त्रिगुण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिगुणम्, क्ली, (त्रयाणां सत्त्वरजस्तमसां गुणानां समाहारः ।) सत्त्वरजस्तमांसि । इति श्रीभाग- वतम् ॥ (प्रधानः । यथा, भागवते । ४ । २४ । २८ । “यः परं रहसः साक्षात्त्रिगुणाज्जीवसंज्ञितात् ।” “रहसः सूक्ष्मात् त्रिगुणात् प्रधानात् जीव- संज्ञितात् पुरुषाच्च परम् ॥” इति तट्टीकायां स्वामी ॥) त्रयाणां पूरणे गुणत्रययुक्ते च त्रि ॥ (यथा, मनुः । १ । १५ । “महान्तमेव चात्मानं सर्व्वाणि त्रिगुणानि च । विषयाणां ग्रहीतॄणि शनैः पञ्चेन्द्रियाणि च ॥” त्रयो गुणा आवृत्तयो यस्य । त्रिभिर्गुणिते । यथा, रघुः । २ । २५ । “सप्त व्यतीयुस्त्रिगुणानि तस्य दिनानि दीनोद्धरणोचितस्य ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिगुण¦ न॰ त्रयाणां सत्त्वरजस्तमसां गुणानां समाहारः। समा-हृता वा त्रयो गुणाः, त्रयोगुणा अस्य वा। सांख्यमतसिद्धेसाम्यावस्थापन्नगुणत्रयात्मके

१ प्रधाने।
“त्रिगुणमविवेकि-विषयं सामान्यमचेतनं प्रसवधर्मि” सा॰ कौ॰
“त्रिगुणंत्रयो गुणाः सुखदुःखभोहा अस्येति त्रिगुणं तदनेनसुखादीनामात्मगुणत्वं पराभिमतमपाकृतम्” त॰ कौ॰
“शब्द-स्पर्शविहीनं तद्रूपादिभिरसंयुतम्। त्रिगुणं तज्जगद्यो-निरनादिप्रभवाप्ययम्” विष्णु पु॰
“सत्त्वरजस्तमसां साम्य-वस्था प्रकृतिः प्रकृतेर्महान्महतोऽहङ्कारोऽहङ्कारात् पञ्चतन्मात्राण्युभयमिन्द्रियं तन्मात्रेभ्यः स्थूलभूतानि पुरुषइति पञ्चविंशतिर्गणः” सा॰ सू॰
“सत्त्वादीनि द्रव्याणिन वैशेषिकवद्गुणाः संयोगवत्त्वात्, लघुत्वचलत्वगुरुत्वा-दिघर्मकत्वाच्च। तेष्वत्र शास्त्रे श्रुत्यादौ च गुण-शब्दः पुरुषोपकरणत्वात्पुरुषपशुवन्धकत्रिगुणात्मकमह-दादिरज्वु निर्मातृत्वाच्च प्रयुज्यते। तेषां सत्त्वादिद्रव्याणांया साम्यावस्था न्यूनानतिरिक्तावस्था न्यूनाधिकभावेना-संहतावस्थेति यावत्। अकार्यावस्थेति निष्कर्षः। अका-र्यावस्थोपलक्षितं गुणसामान्यं प्रकृतिरित्यर्थः। यथाश्रुतेवैषम्यावस्थायां प्रकृतिनाशप्रसङ्गात्
“सत्त्वं रजस्तमइति एषैव प्रकृतिः सदा। एषैव संसृतिर्जन्तोरस्याः पारे[Page3364-b+ 38] परं पदम्” इत्यादिस्मृतिभिर्गुणमात्रस्यैव प्रकृतित्ववचनाच्च। सत्त्वादीनामनुगमाय सामान्येति। पुरुषव्यावर्तनायगुणेति। महदादिव्यावर्तनाय चोपलक्षितान्तमिति। महदादयोऽपि हि कार्य्यसत्त्वादिरूपाः पुरुषोपकरण-तया गुणाश्च भवन्तीति। तदत्र प्रकृतेः स्वरूपमेवोक्तम्” भाष्यम्

२ सत्त्वादिगुणयुक्ते त्रि॰
“महान्तमेव चात्मानंसर्वाणि त्रिगुणानि च। विषयाणां ग्रहीतॄणि शनैःपञ्चेन्द्रियाणि च” मनुः। त्रिभिर्गुण्यते गुण--घञर्थेक।

३ त्रिभिर्गुणिते त्रि॰
“सप्त व्यतीयुस्त्रिगुणानितस्य दिनानि दीनोद्धरणोचितस्य” रघुः
“व्रतायमौञ्जीं त्रिगुणां बभार याम्” कुमा॰
“एतच्छौचंगृहस्थानां द्विगुणं ब्रह्मचारिणाम्। त्रिगुणं स्याद्वन-स्थानां यतीनान्तु चतुर्गुणम्” मनुः। त्रयोगुणा अस्याः।

४ मायायां स्त्री

५ तन्नामके (ह्रीं) वीजभेदे च
“वेदाद्यं त्रि-गुणां रमामथ वदेत् कामेन संसेविताम्” तन्त्रसा॰ श्री-विद्यामन्त्रभेदोक्तौ

६ त्रिशिखे त्रिशूले
“त्रिगुणपरि-वारप्रहरणः” किरा॰।
“त्रिगुणः त्रिशिखः परिवारआकारो यस्य” मल्लि॰। कर्णशब्दे परेऽस्य लक्षणपरत्वेदीर्थत्वम् त्रिगुणौ कर्णौ अस्य। त्रिगुणाकर्ण तथालक्षणयुक्ते त्रि॰!
“पदैस्त्रिभिर्वलिर्वद्धो रागादि त्रिपदाथवा। उत्पत्तिस्थितिनाशेषु रजादित्रिगुणा मता” देवीपु॰

४५ अ॰ उक्तेः

७ दुर्गायां स्त्री।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिगुण¦ mfn. (-णः-णा-णी-णं)
1. Thrice, three times, triple.
2. Possessing the three Gunas or properties. n. (-णं) The aggregate of the three qualities incident to human nature. E. त्रि three, गुण a time or property.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिगुण/ त्रि--गुण n. sg. the 3 गुणs( सत्त्व, रजस्, and तमस्) BhP. iv

त्रिगुण/ त्रि--गुण m. pl. id. Tattvas.

त्रिगुण/ त्रि--गुण mf( आ)n. containing them S3vetUp. Mn. i , 15 Sa1m2khyak. Kap.

त्रिगुण/ त्रि--गुण mf( आ)n. consisting of 3 threads or strings S3a1n3khS3r. Ka1tyS3r. Kum. v , 10

त्रिगुण/ त्रि--गुण mf( आ)n. threefold , thrice as great or as much , triple Ka1tyS3r. Mn.

त्रिगुण/ त्रि--गुण mf( आ)n. ( सप्त त्रि-गुणानि दिनानि, 3 x 7 days) Ragh. ii , 25

"https://sa.wiktionary.org/w/index.php?title=त्रिगुण&oldid=410333" इत्यस्माद् प्रतिप्राप्तम्