त्याग
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
त्यागः, पुं, (त्यज् + घञ् ।) दानम् । इत्यमरः । २ । ७ । २९ ॥ (यथा, रघुः । १ । ७ । “त्यागाय सम्भृतार्थानां सत्याय मित- भाषिणाम् ॥”) वर्ज्जनम् । इति मेदिनी । गे, ८ ॥ (यथा, मनुः । ८ । ३८९ । “न माता न पिता न स्त्री न पुत्त्रस्त्याग- मर्हति ॥”) विवेकिपुरुषः । इति शब्दरत्नावली ॥ सर्व्व- कर्म्मफलविसर्ज्जनम् । यथा, -- “काम्यानां कर्म्मणां न्यासं सन्न्यासं कवयो विदुः । सर्व्वकभफलत्यागं प्राहुस्त्यागं विचक्षणाः ॥ त्याज्यं दोषवदित्येके कर्म्म प्राहुर्म्मनीषिणः । यज्ञदानतपःकर्म्म न त्याज्यमिति चापरे ॥ निश्चयं शृणु मे तत्र त्यागे भरतसत्तम ! । त्यागो हि पुरुषव्याघ्र ! त्रिविधः संप्रकीर्त्तितः ॥ यज्ञो दानं तपः कर्म्म न त्याज्यं कार्य्यमेव तत् । यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् ॥ एतान्यपि च कर्म्माणि सङ्गं त्यक्त्वा फलानि च । कर्त्तव्यानीति मे पार्थ ! निश्चितं मतमुत्तमम् ॥ नियतस्य तु सन्न्यासः कर्म्मणो नोपपद्यते । मोहात्तस्य परित्यागस्तामसः परिकीर्त्तितः ॥ दुःखमित्येव यत् कर्म्म कायक्लेशभयात् त्यजेत् । स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत् ॥ कार्य्यमित्येव यत् कर्म्म नियतं क्रियतेऽर्ज्जुन ! । सङ्गं त्यक्त्वा फलञ्चैव स त्यागः सात्त्विको मतः ॥” इति श्रीभगवद्गीतायाम् । १८ । २-९ ॥ (त्रि, दाता । यथा, ऋग्वेदे । ४ । २४ । ३ । “मिथो यत्त्यागमुभयासो अग्मन् नरः स्तोकस्य तनयस्य सातौ ॥” “उभयास उभये यजमानाः स्तोतारश्च त्यागं त्थागकर्त्तारं दातारमिन्द्रं अग्मन् उपगच्छन्ति ॥” इति सायनः ॥)
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
त्याग पुं।
दानम्
समानार्थक:त्याग,विहापित,दान,उत्सर्जन,विसर्जन,विश्राणन,वितरण,स्पर्शन,प्रतिपादन,प्रादेशन,निर्वपण,अपवर्जन,अंहति,साति,निर्यातन
2।7।29।1।1
त्यागो विहापितं दानमुत्सर्जनविसर्जने। विश्राणनं वितरणं स्पर्शनं प्रतिपादनम्.।
सम्बन्धि1 : यज्ञः
: मृताहे_दानम्, पितॄनुद्धिश्यक्रियमाणः_दानम्, फलेच्छायुक्तदानम्, सदादानम्, देवहविर्दानम्
पदार्थ-विभागः : , क्रिया
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
त्याग¦ पु॰ त्यज--भावे घञ्। उत्सर्गे मूर्तद्रव्यस्य स्वत्वध्वंसा-नुकूलव्यापारे न ममेदमित्याकारे।
“न माता नपिता न स्त्री न पुत्रस्त्यागमर्हति”
“उन्मत्तं पतितंक्लीवमवीरं पापरोगिणम्। न त्यागोऽस्ति द्विष-न्त्याश्च न च दायापवर्तनम्” मनुः अमूर्तद्रव्यस्य
२ वि-योगमात्रे च। त्यागश्च सात्त्विकादिभेदात् त्रिविधः। यथाह गीता
“नियतस्य तु सन्न्यासः कर्मणो नोपप-द्यते। मोहात्तस्य परित्यागस्तामसः परिकीर्तितः। दुःखमित्येव यत् कर्म कायक्लेशभयात् त्यजेत्। सकृत्वा राजसं त्यागं नैव त्यागफलं लभेत्। कार्य्यमि-त्येव यत् कर्म नियतं कुरुतेऽर्जुन!। सङ्गं त्यक्त्वाफलं चैव स त्यागः सात्त्विको मतः”। विशेषणाभावात्विशेष्याभावात् उभयाभावाच्च पुनरपि सात्त्विकस्त्यागःत्रिविधः तथा हि फलाभिसन्धिपूर्वककर्मत्यागः सत्यपिकर्मणि फलाभिसन्धित्यागादेकः। स च सात्त्विकत्वा-दादेयः। सत्यपि फलाभिसन्धौ कर्मत्यागात् द्वितीयः। स च दुःखबुद्ध्या कृतो राजसः विपर्य्यासेन कृतस्ता-मसः इति भेदः। द्विविधोऽपि हेयो भवति। फलाभि-सन्धेः कर्मणश्च त्यागात् तृतीयः। स च कर्मानधि-कारिकर्त्तृको नैर्गुण्यरूपः। सोऽपि साधनफलभेदेनद्विविधः। तत्र सात्त्विकेन फलाभिसन्धित्यागपूर्वककर्मानु-ष्ठानरूपेण त्यागेन शुद्धान्तःकरणस्योत्पन्नविविदिषस्यआत्मज्ञानसाधनश्रवणाख्यं वेदान्तविचाराय फलाभिस-न्धिरहितस्यान्तःकरणशुद्धौ सत्यां तत्साधनस्य परित्यागःस एकः साधनभूतो विविदिषासन्न्यास उच्यते। जन्मान्तरकृतसाधनाभ्यासपरिपाकादस्मिन् जन्मनि आदा-वेवोत्पन्नात्मबोधस्य कृतकृत्यस्य स्वत एव फलाभिसन्धेःकर्मणश्च परित्यागः फलभूतः स विद्वत्सन्न्यास इत्यु-च्यते।
“त्यागप्रपञ्चरूपस्यचिदात्मत्वावलोकनात्। त्यागो[Page3358-a+ 38] हि महतां पूज्यः सद्यो मोक्षमयो यतः। त्यागेनयुक्ता दिवमुत्पतन्ति त्यागेन हीना नरकं व्रजन्ति। नत्यागिनां दुष्करमस्ति किञ्चित् त्यागो हि सर्वव्यसनानिहन्ति” शब्दार्थचि॰ धृतवाक्यम्।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
त्याग¦ m. (-गः)
1. Gift, donation.
2. Abandoning, leaving, parting from, separation, deserting, &c.
3. A sage, one who separates himself from worldly thoughts. E. त्यज् to abandon, भावे घञ् aff.
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
त्यागः [tyāgḥ], [त्यज्-भावे घञ्]
Leaving, forsaking, abandoning, deserting, separation; न माता न पिता न स्त्री न पुत्रस्त्याग- मर्हति Ms.8.389;9.79.
Giving up, resigning, renouncing; Ms.1.112; सर्वकर्मफलत्यागं ततः कुरु यतात्मवान् Bg.12.11.
Gift, donation, giving away as charity; करे श्लाघ्यस्त्याग Bh.2.65; वित्तं त्यागनियुक्तम् (दुर्लभम्) H. 1.139; त्यागाय संभृतार्थानाम् R.1.7; Pt.1.169.
Liberality, generosity; Ms.2.97; R.1.22.
Secretion, excretion.
Dismissing, discharging.
Sacrificing oneself; मिथो यत् त्यागमुभयासो अग्मन् Rv.4.24.3.
A sage. -Comp. -पत्रम् a bill of divorcement. -युत, -शील a. liberal, generous, munificent.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
त्याग m. ( Pa1n2. 6-1 , 216 ) leaving , abandoning , forsaking Mn. etc.
त्याग m. quitting (a place , देश-) Pan5cat.
त्याग m. discharging , secretion MBh. xiv , 630 VarBr2S. giving up , resigning , gift , donation , distribution Ka1tyS3r. Mn. etc.
त्याग m. sacrificing one's life RV. iv , 24 , 3
त्याग m. liberality Mn. ii , 97 R. etc.
त्याग m. a sage L.
त्याग m. See. आत्म-, तनु-, देह-, प्रा-ण-, शरीर-.
Purana index
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
--is to look on the useful and the useless equally; renunciation from affection, desire and difficulty; giving up of all Karmas and having an equal eye on good and evil; फलकम्:F1: वा. ५९. ५३.फलकम्:/F result of ज्ञान or knowledge; gives the result of Karma, but difficult to achieve; फलकम्:F2: Br. IV. 3. ४५.फलकम्:/F leads to वैराग्य. फलकम्:F3: वा. १०२. ६६.फलकम्:/F
Vedic Rituals Hindi
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
त्याग पु.
(त्यज्+घञ्) किसी वस्तु को अर्पित करना, यज्ञ के तीन प्राथमिक तत्त्वों में एक (अर्थात् तृतीय) जो यज्ञ के लिए अत्यावश्यक है, का.श्रौ.सू. 1.2.2 (द्रव्यं देवता त्यागः); अपने स्वामित्व वाली वस्तुओं (अर्थात् जो अपने पास हैं) को यह कहते हुए अभिमानी देवता को अर्पित करना चाहिए- कि यह मेरे लिए नहीं है, बल्कि देवता के लिए है, श्रौ.प.नि. 3०.249.