तेजस्

विकिशब्दकोशः तः
Jump to navigation Jump to search

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तेजः, [स्] क्ली, (तेजयति तेज्यतेऽनेन वा । तिज निशाने + “सर्व्वधातुभ्योऽसुन् ।” उणां । ४ । १८८ । इति असुन् ।) दीप्तिः । (यथा, माघे । २ । ६२ । “अन्यदुच्छङ्खलं सत्त्वमन्यच्छास्त्रनियान्त्रितम् । सामानाधिकरण्यं हि तेजस्तिमिरयोः कुतः ॥”) प्रभावः । (यथा, महाभारते । ६ । १४ । ४८ । “तस्मान्नूनं महावीर्य्याद्भार्गवाद्युद्धदुर्म्मदात् । तेजोवीर्य्यबलैर्भूयान् शिखण्डी द्रुपदात्मजः ॥”) भाषापरिच्छेदः ॥ (विष्णुः । यथा, महा- भारते । १३ । १४९ । ४३ । “ओजस्तेजो द्युतिधरः प्रकाशात्मा प्रतापनः ॥” शिवः । यथा, तत्रैव । १३ । १७ । ५२ । “तेजोऽपहारी बलहा मुदितोऽर्थोऽजितो- ऽवरः ॥” द्रिसप्ततिसाध्यमौलिककायस्थानामन्यतमः । तत्र अकारान्तोऽयम् । यथा, कुलदीपिकायाम् । “खामः क्षोमो घर वैओषो वीदस्तेजश्चार्णव आशः ॥”)

अमरकोशः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तेजस् नपुं।

रेतस्

समानार्थक:शुक्र,तेजस्,रेतस्,बीज,वीर्य,इन्द्रिय

2।6।62।1।2

शुक्रं तेजोरेतसी च बीजवीर्येन्द्रियाणि च। मायुः पित्तं कफः श्लेष्मा स्त्रियां तु त्वगसृग्धरा॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, अचलसजीववस्तु

तेजस् नपुं।

प्रभा

समानार्थक:प्रभा,रुच्,रुचि,त्विष्,भा,भास्,छवि,द्युति,दीप्ति,रोचिस्,शोचिस्,वर्च,महस्,ओजस्,तेजस्

3।3।235।1।1

तेजः प्रभावे दीप्तौ च बले शुक्रेऽप्यतस्त्रिषु। विद्वान्विदंश्च बीभत्सो हिंस्रोऽप्यतिशयेत्वमी॥

वैशिष्ट्य : सूर्यः

 : तडित्, किरणः, आतपः, ज्योत्स्ना

पदार्थ-विभागः : , द्रव्यम्, तेजः

तेजस् नपुं।

बलम्

समानार्थक:द्रविण,वीर्य,सार,सहस्,ओजस्,तेजस्

3।3।235।1।1

तेजः प्रभावे दीप्तौ च बले शुक्रेऽप्यतस्त्रिषु। विद्वान्विदंश्च बीभत्सो हिंस्रोऽप्यतिशयेत्वमी॥

वैशिष्ट्य : बलवान्

पदार्थ-विभागः : , गुणः

तेजस् नपुं।

प्रभावः

समानार्थक:आयति,धामन्,अधिष्ठान,वीर्य,अनुभाव,तेजस्

3।3।235।1।1

तेजः प्रभावे दीप्तौ च बले शुक्रेऽप्यतस्त्रिषु। विद्वान्विदंश्च बीभत्सो हिंस्रोऽप्यतिशयेत्वमी॥

पदार्थ-विभागः : , द्रव्यम्, तेजः

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तेजस्¦ त॰ तिज--भावे करणादौ असुन्।

१ दीप्तौ

२ प्रभावे

३ पराक्रमे

४ रेतसि च मेदि॰।

५ देहजकान्तौ

६ नवनीते

७ वह्नौ च हेमच॰।

८ सुवर्णे

९ मज्जनि

१० पित्ते चराजनि॰। सा॰ द॰ उक्ते सात्विके अधिक्षेपापमानादेर-सहनरूपे

११ नायकगुणभेदे यथा(
“शोभा विलासो माधुर्य्यङ्गाम्भीर्य्यं धैर्य्यतेजसी। ललितौदार्य्यमित्यष्टौ सत्वजाः पौरुषा गुणाः” इत्युद्दिश्य
“अधिक्षेपापमानादेः प्रयुक्तस्य परेण यत्। प्राणात्ययेऽप्य-सहनं तत्तेजः समुदाहृतम्” सा॰ द॰ लक्षितम्।

१२ सारे
“रसादीनां शुक्रान्तानां धातूनां यत्परं तेजस्तत् स्वल्वो-जस्तदेव बलमित्युच्युते” सुश्रु॰

१३ प्रागल्भ्ये

१४ पराभिभव-सामर्थ्ये।

१५ परैरनभिभाव्यत्वे।

१६ अप्रतिहताज्ञत्वे।

१७ चैतन्यात्मके ज्योतिषि।

१८ स्त्रीबालकादिभिर्मूढैरनभि-भाव्यत्वे।

१९ सत्वगुणजाते लिङ्गदेहे।

२० हयवेगे।
“तेजोनाम दर्पापरानामा सत्त्वगुणविकारः प्रकाशकोऽन्तःनारविशेषः। यथाह भोजराजः
“तेजोनिसर्गजंन्वत्त्वं वाजिनां स्फुरणं रजः। क्रोधस्तम इति ज्ञेया-स्त्रयोऽपि सहजागुणाः”। तच्च द्विविधम्। सततोत्थितं[Page3348-b+ 38] भयोत्थितञ्चेति। यथाह स एव
“धारासु योजिता-नाञ्च निसर्गात् प्रेरणं विना। अवच्छिन्नमिवाभाति तत्तेजःसततीत्थितम्। कशापादादिघातैर्यत् साध्वसात्स्फुरितन्तु तदिति”। शब्दस्पर्शतन्मात्र सहिताद्रूपतन्मा-त्रादुत्पन्ने शब्दस्पर्शरूपगुणे

२१ तृतीये महाभूते। यथा
“तृतीयं ज्योतिरित्याहुश्चक्षुरध्यात्ममुच्यते। अधिभूतं ततो-रूपं सूर्य्यस्तत्राधिदैवतम्” भा॰ आश्व॰ उष्णस्पर्शवत्तेजः।
“तद्द्विविधम्। नित्यमनित्यञ्च। नित्यं परमाणुरूपम्। अनित्यं कार्य्यरूपम्। पुनस्त्रिविधम्। शरीरेन्द्रियविष-यभेदात्। शरीरमादित्यलोके। इन्द्रियं रूपग्राहकं चक्षुःकृष्णताराग्रवर्त्ति विषयश्चतुर्विधः। भौमदिव्यौदर्य्याकरजभे-दात्। भौमं वह्न्यादिकम्। अविन्धनं दिव्यं विद्यु-दादि। भुक्तान्नस्य परिणामहेतुरौदर्यम्। आकरजंसुवर्णादि” तर्कसंग्रहः
“स्पर्श उष्णस्तेजसस्तु स्याद्रूपंशुक्लभाखरम्। नैमित्तिकं द्रवत्वन्तु नित्यतादि च पूर्व-वत्। इन्द्रियं नयनं वह्निस्वर्णादिर्विषयोमतः” इतिभाषाप॰। उपचारात्

२२ तेजस्विनि च।
“त्रीणि तेजांसिनोच्छिष्ट आलभेत कदाचन”
“अग्निं गां ब्राह्मणंचैव” भा॰ आनु॰

५०

१७ श्लो॰। स्वपरप्रकाशकं तेजःअन्धकारविरोधि तल्लक्षणञ्च शुक्लभास्वररूपसमानाधि-करणद्रव्यत्वव्याप्यजातिमत्त्वम्। तेजसो गुणादिक-मग्निशब्दे

४८ पृ॰ दृश्यम्।
“सामानाधिकरण्यं हितेजस्तिमिरयोः कुतः” माघः। भुक्ततेजसः कार्य्यञ्च छा॰उ॰ दर्शितं
“तेजोऽशितं त्रेधा विधीयते तस्य यःस्थविष्ठो धातुस्तदस्थि भवति यो मध्यमं स मज्जा यो-ऽणिष्ठः सा वाक्।
“अन्नमयं हि सौम्य! मन आपोमयःप्राणस्तेजोमयी वागिति च” तेजोभूतञ्च वायुकार्य्य-मपां कारणञ्च। यथोक्तं
“अद्भिः सौम्य! शुङ्गेन तेजो-मूलमन्विच्छ” छा॰ श्रुतिः

२३ रजोगुणे तैजसशब्दे दृश्यम्तेजसा निर्वृत्तः अण् तेजोजन्ये त्रि॰। तेजसं + अस्त्यर्थेविनि। तेजस्विन् मतुप् मस्य वः तेजस्वत्। तेजोविशिष्टेत्रि॰ स्त्रियां सर्वत्र ङीप्। तैजसी तेजस्विनी तेज-स्वती।

२४ वीर्य्ये च।

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तेजस्¦ m. (-जाः) A name of Agni or fire. n. (-जः)
1. Splendour, light, lustre.
2. Dignity, consequence.
3. Srength, power.
4. Ardour, spirit, energy.
5. Semen virile.
6. Fresh butter.
7. Impatience, in- ability to bear or put up with.
8. Gold.
9. Bile, the bilious hu- mour.
10. Marrow, the brain, &c.
11. Fame, glory.
12. Sharpness, (metallic.)
13. Pungency.
14. Heat.
15. Bodily vigour.
16. Viva- city. E. तिज् to sharpen or polish, affix भावे करणादौ असुन् |

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तेजस् [tējas], n. [तिज्-भावे करुणादै असुन्]

Sharpness.

The sharp edge (of a knife &c.).

The point or top of a flame.

Heat, glow. glare.

Lustre, light, brilliance, splendour; दिनान्ते निहितं तेजः R.4.1; तेजश्चास्मि विभावसौ Bg.7.9,1.

Heat or light considered as the third of the five elements of creation (the other four being पृथिवी, अप्, वायु and आकाश).

The bright appearance of the human body, beauty; अरिष्टशय्यां परितो विसारिणा सुजन्मनस्तस्य निजेन तेजसा R.3.15.

Fire of energy; शतप्रधानेषु तपोधनेषु गूढं हि दाहात्मकमस्ति तेजः Ś. 2.7; U.6.14.

Might, prowess, strength, courage, valour; martial or heroic lustre; तेजस्तेजसि शाम्यतु U. 5.7; Ś.7.15.

One possessed of heroic lustre; तेजसां हि न वयः समीक्ष्यते R.11.1; Pt.1.328;3.33.

Spirit, energy.

Strength of character, not bearing insult or ill-treatment with impunity.

Majestic lustre, majesty, dignity, authority, consequence; तेजोविशेषानुमितां (राजलक्ष्मीं) दधानः R.2.7.

Semen, seed, semen virile; स्याद्रक्षणीयं यदि मे न तेजः R.14.65; 2.75; दुष्यन्तेनाहितं तेजो दधानां भूतये भुवः Ś.4.3.

The essential nature of anything.

Essence, quintessence.

Spiritual, moral, or magical power.

Fire; यज्ञसेनस्य दुहिता तेज एव तु केवलम् Mb.3.239.9.

Marrow.

Bile.

The speed of a horse.

Fresh butter.

Gold.

Clearness of the eyes.

A shining or luminous body, light; ऋते कृशानोर्न हि मन्त्रपूतमर्हन्ति तेजांस्यपराणि हव्यम् Ku.1.51; Ś.4.2.

The heating and strengthening faculty of the human frame seated in the bile (पित्त).

The brain.

Violence, fierceness.

Impatience.

Anger; मित्रैः सह विरोधं च प्राप्नुते तेजसा वृतः Md.3.28.18.

The sun; उपप्लवांस्तथा घोरान् शशिनस्तेजसस्तथा Mb.12. 31.36. -Comp. -कर a.

illuminating.

granting vital power or strength. -पदम् a mark of dignity; तेजःपदं मणिमयं च हृतं शिरोभ्यः Bhāg.1.15.14. -बीजम् marrow.

भङ्गः disgrace, destruction of dignity.

depression, discouragement. -भीरः f. shadow.-मण्डलम् a halo of light; सर्वा एतस्मिंस्तेजोमण्डल एकीभवन्ति Praśna. Up.4.2. -मात्रा sense-organ; स एतास्तेजोमात्राः समभ्याददानो हृदयमेवान्ववक्रामति Bṛi. Up.4.4.1. -मूर्तिः the sun; Ms.3.93.

रूपम् the Supreme Spirit, Brahman.

the nature of light.

वृत्तम् noble behaviour; Ms.9.33.

superior power or lustre.

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तेजस् n. (often pl. )the sharp edge (of a knife etc. ) , point or top of a flame or ray , glow , glare , splendour , brilliance , light , fire RV. etc.

तेजस् n. clearness of the eyes VS. xxi AitBr. etc.

तेजस् n. the bright appearance of the human body (in health) , beauty Nal. Sus3r. i , 15

तेजस् n. the heating and strengthening faculty of the human frame seated in the bile , 14 and 26

तेजस् n. the bile L.

तेजस् n. fiery energy , ardour , vital power , spirit , efficacy , essence AV. etc.

तेजस् n. semen virile MBh. R. Ragh. S3ak.

तेजस् n. marrow L.

तेजस् n. the brain W.

तेजस् n. gold L.

तेजस् n. (opposed to क्षमा)impatience , fierceness , energetic opposition MBh. iii VarBr2. Sa1h. iii , 50 and 54 Das3ar. ii , 3

तेजस् n. (in सांख्यphil. )= रजस्(passion)

तेजस् n. spiritual or moral or magical power or influence , majesty , dignity , glory , authority AV. VS. etc.

तेजस् n. a venerable or dignified person , person of consequence MBh. v , xiii S3ak. vii , 15

तेजस् n. fresh butter L.

तेजस् n. a mystical N. of the letter ? Ra1matUp. i , 23

तेजस् n. ( असे) dat. inf. तिज्See.

तेजस् n. See. अ-, अग्नि-, उग्र-etc.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Tejas is regarded by Schrader[१] as having in the Rigveda[२] the specific sense of ‘axe.’ But in all the passages the sense of the ‘bolt’ of the god is adequate.

  1. Prehistoric Antiquities, 221.
  2. Cf. vi. 3, 5;
    8, 5;
    15, 19.
"https://sa.wiktionary.org/w/index.php?title=तेजस्&oldid=500044" इत्यस्माद् प्रतिप्राप्तम्