त्रिपुण्ड्र
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
त्रिपुण्ड्रम्, क्ली, (त्रयाणां पुण्ड्राणां इक्षुवदाका- राणां समाहारः ।) भस्मादिकृतकपालस्थ- तिर्य्यग्रेखात्रयम् । यथा, -- “विना भस्मत्रिपुण्ड्रेण विना रुद्राक्षमालया । पूजितोऽपि महादेवो न स्यात्तस्य फलप्रदः ॥ तस्मान्मृदापि कर्त्तव्यं ललाटेऽपि त्रिपुण्ड्रकम् ॥” इति तिथ्यादितत्त्वम् ॥ ब्रह्माण्डपुराणे । “ऊर्द्ध्वपुण्ड्रं मृदा कुर्य्यात् त्रिपुण्ड्रं भस्मना सदा । तिलकं वै द्बिजः कुर्य्यात् चन्दनेन यदृच्छया ॥ ऊर्द्ध्वपुण्ड्रं द्बिजः कुर्य्यात् क्षत्त्रियश्च त्रिपुण्ड्रकम् । अर्द्धचन्द्रञ्च वैश्यश्च वर्त्तुलं शूद्रयोनिजः ॥” इत्याह्निकाचारतत्त्वम् ॥ “शिवागमे दीक्षितैस्तु धार्य्यं तिर्य्यक्त्रिपुण्ड्रकम् । विष्ण्वागमे दीक्षितस्तु ऊर्द्द्वपुण्ड्रं विधारयेत् ॥” इति नागोजीभट्टधृतसूतसंहिता ॥ (यथा, शब्दचिन्तामणिधृतदेवीभागवतम् । “येषां वपुर्मनुष्याणां त्रिपुण्ड्रेण विना स्थितम् । श्मशानसदृशं तत् स्यान्न प्रेक्ष्यं पुण्यकृज्जनैः ॥” “त्रिपुण्ड्रं ये विनिन्दन्ति निन्दन्ति शिवमेव ते । धारयन्ति च ये भक्त्या धारयन्ति तमेव ते ॥ तिर्य्यग्रेखा प्रदृश्यन्ते ललाटे सर्व्वदेहिनाम् । तथापि मानवा मूर्खा न कुर्व्वन्ति त्रिपुण्ड्रकम् ॥”)
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
त्रिपुण्ड्र¦ न॰ त्रयाणां पुण्ड्राणां इक्षुवदाकाराणां समाहारः।
१ ललाटस्थे तिर्य्यग् रेखात्रयात्मके,
“वक्राः ललाटगा-स्तिस्रो भस्मरेखास्त्रिपुण्ड्रकम्” इत्युक्ते तिलकभेदे
“विनाभस्मत्रिपुण्ड्रेण विना रुद्राक्षमालया। पूजितोऽपि महा-देवो न स्यात्तस्य फलप्रदः। तस्मान्मृदापि कर्तव्यं ललाटे-ऽपि त्रिपुण्ड्रकम्” ति॰ त॰ ब्रह्माण्डपुराणम्।
“ऊर्द्धपुण्ड्रंमृदा कुर्य्यात् त्रिपुण्ड्रं भस्मना सदा। तिलकं वै द्विजःकुर्य्यात् चन्दनेन यदृच्छया। ऊर्द्ध्वपुण्डं द्विजः कुर्य्यात्क्षत्रियश्च त्रिपुण्ड्रकम्। अर्द्धचन्द्रञ्च वैश्यश्च वर्तुलशूद्रयोनिजः” आ॰ त॰।
“शिवागमे द क्षितैस्तु धार्य्यंतिर्य्यक् त्रिपुण्ड्रकम्। विष्ण्वागमे दीक्षितस्तु ऊर्द्ध्व-पुण्ड्रं विधारयेत्” इति नागोजीभट्टधृतसूतसंहिता
“मृत्स्नया भस्मना वापि त्रिपुण्डं विन्दुसंयु-तम्। ललाटे तिलकं कुर्{??ाद्गायात्र्याबद्धकुन्तलः” इतिमहानिर्वाणतन्त्रम्
“येषां वपुर्मनुष्याणां त्रिपुण्ड्रेणविना स्थितम्। श्मशानसदृशं तत् स्यान्न प्रेक्ष्यं पुण्य-कृज्जनैरिति” देवीभाग॰। अपि च तत्रैव नारदं प्रतिनारायणवाक्यम्
“त्रिपुण्ड्रं ये विनिन्दन्ति निन्दन्तिशिवमेव ते। धारयन्ति च ये भक्त्या धारयन्ति तमेवते। तिर्य्यग्रेखाः प्रदृश्यन्ते ललाटे सर्वदेहिनाम्। तथापि मानवा मूर्खा न कुर्वन्ति त्रिण्ड्रकमिति”।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
त्रिपुण्ड्र¦ n. (-ण्ड्रं) Three curved horizontal marks, made across the fore- head with cowdung, &c.; they are worn especially by the fol- lowers of SIVA, or SAKTI, and are indispensable in proceeding to worship the former. E. त्रि three, triple, and पुण्ड्र a line; also with कन् added त्रिपुण्ड्रक |
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
त्रिपुण्ड्र/ त्रि--पुण्ड्र n. a triple sectarial mark consisting of 3 lines or marks on the forehead (or on back , heart , shoulders etc. RTL. 400 ) Vas. Hariv. Brahma7n2d2aP. Tithya1d.