त्रिपताकम्
यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]
कल्पद्रुमः[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
त्रिपताकम्, क्ली, (तिस्रः पताका इव रेखा यत्र ।) रेखात्रयाङ्कितभालम् । इति हारावली । ११४ ॥ (तिस्रः पताका इव अङ्गुलयो यत्र । त्रिपताक- लक्षणान्विते हस्ते, पुं । यथा, साहित्यदर्पणे । ६ । १५४ । “त्रिपताककरेणान्यानपवार्य्यान्तरा कथाम् । अन्योन्यामन्त्रणं यत् स्याज्जनान्ते तज्जनान्ति- कम् ॥” “यः कश्चिदर्थो यस्माद् गोपनीयस्तस्यान्तरत ऊर्द्ध्वं सर्व्वाङ्गुलिनामितानामिकं त्रिपताकलक्षणं करं कृत्वान्येन सह यन्मन्त्र्यते तत्जनान्तिकम् ॥”)