त्यागः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्यागः, पुं, (त्यज् + घञ् ।) दानम् । इत्यमरः । २ । ७ । २९ ॥ (यथा, रघुः । १ । ७ । “त्यागाय सम्भृतार्थानां सत्याय मित- भाषिणाम् ॥”) वर्ज्जनम् । इति मेदिनी । गे, ८ ॥ (यथा, मनुः । ८ । ३८९ । “न माता न पिता न स्त्री न पुत्त्रस्त्याग- मर्हति ॥”) विवेकिपुरुषः । इति शब्दरत्नावली ॥ सर्व्व- कर्म्मफलविसर्ज्जनम् । यथा, -- “काम्यानां कर्म्मणां न्यासं सन्न्यासं कवयो विदुः । सर्व्वकभफलत्यागं प्राहुस्त्यागं विचक्षणाः ॥ त्याज्यं दोषवदित्येके कर्म्म प्राहुर्म्मनीषिणः । यज्ञदानतपःकर्म्म न त्याज्यमिति चापरे ॥ निश्चयं शृणु मे तत्र त्यागे भरतसत्तम ! । त्यागो हि पुरुषव्याघ्र ! त्रिविधः संप्रकीर्त्तितः ॥ यज्ञो दानं तपः कर्म्म न त्याज्यं कार्य्यमेव तत् । यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् ॥ एतान्यपि च कर्म्माणि सङ्गं त्यक्त्वा फलानि च । कर्त्तव्यानीति मे पार्थ ! निश्चितं मतमुत्तमम् ॥ नियतस्य तु सन्न्यासः कर्म्मणो नोपपद्यते । मोहात्तस्य परित्यागस्तामसः परिकीर्त्तितः ॥ दुःखमित्येव यत् कर्म्म कायक्लेशभयात् त्यजेत् । स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत् ॥ कार्य्यमित्येव यत् कर्म्म नियतं क्रियतेऽर्ज्जुन ! । सङ्गं त्यक्त्वा फलञ्चैव स त्यागः सात्त्विको मतः ॥” इति श्रीभगवद्गीतायाम् । १८ । २-९ ॥ (त्रि, दाता । यथा, ऋग्वेदे । ४ । २४ । ३ । “मिथो यत्त्यागमुभयासो अग्मन् नरः स्तोकस्य तनयस्य सातौ ॥” “उभयास उभये यजमानाः स्तोतारश्च त्यागं त्थागकर्त्तारं दातारमिन्द्रं अग्मन् उपगच्छन्ति ॥” इति सायनः ॥)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्यागः [tyāgḥ], [त्यज्-भावे घञ्]

Leaving, forsaking, abandoning, deserting, separation; न माता न पिता न स्त्री न पुत्रस्त्याग- मर्हति Ms.8.389;9.79.

Giving up, resigning, renouncing; Ms.1.112; सर्वकर्मफलत्यागं ततः कुरु यतात्मवान् Bg.12.11.

Gift, donation, giving away as charity; करे श्लाघ्यस्त्याग Bh.2.65; वित्तं त्यागनियुक्तम् (दुर्लभम्) H. 1.139; त्यागाय संभृतार्थानाम् R.1.7; Pt.1.169.

Liberality, generosity; Ms.2.97; R.1.22.

Secretion, excretion.

Dismissing, discharging.

Sacrificing oneself; मिथो यत् त्यागमुभयासो अग्मन् Rv.4.24.3.

A sage. -Comp. -पत्रम् a bill of divorcement. -युत, -शील a. liberal, generous, munificent.

"https://sa.wiktionary.org/w/index.php?title=त्यागः&oldid=409164" इत्यस्माद् प्रतिप्राप्तम्