दक्षिंणाभिमुख

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिंणाभिमुख¦ त्रि॰ दक्षिणा दक्षिणस्यामभिमुखमस्य। दक्षिणदिङ्मुखे।
“दक्षिणाभिमुखो रात्रौ सन्ध्ययोश्चयथा दिवा” आह्नि॰ त॰। दक्षिणामुखादयोऽप्यत्र।
“आयुष्यं प्राङ्मुखो भुङ्क्ते यशस्यं दक्षिणामुखः”।
“उदकेनैव विधिना निर्वपेत् दक्षिणामुखः” मनुः।
“यद्वेष्टितशिराभुङ्क्ते यद्भुङ्क्ते दक्षिणामुखः” मनुनाश्राद्धीयविप्रस्थ तथा भोजनं निषिद्धम्। दक्षिणा दक्षिणस्यांमुखम्। दक्षिणदिक्स्थे मुखे न॰।
“अमाश्राद्धं गया-श्राद्धं दक्षिणामुखभोजनम्। न जीवत्पितृकः कुर्य्यात्कृते च पितृहा भवेत्” ति॰ त॰।

"https://sa.wiktionary.org/w/index.php?title=दक्षिंणाभिमुख&oldid=414729" इत्यस्माद् प्रतिप्राप्तम्