त्रिकोण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिकोणम्, क्ली, (त्रयः कोणा यस्य ।) योनिः । इति शब्दार्थकल्पतरुः ॥ (कामरूपपीठ- विशेषः । यथा, शब्दार्थचिन्तामणिधृतवचनम् । “करतोयां समारभ्य यावद्दिक्करवासिनी । शतयोजनविस्तारं त्रिकोणं सर्व्वसिद्धिदम् ॥”) लग्नात् नवपञ्चमलग्ने । इति दीपिका ॥ (त्रिभुज- क्षेत्रभेदः । इति लीलावती ॥) त्र्यस्रे, त्रि । त्रिकोणवस्तूनि यथा । हलः १ शिवचक्षुः २ कामाख्या ३ वह्निमण्डलम् ४ एकारः ५ वज्रम् ६ शृङ्गाटम् ७ शकटादि ८ योनिः ९ । इति कविंकल्पलता ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिकोण¦ त्रि॰ त्रयः कोणा यस्य। त्रिकोटियुक्ते

१ पदार्थे
“विन्दुत्रिकोणवसुकोणदशारयुग्मम्” तन्त्रे श्रीचक्रोक्तौ। ज्योतिषोक्ते लग्नात्

२ नवमपञ्चमस्थाने न॰।
“त्रिकोणंनवपञ्चमम्” दोपि॰।
“त्रिकोणगान् गुरुश्चैव पश्यन् पूर्ण-फलप्रदः” ज्यो॰ त॰।

३ मोक्षे शब्दकल्पतरुः।

४ त्रिभुजेक्षेत्रभेदे न॰। क्षेत्रशब्दे

२३

९१ पृ॰ समत्रिकोणविषमत्रिको-णादिस्वरूपादिकमुक्तम्।

५ कामरूपपीठभेदे
“करतोयां समा-रभ्य यावद्दिक्करवासिनीम्। शतयोजनविस्तारं त्रिकोणंसर्वसिद्धिदम्” कामाख्यातन्त्रम्। त्रिकोणपदार्थाश्चकतिचित् कविकल्पलतायां संक्षिप्य दर्शिताः।
“हल-हरनेत्रकामाख्यावह्निमण्डलैकारवज्शृङ्गाटशकटयोनि-रूपाः”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिकोण¦ n. (-णं)
1. The vulva.
2. A triangle.
3. Any triangular object. E. त्रि three, and कोण a corner.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिकोण/ त्रि--कोण mf( आ)n. (fr. ?) triangular MBh. xiv VarBr2S. Phetk.

त्रिकोण/ त्रि--कोण mf( आ)n. forming a triangle VarBr2S.

त्रिकोण/ त्रि--कोण n. a triangle Ra1matUp. i , 29

त्रिकोण/ त्रि--कोण n. = ण-भवनVarBr2S. VarBr2. Laghuj.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--one of the ten पीठस् for images, in the shape of a trident. M. २६२. 7, १२, १८.

"https://sa.wiktionary.org/w/index.php?title=त्रिकोण&oldid=500078" इत्यस्माद् प्रतिप्राप्तम्