त्यागी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्यागी, [न्] त्रि, (त्यजतीति । त्यज् + “सम्पृ- चानुरुधाङ्यमेति ।” ३ । २ । १४२ । इति घिनुण् ।) दाता । (यथा, पञ्चतन्त्रे । ३ । २५९ । “त्यागिनि शूरे विदुषि च संसर्गरुचिर्जनो गुणी भवति ॥”) शूरः । इति मेदिनी । ने, ७१ ॥ वर्ज्जनशीलः । यथा, -- “यस्तु कर्म्मफलत्यागी स त्यागीत्यभिधीयते ॥” इति भगवद्गीता । १८ । ११ । कर्म्मफलत्यागवान् । यथा, -- “न द्वेष्ट्यकुशलं कर्म्म कुशलेनानुषज्जते । त्यागी सत्त्वसमाविष्टो मेधावी च्छिन्नसंशयः ॥ न हि देहभृता शक्यं त्यक्तुं कर्म्माण्यशेषतः । यस्तु कर्म्मफलत्यागी स त्यागीत्यभिधीयते ॥” इति श्रीभगवद्गीतायां १८ । १०-११ ।

"https://sa.wiktionary.org/w/index.php?title=त्यागी&oldid=138764" इत्यस्माद् प्रतिप्राप्तम्