तैलम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तैलम्, क्ली, (तैलं तैलवत् स्नेहोऽस्त्यस्येति । अच् ।) सिह्लकः । इति रत्नमाला ॥ (तिलस्य तत्- सदृशस्य वा विकारः । तिल + “तस्य विकारः ।” ४ । ३ । १३४ । इत्यण् ।) तिलादिजातस्नेहः । यथा, भावप्रकाशे । “तिलादिस्निग्धवस्तूनां स्नेहस्तैलमुदाहृतम् ॥” तत्पर्य्यायः । म्रक्षणम् २ स्नेहः ३ अभ्य- ञ्जनम् ४ । इति हेमचन्द्रः । ३ । ८१ ॥ अस्य गुणाः । कषायत्वम् । मधुरत्वम् । त्वच्यत्वम् । उष्णत्वम् । व्यवायित्वम् । पित्तकारित्वम् । वद्ध- विन्मूत्रत्वम् । श्लेष्मावर्द्धकत्वम् । सर्व्ववात- विकारनाशित्वम् । मेधाग्निबलवर्द्धनत्वञ्च । “नास्ति तैलात् परं किञ्चित् भेषजं मारुता- पहम् ॥” इति राजनिर्घण्टः ॥ पक्वपुरातनतैलस्य गुणः । महद्गुणत्वम् । किञ्चिद्गन्धहीनत्वञ्च । द्रव्यसंयोगे संस्कृततैलस्य सर्व्वरोगनाशित्वम् ॥ अवगाहने युक्ततैलस्य गुणः । शरीरबलकारित्वम् । शिंरामुखरोम- कूपधमनीनाडीद्वारा तृप्तिकारित्वञ्च । नित्यं मस्तके अधिकतैलदानगुणाः । शिरःशूल- खालित्यपालित्यनाशित्वम् । केशमूलस्य दृढता- कारित्वम् । केशस्यापतनघनताकृष्णतादीर्घता- कारित्वम् । इन्द्रियप्रसन्नताग्निशुद्धिकारित्वञ्च ॥ नित्यं कर्णे तैलपूरणस्य गुणाः । मन्याहनु- संग्रहोच्चैःश्रुतिवाधिर्य्यकर्णवातजरोगाजनक- त्वम् ॥ मर्द्दने तैलस्य गुणः । घृतादष्टगुणगुरु- त्वम् । इति राजवल्लभादिः ॥ * ॥ “प्रातःस्नाने व्रते श्राद्धे द्वादश्यां ग्रहणे तथा । मद्यलेपसमं तैलं तस्मात्तैलं विवर्जयेत् ॥” इति कर्म्मलोचनम् ॥ “घृतञ्च सार्षपं तैलं यत्तैलं पुष्पवासितम् । अदुष्टं पक्वतैलञ्च तैलाभ्यङ्गे च नित्यशः ॥” इति तिथ्यादितत्त्वम् ॥ * ॥ वारविशेषे तैलग्रहणफलं यथा, -- रवौ हृद्रोगः सोमे कीर्त्तिलाभः कुजे मृत्युः बुधे पुत्त्राप्तिः गुरौ अर्थहानिः शुक्रे शोकः शनौ दीर्घायुः ॥ * ॥ अथ निषिद्धदिने तैलग्रहणदोषशान्त्यर्थदेय- द्रव्यनियमः । रवौ पुष्पं गुरौ दूर्व्वा कुजे भूमिः शुक्रे गोमयम् । अस्य प्रमाणं यथा, -- “अर्के नूनं दहति हृदयं कीर्त्तिलाभश्च सोमे भौमे मृत्युर्भवति नियतं चन्द्रजे पुत्त्रलाभः । मलकृद्रसतः स्वादु ग्राहि त्वग्दोषहृत् व्रणम् । वस्तौ पाने तथाभ्यङ्गे नस्ये कर्णस्य पूरणे ॥ अनुपानविधौ चापि प्रयोज्यं वातशान्तये ॥ * ॥ अथ वररैतैलगुणाः । कुसुम्भतैलमम्लं स्यादुष्णं गुरु विदाहि च । चक्षुर्भ्यामहितं बल्यं रक्तपित्तकफप्रदम् ॥ * ॥ अथ खाखसवीजतैलगुणाः । तैलं खाखसवीजानां बल्यं वृष्यं गुरु स्मृतम् । वातहृत् कफकृच्छीतं स्वादुपाकरसञ्च तत् ॥ * ॥ अथ एरण्डतैलगुणाः । एरण्डतैलं तीक्ष्णोष्णं दीपनं पिच्छिलं गुरु । वृष्यं त्वच्यं वयःस्थायि मेधाकान्तिबलप्रदम् ॥ कषायानुरसं सूक्ष्मं योनिशुक्रविशोधनम् । विस्रं स्वादु रसे पाके सतिक्तं कटुकं सरम् ॥ विषमज्वरहृद्रोगपृष्ठगुह्यादिशूलहृत् । हन्ति वातोदरानाहगुल्माष्ठीलाकटीग्रहान् ॥ वातशोणितविड्बन्धव्रध्नशोथामविद्रधीन् । आमवातगजेन्द्रस्य शरीरवनचारिणः । एक एव निहन्तायमेरण्डस्नेहकेशरी ॥ * ॥ अथ रालतैलगुणाः । तैलं सर्ज्जरसोद्भूतं विस्फोटव्रणनाशनम् । कुष्ठपामाकृमिहरं वातश्लेष्मामयापहम् ॥ * ॥ अथ सर्व्वतैलगुणाः । तैलं स्वयोनिगुणकृद्वाग्भटेनाखिलं मतम् । अतः शेषस्य तैलस्य गुणा ज्ञेयाः स्वयोनिवत् ॥ इति भावप्रकाशे तैलवर्गः ॥ * ॥ अथ पुराणतैलगुणाः । “यामं कल्ककषायवीर्य्यमखिलं चूर्णञ्च पक्षत्रयं षण्मासान् घृतमोदकौ सहगुडौ मासत्रयं गुग्गुलोः । सिद्धानां रसभस्मनां सुविपुलं वीर्य्यन्तु वर्षत्रयं किञ्चिद्गन्धविवर्ज्जितं गुणपरं तैलं पुराणं महत् ॥” इति नारायणदासकृतपरिभाषा ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तैलम् [tailam], [तिलस्य तत्सदृशस्य वा विकारः अण्]

Oil; लभेत सिकतासु तैलमपि यत्नतः पीडयन् Bh.2.5; Y.1.284; R.8.38.

Benzoin. -Comp. -अटी a wasp. -अभ्यङ्गः anointing the body with oil. -अम्बुका, -पकः, -पका, -पा, -पायिका a cockroach; Ms.12.63. -कल्कजः oil-cake.-कारः an oil-man. -किट्टम् oil cake. -क्षौमम् a kind of oily cloth (whose ash is applied to the wound); Mb. 5.155.9. -चौरिका a cockroach. -द्रोणी an oil-tub.

पर्णिका, पर्णी, र्णिकम् sandal.

incense; Kau. A.2.11.

turpentine. -पायिन् m.

a kind of cockroach; यस्तु चोरयते तैलं नरो मोहसमन्वितः । सो$पि राजन्मृतो जन्तुस्तैलपायी प्रजायते ॥ Mb.13.111.111.

a sword; तामापतन्तीं चिच्छेद शकुनिस्तैलपायिना Mb.7.155.31. -पिञ्जः the white sesamum. -पिपीलिका the small red ant.-पीत a. one who has drunk oil. -पूर a. (lamp) that wants no oil-filling; cf. भवन्ति यत्रैषधयो रजन्यामतैलपूराः सुरतप्रदीपाः Ku.1.1. -प्रदीपः an oil-lamp; Ks.99.4.

फलः the Iṅgudi tree.

the sesamum plant.-भाविनी Jasmine. -माली the wick of a lamp; (also मालिन् m.) -यन्त्रम् an oil-mill; Bhāg.5.21.13. -स्फटिकः a kind of gem.

"https://sa.wiktionary.org/w/index.php?title=तैलम्&oldid=408051" इत्यस्माद् प्रतिप्राप्तम्