त्रिनयन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिनयनः, पुं, (त्रीणि चन्द्रसूर्य्याग्निरूपाणि नय- नानि यस्य । “क्षुभ्नादिषु च ।” ८ । ४ । ३९ । इति निषेधात् न णत्वम् ।) शिवः । इति हला- युधः ॥ (यथा, महाभारते । १४ । ८ । २७ । “त्रिपुरघ्नं त्रिनयनं त्रिलोकेशं महौजसम् ॥”) नयनत्रये, स्त्री ॥ (लोचनत्रयविशिष्टे, त्रि । यथा, मातृकासरस्वतीध्याने । “मुद्रामोक्षगुणं सुधाढ्यकलसं विद्याञ्च हस्ताम्बुजै- र्बिभ्राणां विशदप्रभां त्रिनयनां वाग्देवता- माश्रये ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिनयन¦ पु॰ त्रीणि नयनानि यस्य
“पूर्वपदात् संज्ञायामगः” पा॰ णत्वे प्राप्ते क्षुभ्रा॰ पाठात् न णत्वम्।

१ महादेवे
“योग्यस्य त्रिनयनलोचनार्च्चिः”
“शोभां शुभ्रत्रिन-यनवृषोत्खातपङ्कोपमेयाम्” माघः।

२ पार्वत्यां स्त्री
“लोचनत्रयसंयुक्तां पूर्णेन्दुसदृशाननाम्” तद्ध्याने तस्यानेत्रत्रयोक्तेः।

३ लोचनत्रययुक्ते त्रि॰
“बिभ्राणां विंशदप्रभांत्रिनयनां वाग्देवनामाश्रये” मातृकासरस्वतीध्यानम्। त्रिनेत्रत्रिलोचनादयोऽप्यत्र। इयांस्तु भेदः त्रिनेत्रशब्दस्यमहादेवपरत्वे संज्ञात्वात् पूर्वपदात् णत्वे प्राप्ते गिरि-नद्या॰ वा नत्वम्। अन्यत्र न णत्वमिति। शिवस्यतृतीयनेत्राविर्भावकथा भा॰ अनु॰

१०

१४

० । यथा(
“सेवन्ती हिमवत्पार्श्वं हरपार्श्वमुपागमत्। ततःस्मयन्ती पाणिभ्यां नर्म्मार्थं चारुदर्शना। हरनेत्रे शुभेदेवी सहमा सा समावृणोत्। संवृताभ्यान्तु नेत्राभ्यांतमो भूतमचेतनम्। निर्होमं निर्वषट्कारं जगद्वै स-हसाऽभवत्। जनश्च विमनाः सर्वो भयत्राससमन्वितः। निमीलिते भूतपतौ नष्टसूर्य्य इवाभवत्। ततो विति-मिरो लोकः क्षणेन समपद्यत! ज्वाला च महती दीप्ताललाटात्तस्य निःसृता। तृतीयञ्चास्य सम्भूत नेत्रमादि-त्यसन्निभम्” इत्युपक्रमे उमोवाच
“भगवान् सर्वभूतेश!शृलपाणे! महाव्रत! संशयो मे महान् जातस्तन्मेव्याख्यातुमर्हसि। किमर्थं ते ललाटे वै तृतीयं नेत्र-मुत्थितम्। किमर्थञ्च गिरिर्दग्धः सपक्षिगणकाननः। किमर्थञ्च पुनर्देव! प्रकृतिस्थस्त्वया कृतः। तथैव द्रुमसं-च्छन्नः कृतोऽयं तु पिता मम” महेश्वर उवाच।
“नेत्रे मेसंवृते देवि! त्वया बाल्यादनिन्दिते। नष्टालोकस्तथालोकः क्षणेन समपद्यत। नष्टादित्ये तथा लोके तमोभूतेनगात्मजे!। तृतीयं लोचनं दीप्तं सृष्टं मे रक्षताप्रजाः। तस्य चाक्ष्णो महत्तेजो येनायं मथितो गिरिः। [Page3368-b+ 38] त्वत्प्रियार्थच्च मे देवि! प्रकृतिस्थः पुनः कृतः”। दुर्गायाःत्रिनयनाशब्दवाच्यत्वे हेतुर्देवीपु॰

४५ अ॰ उक्तो यथा(
“पक्षिणां चोत्तरं लोकं तथा ब्रह्मायनं परम्। नयंसम्मार्गधर्मत्वं दृष्टौ त्रिनयना मता” देवीपु॰

४५ अ॰।
“पञ्चवक्त्रं त्रिनेत्रम्” शिवध्यानम्।
“निजत्रिनेत्रत्वाव-तरत्वबोधिकाम्” नैष॰ साध्यगणभेदानां त्रिनेत्रत्वंमत्स्यपु॰ उक्तं यथा
“ततः साध्यगणानीशस्त्रिनेत्रानसृ-सृत् पुजः। कोटयश्चतुरशीतिर्जरामरणवर्जिताः। कामंसृजन्नमर्त्यांस्तान् ब्रह्मणा विनिवारितः। नैवं विधाभवेत् सृष्टिर्जरामरणवर्जिता”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिनयन¦ mfn. (-नः-नी-नं) Three-eyed, tri-ocular. m. (-नः) A name of SIVA. E. त्रि three, and नयन an eye; this deity is represented with a third eye in his forehead; also similar compounds, as त्रिदृश्, त्रिनेत्र, त्र्यक्ष, &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिनयन/ त्रि--नयन m. = -दृश्MBh. xiv R. Pa1n2S3. Megh. etc.

त्रिनयन/ त्रि--नयन n. N. of a town , Kr2ishn2akri1d2.

"https://sa.wiktionary.org/w/index.php?title=त्रिनयन&oldid=410990" इत्यस्माद् प्रतिप्राप्तम्