त्व

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्वम्, त्रि, (युष्मद् + सु । “त्वाहौ सौ ।” ७ । २ । ९४ । इति त्वादेशः ।) भवान् । तुमि इति भाषा । युष्मच्छब्दस्य प्रथमैकवचनान्तरूपोऽयं लिङ्गत्रये समानः । इति व्याकरणम् ॥

त्वः, त्रि, (तनोति विस्तारयतीति । तन + “तनो- तेरनश्च वः ।” उणां । २ । ६३ । इति चात् क्विप् अनश्च वः । आगमानित्यत्वात् तुग्वै- कल्पिकः ।) भिन्नः । अन्यः । इत्यमरः । ३ । १ । ८२ ॥ (एकः । इति निरुक्तिः । १ । ७ ॥ यथा, ऋग्वेदे । १० । ७१ । ४ । “उत त्वः पश्यन्न ददर्श वात्तमुत त्वः शृण्वन्न शृणोत्येनाम् । उतो त्वस्मै तन्वं वि सस्रे जायेव पत्य उशती सुवासाः ॥” “त्वशब्द एकवाची । एकः । उतशब्दोऽप्यर्थे । पश्यन्नपि मनसा पर्य्यालोचयन्नपि वायं न ददर्श । दर्शनफलाभावान्न पश्यति । त्व एकः शृण्वन्न- प्येनां वाचं न शृणोति श्रवणफलाभावात् । इत्यनेनार्धेनाविद्वानभिहितः ॥” इति तद्भाष्ये सायनः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्व वि।

भिन्नार्थकाः

समानार्थक:भिन्नार्थक,अन्यतर,एक,त्व,अन्य,इतर

3।1।82।2।4

साधारणं तु सामान्यमेकाकी त्वेक एककः। भिन्नार्थका अन्यतर एकस्त्वोऽन्येतरावपि॥

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्व¦ त्रि॰ तन--विच् अनश्च वः।

१ भिन्ने अन्यार्थेसर्वनामकार्य्यं सर्वनामगणे त्वत्त्वसमसिमेति पठित्वा
“त्वत्वेति द्वावप्यदन्तौ अन्यपर्य्यायौ एक उदात्तोऽपरो-ऽनुदात्त इत्येके। एकस्तान्त इत्यपरे” सि॰ कौ॰ उक्तेःतान्तत्वमपि तच्चं क्विपि तुकि रूपमिति विवेकः।
“ऋचांत्वः पोषमास्ते पुपुष्वान् गायत्रं त्वो गायति शक्व-रीषु। ब्रह्मा त्वो वदति जातविद्यां यज्ञस्य मात्रांविमिमीत उत त्वः” ऋ॰

१० ।

७१ ।

११ त्वशब्दःसर्वनामसु पठितः एकशब्दपर्य्यायः भा॰ उक्ते

२ एक-शब्दार्थे माधवः।
“प्रजायै त्वस्यै यदशिक्ष इन्द्र!” ऋ॰

१० ।

५४ ।

१ ।
“त्वस्यै एकन्यै प्रजायै” भा॰।
“उतत्वः पश्यन्न ददर्श वाचमुत त्वः शृण्वन्न शृणोत्येनाम्। उतो त्वस्मै तन्वं वि सस्रो जायेव पत्य उशती सुवासाः” ऋ॰

१० ।

७१ ।

४ ।
“त्वशब्द एकवाची। एकः। उत-शब्दोऽप्यर्थे। पश्यन्नपि मनसा पर्य्यालोचयन्नपि वाचंन ददर्श दर्शनफलाभावान्न पश्यति। त्व एकःशृण्वन्नप्येनां वाचं न शृणोति श्रवणफलाभावात्। इत्यनेनार्द्धेनाविद्वानभिहितः। तृतीयपादेन विदित-[Page3400-a+ 38] वेदार्थमाह। त्वस्मा एकस्मा अपि तन्वमात्मीयं शरीरंवि सस्रे, स्वयं वाग्विविधं गमयति” भा॰। अस्याएव ऋचामर्थव्याख्याने ऋग्वेदोपद्घादे माधवः त्वशब्दस्यअन्यार्थतामभिप्रेत्याह, यथा
“त्वः अन्यः कश्चिदर्थज्ञानायव्याकरणाद्यङ्गानि शृण्वन्नपि मीमांसाराहित्यादेनांवेदरूपां वाचं न संम्यक् शृणोति” अत उभयार्थता
“विश्वं मृशन्तीमभिरूपां विराजं पश्यन्ति त्वे न त्वेपश्यन्त्येनाम्” अथ॰

८ ।

९ ।

९ । सर्वनामत्वात् जसः सीभावः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्व¦ mfn. (-त्वः-त्वा-त्वं) Other, different. E. तन् to divide or spread, and व substituted for the final letter of the radical.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्व mfn. ( त्वद्). one , several RV.

त्व mfn. त्व-त्व, one-the other RV. AV. viii , 9 , 9

त्व mfn. त्वद्, partly RV. x , 72 , 9 S3a1n3khBr. xvii , 4

त्व mfn. त्वद्त्वद्, partly-partly RV. vii , 101 , 3 S3Br.

त्व base of the 2nd personal pron. : nom. त्वम्acc. त्वाम्instr. त्वया([ and त्वाRV. , also in comp. See. त्वा-दत्त, -दात, -वृधetc. ]) dat. तुभ्यम्([ and भ्यRV. Pa1rGr2. i , 6 , 2 ]) abl. त्वत्or त्वद्([ and त्वत्-तस्MBh. etc. ]) gen. तवloc. त्वे([ RV. ; See. RPra1t. i , 19 and g. चा-दि]) , त्वयि([ AV. etc. ])

त्व enclitic forms are acc. त्वा([ RV. AV. ]) gen. dat. ते([ RV. etc. ; = ?]) ;([ cf. Lat. tu etc. ])

त्व mfn. thy , your , ii , 20 , 2 .

"https://sa.wiktionary.org/w/index.php?title=त्व&oldid=413876" इत्यस्माद् प्रतिप्राप्तम्