त्रियामा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रियामा, स्त्री, (त्रयो यामाः प्रहरा यस्याः । “त्रियामां रजनीं प्राहुस्त्यक्त्वाद्यन्तचतुष्टयम् ॥” इति वचनात् आद्यन्तयोरर्द्धयामयोश्चेष्टाकाल- त्वेन दिनप्रायत्वात् तथात्वम् ।) रात्रिः । (यथा, हरिवंशे । १०२ । २९ । “स मत्तो बलिनां श्रेष्ठो रराजाघूर्णिताननः । शैशिरीषु त्रियामासु यथा खेदालसः शशी ॥” त्रिप्रहरान्विते, त्रि । यथा, गोः रामायणे । २ । १० । १७ । “त्रियामापि भृशार्त्तस्य सा रात्रिरभवत्तदा । तथा विलपतस्तस्य राज्ञो वर्षशतोपमा ॥”) हरिद्रा । इत्यमरः । २ । ९ । ४१ ॥ यमुना । नीली । कृष्णत्रिवृत् । इत्युणादिकोषः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रियामा स्त्री।

रात्रिः

समानार्थक:शर्वरी,निशा,निशीथिनी,रात्रि,त्रियामा,क्षणदा,क्षपा,विभावरी,तमस्विनी,रजनी,यामिनी,तमी,वसति,श्यामा,दोषा,दोषा,नक्तम्

1।4।4।1।4

निशा निशीथिनी रात्रिस्त्रियामा क्षणदा क्षपा। विभावरीतमस्विन्यौ रजनी यामिनी तमी॥

अवयव : रात्रिप्रारम्भः,रात्रिमध्यः,प्रहरः

 : अत्यन्धकाररात्रिः, चन्द्रिकायुक्तरात्रिः, दिनद्वयमध्यगता_रात्रिः

पदार्थ-विभागः : , द्रव्यम्, कालः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रियामा¦ स्त्री त्रयो यामा अस्याः आद्यान्त्ययोरर्द्धयामयो-श्चेष्टाकालत्वेन दिनप्रायत्वात्।

१ निशायाम् अमरः
“त्रियामां रजनीं प्राहुस्त्यक्त्वाद्यन्तचतुष्टयम्। नाडीनां,तदुभे सन्ध्ये दिवसाद्यन्तसंज्ञिते” ति॰ त॰।
“संक्षिप्येतक्षणमिव कथं दीर्घयामा त्रियामा” मेघ॰।
“क्वचिदसमेत-परिच्छदस्त्रियामाम्” रघुः।
“ज्योतिर्भिरुद्यद्भिरिव त्रि-यामा” कुमा॰

२ हरिद्रायाम् अमरः। कृष्णत्वात्

३ यमु-नायां

४ नील्यां

५ कृष्णत्रिवृति च उणादिको॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रियामा¦ f. (-मा)
1. Night.
2. The YAMUNA or Jumna river.
3. Indigo.
4. Black Teori, a plant so called.
5. Turmeric. E. त्रि three (times, or past, present and future,) या to go, affix मन्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रियामा/ त्रि--यामा f. night Hariv. 5768 R. etc.

त्रियामा/ त्रि--यामा f. turmeric W.

"https://sa.wiktionary.org/w/index.php?title=त्रियामा&oldid=500090" इत्यस्माद् प्रतिप्राप्तम्