तुषित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुषितः, पुं, (तुष्यतीति । तुष तुष्टौ + बाहुलकात् कितच् । यद्वा, तुष + क्विप् । तुट् सन्तोषो ऽस्य जातः । तारकादित्वात् इतच् ।) देव- गणविशेषः । इत्यमरः । १ । १ । १० ॥ ते षट्त्रिंशत् स्मृताः । इति भरतः ॥ केषाञ्चिन्मते द्वादश । ते तु मन्वन्तरभेदे विभिन्ननामानः । यथा, -- “प्राणापानसमानाश्च उदानो व्यान एव च । चक्षुः श्रोत्ररसा घ्राणस्पर्शौ बुद्धिर्म्मनस्तथा । द्वादशैते तु तुषिता देवाः स्वारोचिषेऽन्तरे ॥” इति सारसुन्दरी ॥ (यथाच विष्णुपुराणे । १ । १५ । १२७-१३३ । “पूर्व्वमन्वन्तरे श्रेष्ठा द्वादशासन् सुरोत्तमाः । तुषिता नाम तेऽन्योन्यमूचुर्वैवस्वतेऽन्तरे ॥ उपस्थितेऽतियशसश्चाक्षुषस्यान्तरे मनोः । समवायीकृताः सर्व्वे समागम्य परस्परम् ॥ आगच्छत द्रुतं देवा अदितिं संप्रविश्य वै । मन्वन्तरे प्रसूयामस्तन्नः श्रेयो भविष्यति ॥ एवमुक्त्वा तु ते सर्व्वे चाक्षुषस्यान्तरे मनोः । मारीचात् कश्यपात् जातास्तेऽदित्या दक्षकन्यया । तत्र विष्णुश्च शक्रश्च जज्ञाते पुनरेव च । अर्य्यमा चैव धाता च त्वष्टा पूषा तथैव च ॥ विवस्वान् सविता चैव मित्रो वरुण एव च । अंशो भगश्चादितिजा आदित्या द्वादश स्मृताः ॥ चाक्षुषष्यान्तरे पूर्ब्बमासन् ये तुषिताः सुराः । वैवस्वतेऽन्तरे ते वै आदित्या द्वादश स्मृताः ॥” तथा च मत्स्यपुराणे । ६ । ३ -- ४ । “तुषिता नाम ये देवाश्चाक्षुषस्यान्तरे मनोः । वैवस्वतेऽन्तरे चैते आदित्या द्वादश स्मृताः ॥ इन्द्रो धाता भगस्त्वष्टा मित्रोऽथ वरुणो यमः । विवस्वान् सविता पूषा अंशुमान् विष्णुरेव च ॥” तथा, भागवते । ४ । १ । ७ । “तोषः प्रतोषः सन्तोषो भद्रः शान्तिरिडस्पतिः । इध्मः कविर्विभुः स्वाहा सुदेवो रोचनो द्बिषट् । तुषिता नाम ते देवा आसन् सायम्भुवान्तरे ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुषित पुं-बहु।

गणदेवता

समानार्थक:आदित्य,विश्व,वसु,तुषित,आभास्वर,अनिल,महाराजिक,साध्य,रुद्र

1।1।10।1।4

आदित्यविश्ववसवस्तुषिता भास्वरानिलाः। माहाराजिकसाध्याश्च रुद्राश्च गणदेवताः॥

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुषित¦ पु॰ तुष--या॰ कितच्--तुष--सम्प॰ क्विप् ततःतारका॰ इतच् वा।

१ गणदेवताभेदे ते च द्वादश। किन्तुमन्वन्तरभेदे भिन्ननामानः यथा
“चाक्षुवस्यान्तरे पूर्वमासन्ये तुषिताः सुराः। वैवस्वतेऽन्तरे ते वै आदित्या द्वादशस्मृताः” हरिवं॰

३ अ॰। तथा च आदित्यरूपा द्वादश

१३
“प्राणापानावुदानञ्च समानो व्यान एव च। चक्षुःश्रोत्ररसाघ्राणस्पर्शे बुद्धिर्मनस्तथा। द्वादशैते तु तुषिताःदेवाः स्वारोचिषेऽन्तरे” सारसुन्दरोधृतवाक्योक्ता द्वा-दश

१२
“तोषः प्रतोषः सन्तोषो भद्रः शान्तिरिडस्पतिः। इध्मः कविर्विभुः स्वाहा नुदेवो रोचनो द्विषट

१२ । तुषितानाम ते देवा आसन् स्वायम्भुवेऽन्तरे” शब्दार्थचि॰ धृत-वाक्योक्ता द्वादश इति षट्त्रिंशत्। ये च द्वादशेतिमन्यन्ते ते एकैकमन्वन्तरापेक्षया द्वादशेति वर्णयन्ति।{??}मष्ट्यमिप्रायेण षट्त्रिं शदिति विवेकः। तदभिप्रायेणैव
“षट्त्रिंशत्तुषिता मताः” इत्युक्तम्।

२ विष्णौ पु॰।
“तु-षित! महातुषितेत्यादि” भा॰ शा॰

३४ अ॰। विष्णुस्तुतौ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुषित¦ m. (-तः) A Tushita, a kind of subordinate deity, one of a class of thirty-six. F. तुष् to please, इतच् aff. तारका० इतच् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुषित m. pl. a class of celestial beings MBh. xiii , 1371 Buddh. etc. (12 in number Hariv. VP. BhP. iv , 1 , 8 Va1yuP. ii , 6 ; 36 in number L. )

तुषित m. sg. विष्णुin the 3rd मन्व्-अन्तरVishn2. iic , 47 VP. iii , 1 , 38

"https://sa.wiktionary.org/w/index.php?title=तुषित&oldid=405225" इत्यस्माद् प्रतिप्राप्तम्