त्रिणता

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिणता, स्त्री, (त्रिषु स्थानेषु नता । “पूर्ब्बपदात् संज्ञायामगः ।” ८ । ४ । ३ । इति णत्वम् ।) धनुः । इति त्रिकाण्डशेषः ॥ (यथा, माघे । १९ । ६१ । “स्वगुणेराप्तफलप्राप्तेराकृष्य गणिका इव । कामुका इव नालीकांस्त्रिणताः सहसामुचन् ॥” त्रिणस्य भावः । त्रिण + तल् ।) त्रिणत्वञ्च । (त्रिषु स्थानेषु नते, त्रि । यथा, रामायणे । ६ । २० । २८ । “भिन्नमुष्टिपरिध्वस्तं त्रिणतं रुक्मरञ्जितम् । बाणपातान्तरे रामः पतितं पुरुषर्षभम् । शयानं लक्ष्मणं दृष्ट्वा निराशो जीवितेऽभवत् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिणता¦ स्त्री त्रिषु स्थानेषु नता संज्ञात्वात् पूर्वपदात् णत्वम्।

१ धनुषि त्रिका॰।

२ त्रिषु स्थानेषु नते त्रि॰। असंज्ञायांन णत्वमिति भेदः।
“स्वगुणैराफलप्राप्तेराकृष्य गणिकाइव। कामुकानिव नालीकांस्त्रिणताः सहसाऽमुचन्” माघः। वेश्यानां मध्यभ्रूषु त्रिषु स्थानेषु नतत्वात्त्रिणतत्वं श्लेषे णनकारयोरभेद इत्यालङ्कारिकाः। त्रि-णस्य भावः तल्।

३ तृणभावेतृणत्वे च स्त्री।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिणता¦ f. (-ता)
1. A bow.
2. The state or abstract property of grass. E. त्रिण for तृण grass. and तल् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिणता/ त्रि--णता f. a bow S3is3. xix , 61.

"https://sa.wiktionary.org/w/index.php?title=त्रिणता&oldid=410504" इत्यस्माद् प्रतिप्राप्तम्