दंष्ट्री

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दंष्ट्री, [न्] पुं स्त्री, (प्रशस्ता दंष्ट्रा अस्त्यस्येति । दंष्ट्रा + “ब्रीह्यादिभ्यश्च ।” ५ । २ । ११६ । इति इनिः ।) शूकरः । इत्यमरः । २ । ५ । २ ॥ सर्पः । इति शब्दरत्नावली ॥ (यथा, रामा- यणे । २ । ३३ । २३ । “विलानि दंष्ट्रिणः सर्व्वे सानूनि मृगपक्षिणः । त्यजन्त्यस्मद्भयाद्भीता गजाः सिंहा वनान्यपि ॥”) दंष्ट्राविशिष्टे, त्रि । यथा, -- “दंष्ट्रिभिः शृङ्गिभिर्व्वापि हता म्लेच्छैश्च तस्करैः । ये स्वाम्यर्थे हता यान्ति राजन् ! स्वर्गं न संशयः ॥” इति शुद्धितत्त्वे अग्निपुराणम् ॥

"https://sa.wiktionary.org/w/index.php?title=दंष्ट्री&oldid=139310" इत्यस्माद् प्रतिप्राप्तम्