तोमर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तोमरः, पुं क्ली, (तुम्पति हिनस्तीति । तुम्प + बाहुलकात् अरप्रत्ययेन साधुः । इत्युज्ज्वलदत्ते- नोक्तम् । ३ । १३१ ।) अस्त्रविशेषः । शावली इति भाषा । तत्पर्य्यायः । शर्व्वला २ । इत्य- मरः । २ । ८ । ९३ ॥ (यथा, देवीभागवते । ५ । ५ । २९ । “गदाभिः पट्टिशैः शूलैश्चक्रैश्च शक्तितोमरैः ॥”) हस्तक्षेप्यसशल्यदण्डः । इति महाभारतटीका ॥ रायवा~श इति भाषा ॥ (अस्य आकृत्यादिक- मुक्तं वैशम्पायनेन तद्यथा, -- “तोमरः काष्ठकायः स्यात् लौहशीर्षः सुपुच्छवान् । हस्तत्रयोन्नताङ्गश्च रक्तवर्णस्त्ववक्रगः ॥” शार्ङ्गधरेण तु, -- “फणवत् शीर्षदेशः स्यात्तोमरस्त्वायसस्तथा ॥” वैशम्पायनोक्तान्यस्य कार्य्याणि यथा, -- “उद्धानं विनियुक्तिश्च वेधनञ्चेति तत्त्रिकम् । वल्गितं शस्त्रतत्त्वज्ञाः कथयन्ति नराधिपाः ॥” अग्निपुराणोक्तधनुर्व्वेदमतेऽस्य कार्य्याणि यथा, “दृष्टिघातं भुजाघातं पार्श्वघातं द्विजोत्तम ! । ऋजुपक्षेषुणा पातं तोमरस्य प्रकीर्त्तितम् ॥” जनपदविशेषः । यथा, मात्स्ये । १२० । ५७ । “तोमरान् प्लावयन्ती च हंसमार्गान् समूहकान् ॥” नवाक्षरछन्दोविशेषे, क्ली । शब्दार्थचिन्ता- मणिधृतं तल्लक्षणादिकं यथा, -- “प्रथमं सकं विनिधाय जगणद्बयञ्च निधाय । कुरु तोमरं सुखकारि फणिराजवक्त्रविहारि ॥” उदाहरणम्, -- “सखि ! मादके मधुमासि व्रज सत्वरं किमिहासि । सहते न किं विहरामि किमु पावकं प्रविशामि ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तोमर पुं-नपुं।

तोमरः

समानार्थक:सर्वला,तोमर

2।8।93।1।4

वा पुंसि शल्यं शङ्कुर्ना सर्वला तोमरोऽस्त्रियाम्. प्रासस्तु कुन्तः कोणस्तु स्त्रियः पाल्यश्रिकोटयः॥

पदार्थ-विभागः : उपकरणम्,आयुधम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तोमर¦ पुं न॰ तु--विच् तौर्गतो म्रियतेऽनेन मृ--करणे अप्।

१ हस्तक्षेप्ये शल्याग्रे दण्डाकारेऽस्त्रभेदे (रायवां श)अमरः। तोमरलक्षणं हेमा॰ प॰ लक्षणसमुच्चये उक्तं यथा। औशनसधनुर्वेदे।
“शुक्रो भगवानुवाच जमदग्निं प्रतिवत्स! निबोध यथाप्रश्नमुच्यमानम् तत्र दण्डान्वितंसर्वलौहं वेति तोमरं द्विविधं भवति। तच्च तोमरंसदण्डं लक्ष्यायतं भवेत् तोमरं सर्वायसं तक्त्वार्य्येप्रयोजयेत्। तच्च निकृष्टमध्यमोत्तमं भूयस्त्रिविधं प्रमा-णतो भवति तत्र चतुर्हस्तप्रमाणं निकृष्टं सार्द्धचतुर्हस्तंमध्यमं पञ्चहस्तप्रमाणं तूत्तमं भवति। तथा कलनायांचाद्यं द्वितीयं तृतीयं चेति त्रिधा द्व्यङ्गुलमध्ये द्व्यङ्गुल-कलितमेकं स्यान्मध्यात्पूर्वं त्र्यङ्गुलकलितं द्वितीयं स्यात्। मध्यात्पूर्वं षडङ्गुलकलितस्थानकलनया तृतीयं स्यात्। सार्द्धमेकं निकृष्टं, त्रयोमध्यमं षडत्तमं कलनायास्तथातोमरास्त्रस्य परिणाहः परः षडङ्गुलो भवति सार्द्धप-ञ्चाङ्गुलो मध्यमः पञ्चाङ्गुलः कनिष्ठ इति। त्रयाणांदेशानां त्रयः छन्दाः। छादनात्तथा आवन्त्योमागधो दाक्षि-णात्यश्चेति। तत्रावन्त्यतोमरं तक्षणसंस्थानं भवतिमागधं तोमरं योनिसंस्थानं भवति दाक्षिणात्यं तोमरंवृत्तं भवति। तेषां मुखानि तद्देशाच्छन्दतः इति इत्यादि।

२ नवाक्षरपादके छन्दोभेदे
“प्रथमं सकं विनिधायजगणद्वयञ्च निधाय। कुरु तोमरं सुखकारि फणिराज-वक्त्रविहारि” तल्लक्षणम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तोमर¦ mfn. (-रः-रा-रं)
1. An iron club or crow.
2. A lance. E. तु Sautra root, to hurt, affix विच्, तु that which injures, मृ to die, affix करणे अच्, and the vowel of तु changed.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तोमरः [tōmarḥ] रम् [ram], रम् 1 An iron club; Mb.7.142.45.

A javelin.

A kind of crescent-shaped edge of an arrow with the ends of the crescent pointing downwards; Dhanur. V.

Comp. धरः fire (considered as a deity).

a warrior armed with a club.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तोमर mn. ( g. अर्धर्चा-दि)a lance , javelin MBh. etc.

तोमर m. pl. N. of a people , vi , 377

तोमर m. sg. N. of the ancestor of a commentator on Devi1m.

तोमर n. a metre of 4 x 9 syllables.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--an eastern hill tribe; फलकम्:F1: Br. II. १६. ५१; M. १२१. ५८; वा. ४५. १२०; ४७. ५६.फलकम्:/F an eastern kingdom; फलकम्:F2: Br. II. १६. ६८.फलकम्:/F country of the, watered by the नलिनी. फलकम्:F3: Ib. II. १८. ५९.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


TOMARA : A place of habitation situated on the north- east part of Bhārata. (Śloka 69, Chapter 9, Bhīṣma Parva).


_______________________________
*7th word in left half of page 791 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=तोमर&oldid=430377" इत्यस्माद् प्रतिप्राप्तम्