त्वक्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
त्वक्, [च्] स्त्री, (त्वचति संवृणोति मेदशोणिता- दिकमिति । त्वच संवरणे + क्विप् । यद्वा, तनोति विस्तारयतीति । तन + “तनोतेरनश्च वः ।” उणां । २ । ६३ । इति चिक् अनश्च वः ।) इन्द्रियविशेषः । यथा, -- “पूर्ब्बवन्नित्यतायुक्तं देहव्यापि त्वगिन्द्रियम् । प्राणादिस्तु महावायुपर्य्यन्तो विषयो मतः ॥” उद्भूतस्पर्शवद्द्रव्यं गोचरः सोऽपि च त्वचः । रूपान्यच्चक्षुषो योग्यं रूपमत्रापि कारणम् ॥ द्रव्याध्यक्षे त्वचो योगो मनसा ज्ञानकारणम् ॥” इति भाषापरिच्छेदः ॥ वल्कलम् । (यथा, रघुः । २ । ३७ । “कण्डूयमानेन कटं कदाचित् वन्यद्बिपेनोन्मथिता त्वगस्य ॥”) गुडत्वक् । (यथा, बृहत्संहितायाम् । ७७ । १२ । “त्वगुशीरपत्रभागैः सूक्ष्मैलार्धेन संयुतैश्चूर्णः । पटवासः प्रवरोऽयं मृगकर्पूरप्रबोधेन ॥”) चर्म्म । इति मेदिनी । चे, ६ ॥ अस्य पर्य्यायः । असृग्धरा २ । इत्यमरः ॥ असृग्वरा ३ । इति तट्टीका ॥ त्वचम् ४ त्वचा ५ चर्म्म ६ छली ७ छल्ली ८ । इति शब्दरत्नावली ॥ (यथा, रघुः । ३ । ३१ । “त्वचं स मेध्यां परिधाय रौरवी मशिक्षितास्त्रं पितुरेव मन्त्रवत् । न केवलं तद्गुरुरेकपार्थिवः क्षितावभूदेकधनुर्द्धरोऽपि सः ॥” कञ्चुकः । यथा, मनुः । २ । ७९ । “महतोऽप्येनसो मासात् त्वचेवाहिर्विमुच्यते ॥”) त्वचम् । इति राजनिर्घण्टः ॥ दारचिनी इति भाषा ॥
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
त्वक् in comp. for 2. त्वच्.