त्रिकूट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
त्रिकूटम्, क्ली, (त्रिकूटः पर्व्वतः उत्पत्तिस्थानत्वे- नास्त्यस्येति अर्श आदित्वादच् ।) सिन्धुलवणम् । सामुद्रलवणम् । इति रत्नमाला ॥
त्रिकूटः, पुं, (त्रीणि कूटानि शृङ्गाणि यस्य ।) पर्व्वतविशेषः । यस्योपरि लङ्का । (यथा, रामा- यणे । ५ । २ । १ । “स सागरमनाधृष्यमतिक्रम्य महाबलः । त्रिकूटस्य तटे लङ्कां स्थितः स्वस्थो ददर्श ह ॥”) तत्पर्य्यायः । त्रिककुत् २ । इत्यमरः । २ । ३ । २ ॥ सुवेलः ३ त्रिमुकुटः ४ । इति हेमचन्द्रः ॥ त्रिशृङ्गः ५ । चित्रकूटकः ६ । इति शब्दरत्ना- वली ॥ (अयन्तु पीठस्थानानामन्यतमः । अत्र भगवती रुद्रसुन्दरीरूपेण विराजते । यथा, देवीभागवते । ७ । ३० । ६६ । “नारायणी सुपार्श्वे तु त्रिकूटे रुद्रसुन्दरी ॥”) क्षीरोदसमुद्रतीरस्थपर्व्वतः । यथा, -- “सर्व्वरत्नमयः श्रीमान् त्रिकूटो नामः पर्व्वतः । सुतः पर्व्वतराजस्य सुमेरोर्भास्करद्युतेः ॥ क्षीरोदजलवीच्या यो धौतामलशिलातलः । उत्थितः सागरं भित्त्वा देवर्षिगणसेवितः ॥ अप्सरोभिः परिवृतः श्रीमान् प्रस्रवणाकुलः । गन्धर्व्वैः किन्नरैर्यक्षैः सिद्धचारणपन्नगैः ॥ विद्याधरैः सपत्नीकैः संयुतैस्तु तपस्विभिः । मृगद्वीपिगजेन्द्रैश्च वृतगात्रो विराजते ॥ पुन्नागैः कर्णिकारैश्च विल्वामलकपाटलैः । चूतनिम्बकदम्बैश्च चन्दनागुरुचम्पकैः ॥ शालैस्तालैस्तमालैश्च शरलार्ज्जुनपिप्पलैः । तथान्यैर्व्विविधैर्वृक्षैः सर्व्वतः समलङ्कृतः ॥ नानाधात्वङ्कितैः शृङ्गैः प्रस्रवद्भिः समन्ततः । शोभितो रुचिरप्रख्यैस्त्रिभिर्व्वर्णैश्च सानुभिः ॥ मृगैः शाखामृगैः सिंहैर्म्मातङ्गैश्च सदामदैः । जीवञ्जीवकसंधुष्टैश्चकोरशिखिनादितैः ॥ तस्यैकं काञ्चनं शृङ्गं सेवते यद्दिवाकरः । नानापुष्पसमायुक्तं नानागन्धाधिवासितम् ॥ द्वितीयं राजतं शृङ्गं सेवते यन्निशाकरः । पाण्डराम्बुदसं काशं तुषारचयसन्निभम् ॥ वज्रेन्द्रनीलवैदूर्य्य्यतेजोभिर्भासयन् दिशः । तृतीयं ब्रह्मसदनं प्रकृष्टं शृङ्गमुत्तमम् ॥ न तत् कृतघ्नाः पश्यन्ति न नृशंसा न नास्तिकाः । नातप्ततपसो लोके ये च पापकृतो जनाः ॥ तस्य सानुमतः पृष्ठे सरः काञ्चनपङ्कजम् । कारण्डवसमाकीर्णं राजहंसोपशोभितम् ॥ गजो ह्यचलसंकाशो मदाच्चलितलोचनः । तृषितः पातुकामोऽसाववतीर्णश्च तज्जलम् ॥ स लीनः पङ्कजवने यूथमध्यगतश्चरन् । गृहीतस्तेन रौद्रेण ग्राहेणाव्यक्तमूर्त्तिना ॥ गरुडस्थो जगन्नाथो लोकाधारस्तपोधन ! । ग्राहग्रस्तं गजेन्द्रं तं तञ्च ग्राहं जलाशयात् ॥ उज्जहाराप्रमेयात्मा तरसा मधुसूदनः । स्थलस्थं दारयामास ग्राहं चक्रेण माधवः ॥ मोक्षयामास नागेन्द्रं पापेभ्यः शरणागतम् ॥” इति वामनपुराणम् ॥ (घोटकविशेषः । यथा, नकुलकृताश्वचिकित्- सिते । ४ । ९ । “त्रयो यस्य ललाटस्था आवर्त्ता अधरोत्तराः । त्रिकूटः स परिज्ञेयो वाजिवृद्धिकरः परः ॥”)
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
त्रिकूट पुं।
लङ्काधिष्ठानपर्वतः
समानार्थक:त्रिकूट,त्रिककुद्
2।3।2।1।3
लोकालोकश्चक्रवालस्त्रिकूटस्त्रिककुत्समौ। अस्तस्तु चरमक्ष्माभृदुदयः पूर्वपर्वतः॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
त्रिकूट¦ पु॰ त्रीणि कूटानि शृङ्गाण्यस्य। लवणसमुद्रमध्यस्थेलङ्कापुराधारे पर्वतभेदे अमरः।
“तैरूहे केशरिक्रान्त-त्रिकूटशिखरोपमा” माघः
“स सागरमनाधृष्यमतिक्रम्यमहाबलः। त्रिकूटस्य तटे लङ्कां स्थितः खस्थो ददर्शह” रामा॰ सु॰
२ अ॰। स आकरत्वेनास्त्यस्य अच्।
२ तद्भवेसामुद्रलवणे न॰।
३ सुमेण्सुते क्षीरोदसमुद्रतीरस्थेपर्वते च तत्कथा वामनपु॰
“सर्वरत्नमयः श्रीमान्त्रिकूटो नाम पर्वतः। सुतः पर्वतराजस्य सुमेरोर्भास्करद्युतेः। क्षीरोदजलवीच्या यो धौतामलशिलातलः। उत्थितः सागरं भित्त्वा देवर्षिगणसेवितः” इत्युपक्रमे
“तस्यैकं काञ्चनं शृङ्गं सेवते यद्दिवाकरः। नानापुष्प-समायुक्तं नानागन्धाधिबासितम्। द्वितीयं राजतंशृङ्गं सेवते यन्निशाकरः। पाण्डुराम्बुदसंकाशंतुषारचयसन्निभम्। वज्रेन्द्रनीलवैदूर्य्यतेजोभिर्भासयन्दिशः। तृतीयं ब्रह्मसदनं प्रकृष्टं शृङ्गमुत्तमम्। नतत् कृतघ्नाः पश्यन्ति न नृशंसा न नास्तिकाः। नातप्त-तपसो लोका ये च पापकृतो जनाः। तस्य सानुमतःपृष्ठे सरः काञ्चनपङ्कजम्। कारण्डवसमाकीर्णं राजहं-सोपशोभितम्। गजोह्यचलसंकाशो मदाच्चलितलो-चनः। तृषितः पातुकामोऽसायवतीर्णश्च तज्जलम्। संलीनः पङ्कजवने यूथमध्यगतश्चरन्। गृहीतस्तेन रौद्रेणग्राहेणाव्यक्तमूर्त्तिना। गरुडस्थो जगन्नाथो लोका-धारस्तपोधन!। ग्राहग्रस्तं गजेन्द्रं तं तञ्च ग्राहंजलाशयात्। उज्जहाराप्रमेयात्मा तरसा मधुसूदनः। स्थलस्थं दारयामास ग्राहं चक्रेण माधवः। मोक्षया-मास नागेन्द्रं पापेभ्यः शरणागतम्”।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
त्रिकूट¦ m. (-टः) The name of a mountain in the peninsula; it is also applicable to any mountain with three peaks. n. (-टं) Sea-salt prepared by evaporation. E. त्रि three, कूट a peak, &c.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
त्रिकूट/ त्रि--कूट mfn. having 3 peaks or humps or elevations MBh. xii
त्रिकूट/ त्रि--कूट mfn. N. of a mountain(= -ककुद्) , ii , 1484 ( Hariv. 12782 ) BhP. v
त्रिकूट/ त्रि--कूट mfn. of another mountain , viii , 2 , 1
त्रिकूट/ त्रि--कूट mfn. of a peak of mount मेरुVP. ii , 2 , 26
त्रिकूट/ त्रि--कूट mfn. of a mountain in Ceylon on the top of which लङ्काwas situated MBh. iii R. Pan5cat. v
त्रिकूट/ त्रि--कूट n. sea-salt prepared by evaporation L.
Purana index
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
(I)--a mountain on the base of the Meru, in भारतवर्ष; फलकम्:F1: भा. V. १६. २६; १९. १६.फलकम्:/F surrounded by क्षीरोद, and १०००० yojanas high with three shining crests of silver, iron and gold; served by Siddhas, चारणस् and others. In its valley was ऋतुमत्, the pleasure garden of goddesses, full of varied trees. फलकम्:F2: Ib. VIII. 2. 1-१९.फलकम्:/F
(II)--Here is लन्का in मलयद्वीप. वा. ४८. २६.
Purana Encyclopedia
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
Trikūṭa^1 : m.: Name of a mountain (?)
The eyebrow of Bhīma forming three peaks on his forehead looked like the river Gaṅgā flowing in three courses on the Trikūṭa (or on the three peaks of a mountain ?) (ṭriśikhāṁ bhrukuṭīṁ cāsya dadṛśuḥ sarvapārthivāḥ/lalāṭasthāṁ trikūṭasthāṁ gaṅgāṁ tripathagām iva) 2. 39. 11. [See Trikūṭavant and Triśṛṅga ]
_______________________________
*2nd word in right half of page p359_mci (+offset) in original book.
Trikūṭa^2 : m.: Name of a mountain in the Laṅkā.
Rāvaṇa crossed it (and the Kālaparvata) before he reached the ocean while he was on his way to Gokarṇa 3. 261. 53; Laṅkā of Rāvaṇa was located in the valley of the mountain Trikūṭa beyond the ocean (laṅkā cāsya mahāpurī/dṛṣṭā pāre samudrasya trikūṭagirikandare) 3. 266. 55.
_______________________________
*3rd word in right half of page p359_mci (+offset) in original book.
Mahabharata Cultural Index