तोयद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तोयदः, पुं, (तोयं ददातीति । दा + कः ।) मेघः । (यथा, महानिर्व्वाणतन्त्रे । ४ । ५३ । “यदा क्षौणी स्वल्पफला तोयदाः स्तोकवर्षिणः असम्यक्फलिनो वृक्षास्तदैव प्रबलः कलिः ॥”) मुस्तकम् । घृते, क्ली । इति मेदिनी । दे, ३० ॥ जलदातरि त्रि ॥ (यथा, महाभारते शान्ति- पर्व्वणि । “तोयदो मनुजव्याघ्र ! स्वर्गं गत्वा महाद्युते ! । अक्षयान् समवाप्नोति लोकानित्यब्रवीन् मनुः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तोयद¦ पु॰ तोयं ददाति दा + क।

१ मेघे,

२ मुस्तके च।

३ घृतेन॰ मेदि॰।

४ विधिना जलदातरि त्रि॰।
“तोयद-स्तृप्तिमाप्तोति” पुरा॰। तद्दानमाहात्म्यं भा॰ शा॰ दान-धर्म्मे यथा
“अन्ने दत्ते नरेणेह प्राणा दत्ता भवन्त्युत। प्राणदानाद्धिपरमं न दानमिह विद्यते। अन्नं वापि प्रभवति पानीयात्कुरुसत्तम!। नीरजातेन हि विना न किञ्चित् संप्रव-र्त्तते। अन्नौषध्यो महाराज! वीरुधश्च जलोद्भवाः। यतःप्राणभृतां प्राणाः सम्भवन्ति विशाम्पते!। तस्मात् पानीय-दानांद्वै न परं विद्यते क्वचित्। तच्च दद्यान्नरोनित्ययदीच्छेद् भूतिमात्मनः। धन्यं यशस्यमायुष्यं जल-दानमिहोच्यते। शत्रूंश्चाप्यधि कौन्तेय! सदा तिष्ठतितोयदः। सर्वकामानवाप्तोति कीर्त्तिञ्चैवेह शाश्वतीम्। प्रेत्य चानन्त्यमश्नाति पापेभ्यश्च प्रमुच्यते। तोयदो मनुजव्याघ्र! स्वर्गं गत्वा महाद्युते!। अक्षयान् समवाप्तोतिलोकानित्यव्रवीन् मनुरिति”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तोयद¦ mfn. (-दः-दा-दं) Who or what gives water. m. (-दः)
1. A cloud.
2. A fragrant grass, (Cyperus rotundus.) n. (-दं) Ghee or oiled butter. E. तोय water, and द yielding. तोयं ददाति दा + क |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तोयद/ तोय--द m. " water-giver " , a rain-cloud R. Ragh. etc.

तोयद/ तोय--द m. Cyperus rotundus L.

तोयद/ तोय--द m. ghee L.

"https://sa.wiktionary.org/w/index.php?title=तोयद&oldid=500057" इत्यस्माद् प्रतिप्राप्तम्