दंशः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दंशः, पुं, (दशतीति । दंश दंशने + पचाद्यच् ।) कीटविशेषः । दा~श इति भाषा । तत्पर्य्यायः । वनमक्षिका २ । इत्यमरः । २ । ५ । २७ ॥ गोमक्षिका ३ अरण्यमक्षिका ४ भम्भरालिका ५ । इति शब्दरत्नावली ॥ पांशुरः ६ दंशकः ७ । इति हारावली ॥ दुष्टमुखः ८ क्रूरः ९ क्षुद्रिका १० । इति राजनिर्घण्टः ॥ (यथा, मनुः । १ । ४५ । “स्वेदजं दंशमशकं यूकामक्षिकमत्कुणम् । उष्मणश्चोपजायन्ते यच्चान्यत् किञ्चिदीदृशम् ॥” दशतीव शरीरमिति ।) वर्म्म । (यथा, भाग- वते । ३ । १८ । ९ । “परानुषक्तं तपनीयोपकल्पं महागदं काञ्चनचित्रदंशम् ॥” दश + भावे धञ् ।) दंशनम् । इति मेदिनी । शे, ७ ॥ (“सुप्तता जायते दंशे कृष्णञ्चातिस्रवत्यसृक् ॥” इति सुश्रुते कल्पस्थाने वष्ठेऽध्याये ॥) दन्तः । इति हेमचन्द्रः । ३ । २४८ ॥ खण्ड- नम् । (दन्तक्षतम् । यथा, आर्य्यासप्त- शत्याम् । ५११ । “वर्णहृतिर्न ललाटे न लुलितमङ्गं न चाघरे दंशः । उत्पलमहारि वारि च न स्पृष्टमुपायचतु- रेण ॥”) दोषः । मर्म्म । सर्पक्षतम् । इति विश्वः ॥ (यथा, “सर्व्वैरेवादितः सर्पैः शाखादष्टस्य देहिनः । दंशस्योपरिबध्नीयादरिष्टाश्चतुरङ्गुले ॥ प्लोतचर्म्मान्तवल्कानां मृदुनान्यतमेन च । न गच्छति विषं देहमरिष्टाभिर्निवारितम् ॥” इति सुश्रुते कल्पस्थाने पञ्चमेऽध्याये ॥ असुरविशेषः । यथा, महाभारते । १२ । ३ । १९ । “सोऽब्रवीदहमांसं प्राक् दंशो नाम महासुरः ॥” अयन्तु भृगुभार्य्यामपहरन् तच्छापात् मांस- शोणिताशी कीटो जातः । ततः कदाचित् गुरोः परशुरामस्य निद्रां प्रतिपालयितुः कर्णस्य ऊरुदेशं निर्भिद्य शोणितं पीतवान् । ततः परशुरामेणायं शापात् निर्म्मोचितः ॥ एतद्- विवरणन्तु तत्रैवाध्याये द्रष्टव्यम् ॥)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दंशः [daṃśḥ], [दंश्-अच भावे घञ् वा]

Biting, stinging; मुग्धे विधेहि मयि निर्दयदन्तदंशम् Gīt.1.

The sting of a snake.

A bite, the spot bitten; छेदो दंशस्य दाहो वा M.4.4; U.3.35.

Cutting, tearing.

A gad-fly; R.2.5; Ms.1.4; Y.3.215.

A flaw, fault, defect (in a jewel).

A tooth; प्रुत्युप्तमन्तः सविषश्च दंशः

Pungency.

An armour; शितविशिखहतो विशीर्णदंशः Bhāg.1.9.38.

A joint, limb. -Comp. -भीरुः, -भीरुकः a buffalo.-वदनः a heron.

"https://sa.wiktionary.org/w/index.php?title=दंशः&oldid=414523" इत्यस्माद् प्रतिप्राप्तम्