तुष्टिः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुष्टिः, स्त्री, (तुष + भावे क्तिन् ।) तोषः । (यथा, मनुः । २ । ६ । “वेदोऽखिलो धर्म्ममूलं स्मृतिशीले च तद्बिदाम् । आचारश्चैव साधूनामात्मनस्तुष्टिरेव च ॥”) अधिगतार्थादन्यत्र तुच्छत्वबुद्धिः । इति चण्डी- टीकायां नागोजीभट्टः ॥ (सा च नवविधा । इति सांख्याचार्य्याः ॥ तथाचोक्तम् । “आध्यात्मिक्यश्चतस्रः प्रकृत्युपादानकाल- भाग्याख्याः । वाह्याविषयोपरमात् पञ्च नव तुष्टयोऽभिमताः ॥” इयमेव पुराणमते दक्षस्य प्रजापतेः कन्या धर्म्मस्य पत्नी च । यथा, मार्कण्डेये । ५० । १९ । २१ । “प्रसूत्याञ्च तथा दक्षश्चतस्रो विंशतिस्तथा । ससर्ज्ज कन्यास्तासाञ्च सम्यङ्नामानि मे शृणु ॥ श्रद्धा लक्ष्मीर्धृतिस्तुष्टिः पुष्टिर्मेधा क्रिया तथा । बुद्धिर्लज्जा वपुः शान्तिः सिद्धिः कीर्त्तिस्त्रयो- दशी ॥ पत्न्यर्थे प्रतिजग्राह धर्म्मो दाक्षायणीः प्रभुः ॥”) मातृकाविशेषः । इति भवदेवभट्टः ॥ (शक्ति- विशेषः । यथा, देवीभागवते । १ । १५ । ६१ । “तुष्टिः पुष्टिः क्षमा लज्जा जृम्भा तन्द्रा च शक्तयः । संस्थिताः सर्व्वतः पार्श्वे महादेव्याः पृथक् पृथक् ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुष्टिः [tuṣṭiḥ], f. [तुष्-भावे-क्तिन्]

Satisfaction, gratification, pleasure, contentment.

(In Sāṅ. phil.) Acquiescence, indifference to everything except what is possessed.

"https://sa.wiktionary.org/w/index.php?title=तुष्टिः&oldid=405261" इत्यस्माद् प्रतिप्राप्तम्