त्रिदण्ड

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिदण्डः, पुं, (त्रिदण्डं चतुरङ्गुलगोबालवेष्टना- दन्योन्यसम्बन्धं अस्त्यस्येति । अर्शआदित्वा- दच् ।) सन्न्यासाश्रमः । यथा, -- “यस्त्वसंयतषड्वर्गः प्रचण्डेन्द्रियसारथिः । ज्ञानवैराग्यरहितस्त्रिदण्डमुपजीवति ॥” इति श्रीभागवतम् ॥ (त्रयाणां दण्डानां समाहारः । यतित्रिदण्डे, क्ली । यथा, महाभारते । १२ । ३२० । १५५ । “सप्ताङ्गस्यास्य राज्यस्य त्रिदण्डस्येव तिष्ठतः । अन्योन्यगुणयुक्तस्य कः केन गुणतोऽधिकः ॥” कायवाङ्मनोदण्डत्रये । यथा, मनुः । १२ । ११ । “त्रिदण्डमेतन्निक्षिप्य सर्व्वभूतेषु मानवः । कामक्रोधौ तु संयम्य ततः सिद्धिं नियच्छति ॥ “सत्त्वमात्मा शरीरञ्च त्रयमेतत्त्रिदण्डवत् । लोकास्तिष्ठति संयोगात्तत्र सर्व्वं प्रतिष्ठितम् ॥” इति चरके सूत्रस्थाने प्रथमेऽध्याये ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिदण्ड¦ न॰ त्रयाणां दण्डानां समाहारः।

१ चतुरङ्गुलगो-बालवेष्टनादन्योन्यसंबद्धे यतेर्दण्डत्रये।

२ वाङ्मनःकाय-दण्डत्रये च। तदस्यास्त्रीति अच्।

३ संन्यासाश्रमे पु॰। त्रिदण्डिशब्दे दृश्यम्।
“यस्त्वसंहतषड्वर्गः प्रचण्डेन्द्रि-यसारथिः। ज्ञानवैराग्यरहितस्त्रिदण्डमुपजीवति” भाग॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिदण्ड¦ n. (-ण्डं)
1. Three staves collectively.
2. Triple subjection of words, thoughts, and acts; the state of a religious ascetic. E. त्रि three, दण्ड a staff, &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिदण्ड/ त्रि--दण्ड n. = ण्डकMn. etc.

त्रिदण्ड/ त्रि--दण्ड n. triple control( i.e. of thoughts , words , and acts) , xii , 11.

"https://sa.wiktionary.org/w/index.php?title=त्रिदण्ड&oldid=410608" इत्यस्माद् प्रतिप्राप्तम्