तुङ्ग

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुङ्गः, पुं, (तुजि हिंसायाम् + घञ् ।) पुन्नागवृक्षः । (यथा, वैद्यकरत्नमालायाम् । “कुम्भीकः पुरुषस्तुङ्गः पुन्नागो रक्तकेशरः ॥”) पर्व्वतः । बुधग्रहः । इति हेमचन्द्रः । ६ । ६४ ॥ नारिकेलः । गण्डकः । इति राजनिर्घण्टः ॥ योगभेदः । इति शब्दरत्नावली ॥ स तु ग्रहाणां उच्चराशिः । यथा, -- “सूर्य्याद्युच्चान् क्रियवृषमृगस्त्रीकुलीरान्त्ययूके दिग्वह्नीन्द्रद्बयतिथिशरान् सप्तविंशांश्च विंशान् । अंशानेतान् वदति जवनश्चान्त्यतुङ्गान् सुतुङ्गां- स्तानेवांशान् मदनभवनेष्वाह नीचान् सुनी- चान् ॥” इति दीपिका ॥ “आदित्यमेषे वृषभे शशाङ्के कन्यागते ज्ञे च गुरौ कुलीरे मीने च शुक्रे मकरे महीजे शनौ तुलायामिति तुङ्गगेहाः ॥” इति समयामृतम् ॥ * ॥ अथ तुङ्गस्थग्रहफलम् । “तुङ्गेऽर्कः शुभसंयुतः शुभकरैर्मित्रैश्च दृष्टो यदा दैवात् पश्यति सोऽपि वा शुभकरानेकं द्विकं वा त्रिकम् । वित्तेशः प्रथितो विमर्द्दितरिपुः क्षौणीशमान्यो यदा क्ष्मापालार्च्चितपादपद्मयुगलो राजा त्रिकोणे यदा ॥ तुङ्गे चन्द्रमसि प्रसन्नवपुषि ब्रध्नादनष्टद्युतौ प्रख्यातोऽरिविमर्द्दकोऽगदतनू राजेश्वरो रूप- वान् । क्ष्मापालार्च्चितपादपद्मयुगलो वा धर्म्मशीलो महान् सौ म्यैरेव युतोऽथवा प्रियतमैर्दृष्टे त्रिकोणेऽपि च ॥ यदि भवति मृगस्थो भूमिपुत्त्रस्तदा वै न दिनकरमयूखाद्भ्रष्टरश्मिर्नरेन्द्रः । अगदतनुरभीतः शत्रुदर्पापहारी प्रणतरिपुनरेन्द्रः स्यात्त्रिकोणेऽपि जातः । कन्यास्थः शशलाञ्छनस्य तनयस्तिथ्यंशकैः संयुतो दृष्टो वा यदि संयुतः शुभकरैर्ज्जातस्तदा भूपतिः । यात्रायां तुरगोष्ट्रमत्तकरिणां यातैर्मही कम्पते सक्ष्माभृद्धरणीरुहा विगलिता यान्ति त्रिकोणे- ऽपि च ॥ तुङ्गे गुरौ मित्रखगेन दृष्टो राजा भवेदिन्द्रसमानमूर्त्तिः । गजाश्वनौकानरपूर्णलक्ष्मीः पृथ्वीपतिः स्वस्य त्रिकोणगेऽपि ॥ तुङ्गे भृगो शुभसुहृत्प्रयुते च दृष्टे दैवात् पुनः स यदि पश्यति मित्रसंघान् । भूपाधिपो भवति कीर्त्तिकरप्रधानो दीर्घायुरुग्रसुखभुग्भृगुजे त्रिकोणे ॥ तुङ्गे शनौ मित्रखगेन दृष्टे प्रचण्डदण्डो नृपतिप्रधानः । न दृश्यते दिग्गमने च धुर्व्वी त्रिकोणगे चापि नरेन्द्रमूर्त्तिः ॥ भवति धरणिपालो नीचबुद्धिः प्रतापी हयगजधनपूर्णो जातिवर्गे विरक्तः । कुटिलमतिरनीतो भूरिभाण्डारयुक्त- स्तमसि मिथुनसंस्थे जायते मानवेन्द्रः ॥ मृगपतिवृषकन्याकर्कटस्थे च राहौ भवति विपुललक्ष्णी राजराजाधिपो वा । हयगजनरनौकामण्डितः सार्व्वभौमो नृपतिरमरपूज्यो राहुतुङ्गी चिरायुः ॥ अरिनिधनव्ययतुङ्गे कीर्त्तितमेतत् फलं व्यर्थम् । केन्द्रत्रिकोणे लाभे वा तुङ्गफलं यथोद्दिष्टम् ॥” इति कोष्ठीप्रदीपः ॥

तुङ्गः, त्रि, (तुजि हिंसायाम् + घञ् ।) उग्रः । प्रधानम् । उन्नतः । इति शब्दरत्नावली ॥ (यथा, रधुः । ६ । ३ । “शिलाविभङ्गैर्मृगराजशाव- स्तुङ्गं नगोत्सङ्गमिवारुरोह ॥” प्रचुरः । यथा, तत्रैव । ४ । ७० । “तेषां सदश्वभूयिष्ठास्तुङ्गा द्रविणराशयः ॥”) किञ्जल्के क्ली । इति राजनिर्घण्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुङ्ग पुं।

पुन्नागः

समानार्थक:पुंनाग,पुरुष,तुङ्ग,केसर,देववल्लभ

2।4।25।2।3

वरुणो वरणः सेतुस्तिक्तशाकः कुमारकः। पुन्नागे पुरुषस्तुङ्गः केसरो देववल्लभः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

तुङ्ग वि।

उन्नतः

समानार्थक:उच्च,प्रांशु,उन्नत,उदग्र,उच्छ्रित,तुङ्ग,कराल

3।1।70।1।6

उच्चप्रांशून्नतोदग्रोच्छ्रितास्तुङ्गेऽथ वामने। न्यङ्नीचखर्वह्रस्वाः स्युरवाग्रेऽवनतानते॥

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुङ्ग¦ पु॰ तुजि--हिंसायां घञ् न्यङ्क्वा॰ कुः।

१ पुन्नागवृक्षे

२ पर्वते

३ बुधग्रहे हेमच॰।

४ नारिकेले

५ गण्डके राजनि॰।

६ उच्चेत्रि॰।

७ ग्रहविशेषस्य राशिभेदे पु॰। उच्चशब्दे

१५

८ पृ॰दृश्यम्
“अजवृषभमृगाङ्गनाकुलीरा झषबणिजौ चदिवाकरादितुङ्गाः। दशशिखिमनुयुक्तिथीन्द्रयांशैस्त्रि-नवकविंशतिभिश्च तेऽस्तनीचाः” !
“सूर्य्याद्युच्चान्क्रियवृषमृगस्त्रीकुलीरान्त्ययूके दिग्वह्नीन्द्रद्वयतिथिशरान्सप्तबिंशांश्च विंशान्। अंशानेतान् वदति यवनश्चान्त्यतुङ्गांस्तुतुङ्गांस्तानेवांशान् मदनभवनेष्वाह नीचान्-सुनीचानिति”। तुङ्गस्थग्र हभेदफलम्
“तुङ्गेऽर्कः शुभसंयुतः शुभकरैर्मित्रैश्च दृष्टो यदा दैवात् पश्यति सोऽपि वा शुभकरा-नेकं द्विकं वा त्रिकम्। वित्तेशः प्रथितो बिमर्द्दितरिपुःक्षौणीशमान्योऽथवा क्ष्मापालार्च्चितपादपद्मयुगलो राजात्रिकोणे यदा”। र॰।
“तुङ्गे चन्द्रमसि प्रसन्नवपुषिब्रध्नादनष्टद्युतौ प्रख्यातोऽरिव्रिमर्दकोऽगदतनू राजेश्वरोरूपवान्। क्ष्मापालार्च्चितपादपद्मयुगलो व्रा धर्म्म-शीलो महान् सौम्यैरेव युतोऽथ वा प्रियतमैर्दृष्टे त्रि-कोणेऽपि च”। च॰।
“यदि भवति मृगस्थो भूमिपुत्रस्तदावै न दिनकरमयूखाद्भ्रष्टरश्मिर्नरेन्द्रः। अगदतनुरभीतःशत्रुदर्पापहारी प्रणतरिपुनरेन्द्रः स्यात्त्रिकोणेऽपि जातः”। म॰।
“कन्थास्थः शशलाञ्छनस्य तनयस्तिथ्यंशकैः संयुतीदृष्टो वा यदि संयुतः शुभकरैर्ज्जातस्तदा भूपतिः। यात्रायां तुरगोष्ट्रमत्तकरिणां यानैर्मही कम्पते सक्ष्माभृद्वरणीरुहाविगलिता यान्ति त्रिकोणेऽपि च”। बु॰।
“तुङ्गे गुरौ मित्रखगेन दृष्टो राजा भवेदिन्द्रसमान-[Page3321-b+ 38] मूर्त्तिः। गजाश्वनौकार्णवपूर्णलक्ष्मीः पृथ्वीपतिः स्वस्यत्रिकोणगोऽपि”। वृ।
“तुङ्गे भृगौ शुभसुहृत्प्रयुते चदृष्टे दैवात् पुनः स यदि पश्यति मित्रसंघान्। भूपा-धिपो भवति कीर्त्तिकरः प्रधानो दौर्घारुग्रसुखभुग्-भृगुजे त्रिकोणे”। शु।
“तुङ्गे शनौ मित्रखगेन दृष्टेप्रचण्डदण्डो नृपतिप्रधानः। न दृश्यते दिग्गमने चगुर्वी त्रिकोणगे चापि नरेन्द्रमूर्त्तिः”। श।
“भवति धर-णीपालो नीचबुद्धिः प्रतापी हयगजधनपूर्णो जाति-वर्गे विरक्तः। कुटिलमतिरनीतो भूरिभाण्डारयुक्त-स्तमसि भिथुनसंस्थे जायते मानवेन्द्रः”। रा।
“मृग-पतिवृषकन्याकर्कटस्थे च राहौ भवति विपुललक्ष्मीराजराजाधिपो वा। हयगजनरनौकामण्डितःसार्वभौमोनृपतिरमरपूज्यो राहुतुङ्गी चिरायुः”। रा।
“अरिंनिधनव्ययतुङ्गे कीर्त्तितमेतत्फलं व्यर्थंकेन्द्रे त्रिकोणे लाभे वा तुङ्गफलं यथोद्दिष्टम्” इतिकोष्ठीप्र॰।

९ किञ्जल्के न॰ शब्दार्थचि॰।

१० उग्रे

११ प्रधाने

१२ उन्नते त्रि॰ शब्दर॰।
“तुङ्गत्वमितरा नाद्रौ नेदंसिन्घावगाधता” माघः।

१६ शिवे पु॰ तुङ्गवीजशब्दे दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुङ्ग¦ mfn. (-ङ्गः-ङ्गा-ङ्गं)
1. High, elevated, lofty.
2. Chief, principal.
3. Passionate, hot. m. (-ङ्गः)
1. A tree, (Rottleria tinctoria.)
2. A mountain.
3. The planet Mercury.
4. The superior apsis or aphe- lion of a planet.
5. Top, vertex, altitude.
6. The cocoanut tree. f. (-ङ्गी)
1. A kind of basil, (Ocymum gratissimum.)
2. Turmeric.
3. Night. f. (-ङ्गा) Bamboo manna. E. तुजि to guard, to dwell, to hurt, &c. affix घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुङ्ग [tuṅga], a.

High, elevated, tall, lofty, prominent; जल- निधिमिव विधुमण्डलदर्शनतरलिततुङ्गतरङ्गम् Gīt.11; तुङ्गं नगोत्सङ्ग- मिवारुरोह R.6.3,4.7; Śi.2.48; Me.12,66.

Long.

Vaulted.

Chief, principal.

Strong, passionate.

गः A height, elevation.

A mountain.

Top, summit.

The planet Mercury.

A rhinoceros.

The coco-nut tree; Mb.12.262.7.

The aphelion of a planet.

(fig.) A throne; निपात्य तुङ्गाद्रिपुयूथनाथम् Bhāg.3.3.1.

A wise man.

An epithet of Śiva.

The Punnāga tree; तुङ्गस्तु शैलपुन्नागयोस्त्रिषु Nm. -गम् The stamina of the lotusblossoms. -Comp. -बीजः quicksilver. -भम् the apsis of a planet. -भद्रः a restive elephant, an elephant in rut. -भद्रा N. of a river (formed by the junction of Tuṅgā and Bhadrā) flowing into the Kṛiṣṇā. -मुखः a rhinoceros. -वेणा N. of a river. -शेखरः a mountain.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुङ्ग mf( आ)n. prominent , erect , lofty , high MBh. etc.

तुङ्ग mf( आ)n. chief. W.

तुङ्ग mf( आ)n. strong W.

तुङ्ग m. an elevation , height , mountain R. iv , 44 , 20 (See. भृगु-) Hit. ii ( v.l. )

तुङ्ग m. top , peak W.

तुङ्ग m. ( fig. )a throne BhP. iii , 3 , 1

तुङ्ग m. a planet's apsis VarBr2. i , vii , x f. ; xxi , 1 Laghuj. ix , 20

तुङ्ग m. Rottleria tinctoria MBh. R. Sus3r.

तुङ्ग m. the cocoa-nut L.

तुङ्ग m. = -मुखL.

तुङ्ग m. Mercury L.

तुङ्ग m. N. of a man Ra1jat. vi f.

तुङ्ग n. the lotus stamina L.

तुङ्ग n. Tabashir L.

तुङ्ग n. a metre of 4 x 8 syllables

तुङ्ग n. N. of a river in Mysore

तुङ्ग n. turmeric L.

तुङ्ग n. night L.

तुङ्ग n. गौरीGal.

"https://sa.wiktionary.org/w/index.php?title=तुङ्ग&oldid=500000" इत्यस्माद् प्रतिप्राप्तम्