तैजस
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
तैजसम्, क्ली, (तेजसो विकारः । तेजस् + “तस्य विकारः ।” ४ । ३ । १३४ । इत्यण् ।) घृतम् । इति स्मृतिः ॥ धातुद्रव्यम् । इत्यमरः । २ । ९ । ९९ ॥ (यथा, मनुः । ५ । १११ । “तैजसानां मणीनाञ्च सर्व्वस्याश्ममयस्य च ॥” तीर्थविशेषः । यथा, महाभारते । ९ । ४६ । १०३ । “तैजसं नाम तत्तीर्थं यत्र पूर्ब्बमपाम्पतिः । अभिषिक्तः सुरगणैर्व्वरुणो भरतर्षभ ! ॥” तेजःसम्बन्धिनि, त्रि । यथा, रघुः । ११ । ४३ । “तैजसस्य धनुषः प्रवृत्तये तोयदानिव सहस्रलोचनः ॥”)
तैजसः, पुं, (तेजसो विकारः । तेजस् + अण् ।) सूक्ष्मशरीरव्यष्ट्युपहितचैतन्यम् । यथा, -- “एतद्व्यष्ट्युपहितं चैतन्यं तैजसो भवति तेजो- मयान्तःकरणोपहितत्वात् ॥” इति वेदान्त- सारः ॥ (तैजसाहङ्कारविशेषः । यथा, भाग- वते । २ । ५ । २४ । “सोऽहङ्कार इति प्रोक्तो विकुर्व्वन् समभूत्त्रिधा । वैकारिकस्तैजसश्च तामसश्चेति यद्भिदा ॥” घोटकविशेषः । तल्लक्षणादिकं यथा, भोज- राजकृतयुक्तिकल्पतरौ । “ये क्रोधशीला भृशवेगयुक्ता मुक्ता दिनात् क्रोशशतं व्रजन्ति । ते तैजसाः पुण्यवतां प्रदेशे भवन्ति पुण्यैरपि ते मिलन्ति ॥” सुमतिपुत्त्रः । यथा, ब्रह्माण्डे ३६ अध्याये । “तैजसस्तत्सुतश्चापि प्रजापतिरमित्रजित् ॥”)
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
तैजस नपुं।
सर्वधातवः
समानार्थक:तैजस,लोह
2।9।99।1।1
सर्वं च तैजसं लौहं विकारस्त्वयसः कुशी। क्षारः काचोऽथ चपलो रसः सूतश्च पारदे॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, मूलकम्
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
तैजस¦ न॰ तेजसो विकारः अण्।
१ घृते,
२ धातुद्रव्यमात्रे च। साङ्ख्योक्ते
३ रजोगुणोत्पन्ने त्रि॰।
“वैकारः सात्विको नामतैजसः राजसः स्मृतः। भूतादिस्तामसस्तेऽपि पृथक्तत्त्वान्यवासृजन्” पदार्थादर्शधृतवाक्यम्।
“सात्विक एकादशकः प्रवर्त्तते वैकृतादहङ्कारात्। भूतादे-स्तन्मात्रः स तामसस्तैजसादुभयम्” सा॰ का॰।
“ननुयदिसत्वतमोभ्यामेव सर्वं कार्य्यं जन्यते तदा कृतमकिञ्चित्करेणरजसेत्यत आह तैजसादुभयं तैजसात् राजसादुभयंगणद्वयं भवति। यद्यपि रजसो न कार्य्यान्तरमस्तितथापि सत्वतमसी स्वयं क्रियासमर्थे अपि न स्वस्वकार्य्यंकुरुतः रजस्तु चलतया ते यदा चालयति तदा स्वस्व-कार्य्यं कुरुत इति तदुभयस्मिन्नपि कार्य्ये सत्वतमसोः[Page3350-a+ 38] क्रियोत्पादनद्वारेणास्ति रजसः कारणत्वमिति न व्यर्थंरज” इतित॰ कौ॰। तिज निशाने इत्यस्मादसुन् तेन तेज-सा कृतः तैजसः रजसश्च सत्वतमसोः स्वस्वतेजकार्य्यसम-र्थत्वकरणरूपतैक्ष्ण्यकरणगुणयोगात् तेजःपदाभिधेयताइति तदाशयः
“तैजसादिन्द्रियाण्यासन्” शा॰ ति॰। सत्त्व-गुणस्य प्रकाशकत्वात्
“तैजसमन्तःकरणमिति” वेदान्तप॰।
४ तीर्थभेदे न॰।
“तैजसं नाम तत्तीर्थं यत्र तीर्थेह्यपांपतिः। अभिषिक्तः सुरगणैर्वरुणो भरतर्षभ!” भा॰ श॰
४७ अ॰ एतद्व्यष्ट्यु पहितं चैतन्यं तैजसो भवति। तेजोम-यान्तःकरणोपहितत्वात्” वेन्दान्तसारोक्ते
५ चैतन्यभेदेपु॰।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
तैजस¦ mfn. (-सः-सी-सं)
1. Of or relating to fire, fiery, splendid.
2. Power- ful, vigorous, intense. n. (-सं)
1. Ghee or oiled butter.
2. Any metal.
3. Intensity.
4. Vigour, energy. E. तेजस् brilliance, affix अण् | तेजसो विकारः |
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
तैजस [taijasa], a. (-सी f.) [तेजसो विकारः अण्]
Bright, splendid, luminous; वैराजा नाम ते लोकास्तैजसाः सन्तु ते शिवाः U.2. 12.
Made up or consisting of light; तैजसस्य धनुषः प्रवृत्तये R.11.43.
Metallic.
Passionate.
Vigorous, energetic.
Powerful, intense.
A kind of horse; ते तैजसाः पुण्यवता प्रदेशे भवन्ति पुण्यैरपि ते मिलन्ति Yuktikalpataru.
Endowed with the राजस quality; वैकारिक- स्तैजसश्च तामसश्चेत्यहं त्रिधा Bhāg.3.5.3. -सः The highly refined or subtle essence (Vedānta Phil.); विश्वश्च तैजसः प्राज्ञस्तुर्य आत्मा समन्वयात् Bhāg.7.15.54; Muṇḍ.4.
सम् Any metal; Bhāg.11.21.12.
Ghee.
Intensity, severity.
Vigour, energy, might.
The group of senses; तैजसे निद्रयापन्ने पिण्डस्थो नष्टचेतनः । मायां प्राप्नोति मृत्युं वा Bhāg.11.28.3.
The movable (जङ्गम) world; तस्य तत्तेजसस्तस्माज्जज्ञे लोकेषु तैजसम् Mb.13.85.12. -Comp. -आवर्तनी a crucible.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
तैजस mf( ई)n. originating from or consisting of light( तेजस्) , bright , brilliant S3Br. xiv Ma1n2d2Up. MBh. etc.
तैजस mf( ई)n. consisting of any shining substance (as metal) , metallic A1s3vGr2. Gaut. Mn. Ka1tyS3r. Sch.
तैजस mf( ई)n. said of the gastric juice as coloured by digested food Sus3r. i , 14
तैजस mf( ई)n. passionate Sa1m2khyak. Tattvas. Veda7ntas. Sus3r. BhP.
तैजस n. metal L.
तैजस n. vigour W.
तैजस n. N. of a तीर्थMBh. iii , 7035 ; ix , 2723
तैजस n. long pepper Gal.
Purana index
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
--a son of Sumati. वा. ३३. ५४.
Purana Encyclopedia
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
TAIJASA : A holy place. This is situated in Kurukṣetra. The importance of this place lies in the fact that it was at this place that all devas together crowned Subrah- maṇya as their Commander-in-chief. (Śloka 16, Chapter 83, Vana Parva).
_______________________________
*4th word in right half of page 782 (+offset) in original book.