त्रिधासर्ग

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिधासर्ग¦ पु॰ त्रिकारः सर्गः।

१ भूतादिसर्गे।
“अष्टविकल्पोदैवस्तैर्य्यग्योनश्च पञ्चधा भवति। मानुषश्चैकविधः समा-सतोऽयं त्रिधासर्गः” सां॰ का॰।
“ब्राह्मः प्राजापत्यः ऐन्द्रःपैत्रः गान्धर्वः याक्षः राक्षसः पैशाच इत्यष्टविकल्पो दैवःसर्गः। पशुमृगपक्षिसरीसृपस्थावरा इति पञ्चविधस्तैर्य्य-ग्योनः सर्गः। मानुष्यश्चैकविधः ब्राह्मणाद्यवान्तरजातिभेदा-विवक्षया संस्थानस्य चतुर्ष्वपि वर्णेष्वविशेषात्” सा॰ त॰ कौ॰।

"https://sa.wiktionary.org/w/index.php?title=त्रिधासर्ग&oldid=410982" इत्यस्माद् प्रतिप्राप्तम्