
“तीर्थेन प्रतिगृह्णीयात् संक्रान्त्यादिषु च तथा। स्वकार्य्ये पिवृकार्य्येऽपि देवताभ्यर्च्चनेऽपि वा। नि-ष्फलं तस्य तत्तीर्थं यावत्तद्धनमश्नुते”।
“तत्र नारा-यणक्षेत्रे कुरुक्षेत्रे हरेः पदे। वाराणस्यां वद-र्य्याञ्च गङ्गासागरसङ्गमे। पुष्करे भास्करक्षेत्रे प्रभासेरासमण्डले। हरिद्वारे च केदारे सोमे वदरपाचने। सरस्वतीनदीतीरे पुण्ये वृन्दावने वने। गोदावर्य्याञ्चकौशिक्यां त्रिवेण्याञ्च हिमालये। एतेष्वन्येषु यो दानंप्रतिगृह्णाति कामतः। स च तीर्थप्रतिग्राही कुम्मीपाकंप्रमाति च” इति ब्रह्मवै॰ प्र॰ स्व॰। शङ्खः
“तीर्थं प्राप्यानुष-ङ्गेन स्नानं तोर्थे समाचरन्। स्नानजं फलमाप्नोतितीर्थयात्राफलं न तु”। तथा यस्य पादौ च हस्तौ चमनश्चैव सुसंयुतम्। विद्या तपश्च कीर्त्तिश्च स तीर्थफल-मश्नुते। नॄणां पापकृतां तीर्थे भवेत् पापस्य संक्षयः। यथोक्तफलदं तीर्घं भवेच्छुद्धात्मनां नॄणाम्”। हस्तसंयमो-ऽत्र निन्दितप्रतिग्रहादिनिवृत्तिः। पादसंयमस्तु अगम्य-देशादिगमननिवृत्तिः। मनःसंयमः कामक्रोधादिनि-वृत्तिः, विद्या तत्तत्तोर्थफलबोधकसच्छास्त्रवेदाद्यधिगम-रूपा। तपः आमिषादिनिवृत्तिः। कीर्त्तिः धर्मार्थतीर्थ-गमने धार्मिकत्वादिना प्रसिद्धिः। फलं सम्यगिति शेषः। एतच्च हस्तसंयमनादितीर्थयात्राङ्गं महाभारते तीर्थ-यात्रामुपक्रम्याभिघानात् तीर्थस्नानादिकर्माङ्गञ्च, श-ङ्खेन यात्राप्रकरणमन्तरेणैव सतीर्थफलमश्नुते इतिसामान्याभिधानात्। इति कल्पतरुः। अतएव पैठीनसिः
“षोडशांशं स लभते यः परार्थेन गच्छति। अर्द्धंतीर्थ फलं तस्य यः प्रसङ्गेन गच्छति”। परार्थेन वेतना-दिना, प्रसङ्गेन उद्देश्यान्तरप्रसङ्गेन।
“तथा प्रतिकृतिंकृत्वा तीर्थवारिणि मज्जयेत्। मज्जयेत्तु यमुद्दिश्य अष्ट-भागं लभेत सः”। [Page3313-b+ 38]( तीर्थयात्राविधानं यथा
“यो यः कश्चित्तीर्थयात्रान्तुगच्छेत्। सुसंयतः स च पूर्वं गृहे स्वे। कृतोपवासःशुचिरप्रमत्तः संपूजयेद्भक्तिनम्नो गणेशम्। देवान्पितॄन् ब्राह्मणांश्चैव साधून् धीमान् प्रीणयन् वित्तशक्त्याप्रयत्नात्। प्रत्यागतश्चापि पुनस्तथैव देवान् पितॄन्ब्राह्मणान् पूजयेच्च। एवं कुर्वतस्तस्य तीर्थे यदुक्तंफलं तत् स्यान्नात्र सन्देह एव” इति ब्रह्मपुराणम्। एतदधिकारे प्रा॰ त॰। (
“सुसंयतः पूर्वदिने कृतैकभक्तादिनियमः। तदुत्तरदिनेकृतोपवासस्तदुत्तरदिने गणेशं ग्रहानिष्टदेवताञ्च संपूज्यवृद्धिश्राद्धं कृत्वा ब्राह्मणान् भोजयेत्। ततः शुभलग्नेयात्रां कुर्य्यात् तीर्थयात्रान्तु गच्छेदित्युपक्रमादुपवास-दिने मुण्डनमषि।
“प्रयागे तीर्थयात्रायां पितृमातृ-वियोगतः। कचानां वपनं कार्य्यं न वृथा विकचोभ-वेत्” इति विष्णुपुराणवचनात्। प्रवेशेऽपि तीर्थया-त्रायामिति वक्तव्यम्।
“गच्छन् देशान्तरं यत्तु श्राद्धंकुर्य्यात्तु सर्पिषा। यात्रार्थमिति तत् प्रोक्तं प्रवेशे चन संशयः” इति भविष्यपुराणादिति गङ्गावाक्यावली। वस्तुतस्तु तीर्थप्रत्यागमनोत्तरस्वगृहप्रवेशे इत्येव वक्त-व्यम्। यात्राप्रत्यागमनोत्तरस्वगृहप्रवेशयोर्भेदात् प्रत्या-गमनोत्तरलाभस्तु प्रत्यागतश्चापीति प्रागुक्तत्वात् व्यक्त-माह हलायुधधृतं कूर्मपुराणवचनम्
“तीर्थयात्रासमारम्भे तीर्थात् प्रत्यागमेऽपि च। वृद्धिश्राद्धं प्रकुर्वीतबहुसर्पिःसमन्वितम्”। ततश्च प्रवेशे चेति चकारेणश्राद्धमात्रं समुच्चितम्। नतु तस्य यात्रार्थत्वमपीति। एवं देवान् पितॄनित्यभिधानात् तत्पूजनमेव पुनः कार्य्यंनतूपवासादिकमपि अन्यथा देवानित्यादिकं व्यर्थंस्यात्। मत्स्यपुराणम्
“तिलोदकाञ्जलिर्देयोजलस्थै-स्तीर्थवासिभिः। सदा न हस्तेनैकेन गृहे श्राद्धं समि-ष्यते”। अत्र जलस्थैरित्यनेन स्थत्यस्थानामपि जलस्थत्वंनियम्यते। तथा हि
“अन्तरुदके आचान्तो अन्तरेवशुद्धोभवति। तस्वादन्तरेकं वहिरेकञ्च पादं कृत्वाआचामेत् सर्वत्र शुद्धोभवति” इति पैठीनस्युक्तेन जलै-कचरणकृताचमनेन उभयत्र कर्म्मार्हत्वात् तर्पणकालेतीर्थे जलैकचरणत्वं प्रतीयते। अन्यत्र त्वनियमः। तद्रूपाणां जले च तर्पणमविरुद्धमिति। गृह इतिस्थलोपलक्षणम्। देवीपुराणे।
“अकालेऽप्यथ वा कालेतीर्थश्नाद्धं तथा नरैः। प्राप्तैरेव सदा कार्य्यं कर्त्तव्यं[Page3314-a+ 38] पितृतर्पणम्। पिण्डदानं ततः शस्तं पितॄणाञ्चातिदु-र्लभम्। विलम्बो नैव कर्त्तव्यो न च विघ्नं समाचरेत्। श्राद्धं तत्र तु कर्त्तव्यमर्ध्यावाहनवर्जितम्। श्वध्वाङ्क्षगृ-ध्रकाकानां नैव दृष्टिहतञ्च यत्”। ध्वाङ्क्षोदण्डकाकः। अत्राकाल इति न रात्र्यादाविति पर्य्युदस्तप्रतिप्रसवः। तथात्वे तद्बाधापत्तेः। किन्तु पर्य्युदस्तेतराप्रशस्तकाल-परम्।
“तत् सादृश्यमभावश्च तदन्यत्वं तदल्पता। अप्राशस्त्यं विरोधश्च नञर्थाः षट् प्रकीर्त्तिताः” इत्यनु-सारात्। काल इति प्रशस्तापराह्णादिकालपरम्। अत्रशुचेः प्राप्त्युत्तरविहितप्रथमदिन एव श्राद्धं तेन पूर्वदिनेराक्षसीवेलादावागमनेऽपि परदिनेश्राद्धमविरुद्धम्। तथाच हलायुधधृतम्
“गत्वैव तीर्थं कर्त्तव्यं श्राद्धं तत्प्राप्ति-हेतुकम्। पूर्वाह्णेप्यथ वा प्रातर्देशे स्यात् पूर्वदक्षिणे”। पूर्वाह्णे सङ्गवे पूर्वदक्षिणे अग्निकोणे। पिण्डदानमितिश्राद्धासम्भवे केवलपिण्डदानभिति न पौनरुक्त्यम्। तीर्थे पिण्डप्रतिपत्तिमाह मत्स्यपुराणम्
“पिण्डांस्तुगोऽजविप्रेभ्योदद्यादग्नौ जलेऽपि वा। तीर्थश्राद्धे सदापिण्डान् क्षिपेत्तीर्थे विचक्षणः”। वायुपु॰
“उद्यतश्चेद्गयां गन्तुं श्राद्धं कृत्वा विधानतः। विधाय कर्पटीवेशं कृत्वा ग्रामं प्रदक्षिणम्। ततो ग्रा-मान्तरं गत्वा श्राद्धशेषस्य भोजनम्” इत्युक्तं गयामित्युप-लक्षणादन्यत्रापि तथा। अन्यत् मत्कृतगयाश्राद्धादि-पद्धतौ दृश्यम्। कूर्प्तपुराणम्
“ऐश्वर्य्यलोभमाहात्म्यात् गच्छेद्यानेन योनरः। निष्फलं तस्य तत्तीर्थं तस्माद्यानं विवर्जयेत्” इतिमत्स्यपुराणम्
“संवत्सरं द्विमासोनं पुनस्तीर्थं व्नजेद्यदि। मुण्डनञ्चोपवासञ्च तदा यत्नेन कारयेत्” इति गङ्गावा-क्याव॰। तीर्थप्राप्त्यनन्तरविधानं यथा।
“न परीक्ष्यो द्विजस्तीर्थेष्वन्नार्थीभोज्य एव हि। सक्तुभिःपिण्डदानञ्च चरुणा पायसेन च। कर्त्तव्यमृषि-भिर्दृष्टं पिण्याकेन गुडेन च। श्राद्धं तत्र तुकर्त्तव्यमर्घ्यावाहनवर्जितम्। अकालेऽप्यथवा काले तीर्थ-श्राद्धन्तु तर्पणम्। अविलम्बेन कर्त्तव्यं नैव विघ्नं समा-चरेत्। यदह्नि तीर्थप्राप्तिः स्यात्ततोऽह्नः पूर्ववासरे। उपवासश्च कर्त्तव्यः प्राप्तेऽह्नि श्राद्धदो भवेत्। तीर्थोप-वासः कर्त्तव्यः शिरसो मुण्डनं तथा। शिरोगतानिपापानि यान्ति मुण्डगतो यतः। तीर्थं प्राप्य प्रसङ्गेनस्नानं तीर्थे समाचरेत्। स्नानजं फलमाप्नोति तीर्थ-[Page3314-b+ 38] यात्राश्रितं न तु” इति काशीखण्डम्।
“मुण्डनञ्चोप-वासश्च सर्वतीर्थेष्वयं विधिः। वर्जयित्वा गयां गङ्गांविशालां विरजान्तथा” इति स्कान्दम्
“स्नापयेत्स्निग्धमित्रादीन् ज्ञातीं स्तीर्थे नरोत्तमः। अन्यथापह-रन्त्येते बलात्तीर्थभवं फलम्” इति स्कान्दम्
“मातरं पितरं जायां भ्रातरं सुहृदं गुरुम्। यमुद्दिश्यनिमज्जेत अष्टभागं लभेत सः” इति प्रा॰

३० मार्क॰ पु॰। ( कलौ तीर्थानां पृथिव्यां स्थितिकालो यथा
“सर-स्वती पुण्यक्षेत्रमाजगाम च भारतम्। गङ्गाशापेनकलया स्वयं तस्थौ हरेः पदे। पश्चाद्भगीरथानीता-महीं भागीरथी शुभा। समाजगाम कलया वाणीशापेन नारद!। पद्माजगाम कलया सा च पद्मावतीनदी। भारतं मारतीशापात् स्वयं तस्थौ हरेः पदे। कलेः पञ्चसहस्रञ्च वर्षान् स्थित्वा च भारते। जग्मुस्ताश्चसरिद्रूपं विहाय श्रीहरेः पदम्। यानि सर्वाणितीर्थानि काशीं वृन्दावनं विना। यास्यन्ति ताभिःसार्द्धञ्च वैकुण्ठमाज्ञया हरेः”। (
“यानादिना गमनदोषो यथा
“पुण्यार्द्धं हरते यानेतदर्द्धं तत्र पादुके। तदर्द्धं तैलमांसाभ्यां सर्वं हरतिमैथुने” इति कर्मलोचनम्। तत्र उपाये घट्टे च
“कृततीर्थः पयसामिवाशयः” किरा॰शास्त्रे तीर्थकरः। पात्रे।
“ब्रह्मचारी धनदायी मे-धावी श्रोत्रियः प्रियः। विद्यया विद्यां यः प्राह तानितीर्थानि षण्मम” विद्यावाक्यम्।

१८ चात्वालोत्करयोर-न्तराले देशे
“दक्षिणेनाहृत्य तीर्थेन पूर्वेण येदिमपरेणवा” कात्या॰ श्रौ॰

५ ।

५ ।

११ ।
“तीर्थेन चात्वालोत्करावन्तरेणप्रवेश्य वेदिचात्वालयोरन्तरालेन पूर्वेणोत्तरवेदिं दक्षि-णेनाग्नेः पुरस्तादाहृत्य अथवा तीर्थेन प्रवेशनानन्तर-मुत्तरां वेदिमपरेण चानीय वेद्योरन्तरालेन दक्षिणस्याग्नेःपुरस्तदानीय जुहोति”
“तेनान्तरेण प्रतिप्रद्यन्ते चात्वालंचैतद्वै देवानां तीर्थम्” षड्विं॰ व्रा॰। कराङ्गुलितलेषु ब्रा-ह्मादितीर्थता यथाह मनुः
“ब्राह्मेण विप्रस्तीर्थेन नि-त्यकालमुपस्पृशेत्। कायत्रैदशिकाभ्यां वा न पित्र्येणकदाचन। अङ्गुष्ठमूलस्य तले ब्राह्मं तीर्थं प्रचक्षते। कायमङ्गुलिमूलेऽग्रे दैवं पित्र्यं तयोरधः” शास्त्रानुज्ञावि-षये।
“अहिंसन् सर्वाभूतान्यन्यत्र तीर्थेम्यः” छा॰ उ॰ तीर्थंशास्त्रानुज्ञाविषयः” भाष्यम्।

१९ मन्त्र्याद्यष्टादशसु।
“कच्चिदष्टादशान्येषु स्वपक्षे दश पञ्च च। त्रिभिस्त्रिभिर-[Page3315-a+ 38] विज्ञातैर्वेत्सि तोर्थानि चारकैः” भा॰ स॰

५ अ॰।
“तीर्थानिमन्त्रिप्रभृतीन्यष्टादश यान्यवगाह्य राजा कृतकृत्यो भवतितानि चीकानि नीतिशास्त्रे
“मन्त्री

१ पुरोहित

२ श्चैव युव-राजश्च

३ भूपतिः

४ पञ्चमो द्वारपालश्च

५ षष्ठोऽन्तर्वेशिक-स्तथा

६ । कारागाराधिकारी

७ च द्रव्यसञ्चयकृत्तथा

८ । कृ-त्याकृत्येषु चार्थानां नवमो विनियोजकः

९ । प्रदेष्टा

१० नगराध्यक्षः

११ कार्य्यनिर्माणकृत्तथा

१२ । धर्माध्यक्षः

१३ सभाध्यक्षो

१४ दण्डपालस्त्रिपञ्चमः

१५ । षोडशो दुर्गपा-लश्च

१६ तथा राष्ट्रान्तपालकः

१७ । अटवीपालकान्तानि

१८ तीर्थान्यष्टादशैव तु। चारान् विचारयेत्तीर्थेष्वा-त्मनश्च परस्य च। पाषण्डादीनविज्ञातानन्योन्य-मितरेष्वपि। मन्त्रिणं युवराजञ्च हित्वा स्वेषु पुरोहि-तमिति” एषां तीर्थशब्दवाच्यत्वे हलायुधः
“योनौजलावतारे च मन्त्र्याद्यष्टादशस्वपि। पुण्यक्षेत्रे तथापात्रे तीर्थं स्याद्दर्शनेष्वपि”। इति परेषामष्टादशसु स्वस्यमन्त्रिपुरोहितयुवराजवजं पञ्चदशसु च तीर्थेषु चारा-नन्यैः परस्परं चाविज्ञातांस्त्रींस्त्रीन् प्रयुज्य तत्रत्यांवार्त्तां सर्वचारसंवादे तथ्यां जानीयात्” नी॰ क॰। (

२ जलाशयादरत्निमात्रदेशे आदित्यपुराणे
“अरत्निमात्रंजलं त्यक्त्रा कुर्य्याच्छौचमनुद्धृते। पश्चाच्च शोधयेत्तीर्थ-मन्यथा न शुचिर्भवेत्”। तस्मिन् देशे शौचं न कर्त्तव्यंयस्मादरत्निमात्रव्यवहितजलात् तत् स्यलमेव तीर्थं जल-समीपत्वात्” आ॰ त॰।
“तीर्थाश्रमवनारण्यगिरिपर्वतसागराः। सरस्वती भारतीच पुरीति दश कीर्तिताः” महानि॰ तन्त्रोक्ते

२ सन्यासि-नामुपाधि भेदे। तल्लक्षणं तत्रैव
“त्रिवेणीसङ्गमे तीर्थेतत्त्वमस्यादिलक्षणे। स्नायात्ततीर्थभावेन तीर्थनामा सउच्यते”। अन्यानि च भौमतोर्थानि भारततीर्थयात्राप-र्वादौ पुराणान्तरेषु प्रसिद्धानि।
“अन्यानि यानि तीर्थानिकाशीप्राप्तिकराणि च। काशीं प्राप्यैव मोक्षन्ते नान्यथाकल्पकोटिभिः” नीलकण्ठधृतवाक्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तीर्थ¦ mn. (-र्थः-र्थं)
1. Sacred science, or any of the branches of knowlege esteemed holy.
2. A holy place of pilgrimage, as Benares, &c. but es- pecially particular sports along the course of sacred streams, as the Ganges, &c. and in the vicinity of some piece of water or sacred springs.
3. Any piece of water.
4. A Ghat or stairs of a landing place.
5. A sacred preceptor, a Guru.
6. Sacrifice.
7. An A vatar or descent of a diety.
3. A school of philosophy, a Darsana a sect.
9. A coun- sellor, an adviser.
10. An expedient, a means of success.
11. The menses.
12. Pudendum muliebre.
13. A vessel.
14. A royal vessel.
15. Brahman.
16. Ascertainment of disease.
17. Fire.
18. A part of the hand sacred to any deity, as between the thumb and finger to the manes, the root of the thumb to BRAMHA, &c. E. तॄ to pass over, थक् Unadi affix; by which persons are extricated from sin, difficulty, &c.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तीर्थम् [tīrtham], [तॄ-थक् Un.2.7] 'तीर्थं शास्त्राध्वरक्षेत्रोपायोपाध्याय- मन्त्रिषु' इति विश्वः.

A passage, road, way, ford; सुप्र- तारां दृढा तीर्थे शीघ्रं नावमुपाहर Rām.2.52.6; Bhāg.9.19.4.

A descent into a river, the stairs of a landing-place (Mar. घाट); विषमो$पि विगाह्यते नयः कृततीर्थः पयसामिवाशयः Ki.2.3 (where तीर्थ means 'a remedy' or 'means' also); तीर्थं सर्वविद्यावताराणाम् K.44.

A place of water.

A holy place, place of pilgrimage, a shrine &c. dedicated to some holy object (especially on or near the bank of a sacred river &c.); तीर्थोदकं च वह्निश्च नान्यतः शुद्धिमर्हतः U.1.13; शुचि मनो यद्यस्ति तीर्थेन किम् Bh.2.55; R.1.85.

A channel, medium means; तदनेन तीर्थेन घटेत &c. Māl.1.

A remedy, expedient; नाध्यगच्छद्बलिर्लोके तीर्थ- मन्यत्र वै द्विजात् Mb.3.26.12.

A sacred or holy personage, worthy person, an object of veneration, a fit recipient; क्व पुनस्तादृशस्य तीर्थस्य साधोः संभवः U.1; Ms.3. 136; H.2.8; R.5.15; वृद्धस्य तीर्थेषु प्रतिपादिनी Kau. A.1.

A sacred preceptor, a teacher; मया तीर्थादभिनयविद्या शिक्षिता M.1.

Source, origin.

A sacrifice.

A minister; Rām.2.1.36; Pt.3.68.

Advice, instruction; विषमो$पि विगाह्यते नयः कृततीर्थः पयसामिवाशयः Ki.2.3.

Right place or moment; प्रादात्स्वन्नं च विप्रेभ्यः प्रजातीर्थे स तीर्थवित् Bhāg.1.12.14.

The right or usual manner; गौतम तीर्थेनेच्छासा इत्युपैम्यहं भवन्तम् Bṛi. Up.6. 2.7.

Certain parts of the hand sacred to deities, manes &c.

A school of philosophy.

Pudendum muliebre.

Menstrual courses of a woman.

A Brāhmaṇa.

(In liturgical language) The path to the altar between the चात्वाल q. v. and उत्कर q. v.

Fire.

Ascertainment of a disease.

A science (शास्त्र).

An auxiliary, a help; a person or official connected with the king and being in close attendance on him; (the number being 15 on one's side and 18 on the enemy's side); cf. Pt.3.69. -र्थः One of the ten orders of ascetics founded by शंकराचार्य, An honorary affix added to the names of ascetics, saints &c.; e. g. आनन्दतीर्थ. -a

Sacred.

Liberator, saviour; वार्तां सखे कीर्तय तीर्थकीर्तेः Bhāg.3.1.45. -Comp. उदकम् holy water; तीर्थोदकं च वह्निश्च नान्यतः शुद्धिमर्हतः U.1.13. -कमण्डलु-m., -n. a pot filled with water from a holy place.

करः a Jaina Arhat, sanctified teacher or saint of the Jainas; (also तीर्थकर in this sense).

an ascetic.

the founder of a new religious or philosophical school.

N. of Viṣṇu. -काकः an unsteady pupil; P.II.1.42 Vārt.; -काकः, -ध्वाङ्क्षः, -वायसः 'a crow at a sacred bathing-place', i. e. a very greedy person (लोलुप). -चर्या pilgrimage. -देवः an epithet of Śiva. -पाद् m. an epithet of Kṛiṣṇa; Bhāg.1.7.34.-भूत a. sacred, holy. -यात्रा a visit to a holy place, a pilgrimage. -राजः N. of Prayāga. -राजिः, -जी f. an epithet of Benaras. -वाकः the hair of the head.-विधिः rites observed at a place of pilgrimage (such as क्षौर). -शिला the stone-steps leading to a bathingplace. -सेविन् a. a pilgrim. (-m.) a crane.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तीर्थ n. (rarely m. MBh. )a passage , way , road , ford , stairs for landing or for descent into a river , bathing-place , place of pilgrimage on the banks of sacred streams , piece of water RV. etc.

तीर्थ n. the path to the altar between the , चात्वालand उत्करShad2vBr. iii , 1 A1s3vS3r. iv , ix S3a1n3khS3r. La1t2y. Ka1tyS3r.

तीर्थ n. a channel , iv , 8 , Paddh.

तीर्थ n. the usual or right way or manner TS. S3Br. xiv , ( अ-, xi ) Ka1tyS3r. MBh. iv , 1411

तीर्थ n. the right place or moment ChUp. viii Anup. etc.

तीर्थ n. advice , instruction , counsel , adviser , preceptor MBh. v Ma1lav. i , 12/13 Kir. ii , 3

तीर्थ n. certain lines or parts of the hand sacred to the deities Mn. ii Ya1jn5. etc.

तीर्थ n. an object of veneration , sacred object BhP.

तीर्थ n. a worthy person A1p. Mn. iii , 130 MBh. etc.

तीर्थ n. a person worthy of receiving anything( gen. ) Ma1nGr2. i , 7

तीर्थ n. N. of certain counsellors of a king (enumerated in Pan5cat. iii , 67/68 ) MBh. ii , 171 Ragh. xvii S3is3. xiv

तीर्थ n. one of the ten orders of ascetics founded by शंकरा-चार्य(its members add the word तीर्थto their names)

तीर्थ n. a brahman Un2vr2.

तीर्थ n. = दर्शनL.

तीर्थ n. = योगL.

तीर्थ n. the vulva L.

तीर्थ n. a woman's courses L.

तीर्थ n. fire Un2vr2.

तीर्थ n. = निदानib.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a righteous person fit to receive a दान। वा. ९१. १११.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


TĪRTHA : A holy place. Even from very ancient times the people of Bhārata believed in the sacredness of holy places and they considered a pilgirmage to holy places as a part and parcel of their life. Almost all the Purāṇas have praised the greatness of holy places.

It is not true that all those who visit holy places and bathe in the sacred ponds there would get salvation. In Chapter 11 of Padma Purāṇa it is stated thus:

He would get salvation whose limbs, mind, knowledge, austerity and fame are under his own control. He who lives clean in body, without egoism, contented and never accepting gifts for services done would get salvation by visiting holy places. He who would fast if he did not get food, whose organs of sense are all under control would get salvation if he visits holy places. He who is righteous, free from anger, treats all animate objects like himself would get salvation if he visits holy place.

Once the great sage Cyavana told Prahlāda thus: “Only those who are pure in heart would get the benefit of visiting sacred places. It is a sin for others to do pilgrim- age. The banks of Gaṅgā are crowded with villages and cities. Many types of people like Parayas, Fisher- men, Vaṅgas, Khasas, Huns and Mlecchas live there. They bathe in the holy river and drink the holy water, but they do not get salvation because their mind and heart are not clean.” (4th Skandha, Devī Bhāgavata).


_______________________________
*1st word in right half of page 790 (+offset) in original book.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तीर्थ न.
पवित्र जल-स्थान (या तो नदी) अथवा तालाब, आदि, बौ.श्रौ.सू. 6.1.13; अगिन्-वेदि के मुख्य शरीर का जोड़ (पर्व, सन्धि) एवं इसका उत्तरी पक्ष (उच्चतरवेदि में प्रवेश करनेके लिए अभिप्रेत एक स्थान), ‘तीर्थेनाश्वमारोह- यत्युरपक्षमपरेण,’ 17.3.22 (चयन); मृत व्यक्ति की अन्त्येष्टि-क्रिया के बाद सातवें दिन निर्मित एक मानव- प्राणी की प्रतिमा के लिए तर्पण करने के उपरान्त प्राप्त जल, वैखा. गृ.सू. 5.6.7. इस जल का निपटारा (परित्याग) दसवें दिन होना चाहिए; वह विशिष्ट स्थान जिससे होकर कार्यसम्पादक ऋत्विक् उत्तरवेदि से युक्त कृत्यों में ‘उत्कर’ एवं ‘प्रणीता’ के बीच यज्ञीय भूमि में प्रवेश करते हैं और बाहर निकलते हैं। दक्षिणा के रूप में दी जाने वाली गायों को ले जाने या हाँकने के लिए तीर्थशाला एवं सदस् के बीच में एवं वहाँ से आगनीध्र के दक्षिण तरफ होता है ‘अन्तरा शालासदसी दक्षिणेनागनीध्रं तीर्थेन, का.श्रौ.सू. 1०.2.13 (सोमयाग); दो वेदियों के बीच (चातुर्मास्य), आप. श्रौ.सू. 8.5.11; अध्वर्यु को सदैव इसके पूर्वी द्वार से ही सदस् में प्रवेश करना चाहिए एवं धिष्ण्याओं के पास गमन करना चाहिए, आप.श्रौ.सू.11.1०.16 (आह्वनीयोत्करा- वन्तरा तीर्थम्, चात्वालोत्करावन्तरा द्वितीयम्, चात्वालाह- वनीयावन्तरा तृतीयम् आहवनीयं स्रुचश्चान्तरा चतुर्थदक्षिण- परिधिसन्निधौ पञ्चमम्,मा.श्रौ.सू. 8.26.2); द्रष्टव्य-श्रौ.प.नि. 11.73-75; दाहिने हाथ की हथेली के विशिष्ट भाग जिनसे पितरों, देवताओं, ऋषियों एवं मनुष्यों आदि का तर्पण किया जाता है। ब्रह्मतीर्थ पितृतीर्थ

"https://sa.wiktionary.org/w/index.php?title=तीर्थ&oldid=499995" इत्यस्माद् प्रतिप्राप्तम्