दक्षिण

विकिशब्दकोशः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणः, त्रि, (दक्षते इति । दक्ष वृद्धौ + “द्रु- दक्षिभ्यामिनन् ।” उणां । २ । ५० । इति इनन् ।) दक्षिणोद्भूतः । (दक्षिणदिग्भवः । यथा, रघुः । ४ । ८ । “स हि सर्व्वस्य लोकस्य युक्तदण्डतया मनः । आददे नातिशीतोष्णो नभस्वानिव दक्षिणः ॥” दक्षिणदिक्स्थितः । यथा, मनुः । ५ । ९२ । “दक्षिणेन मृतं शूद्रं पुरद्वारेण निर्हरेत् ॥”) सरलः । (यथा, महाभारते । ४ । ५ । २७ । “दक्षिणां दक्षिणाचारो दिशं येनाजयत् प्रभुः ॥”) परच्छन्दानुवर्त्ती । आरामः । इति मेदिनी णे, ५० ॥ (“दक्षिणः सरलावामपरच्छन्दानुवर्त्तिषु । वाच्यवद्दक्षिणावाटीयज्ञदानप्रतिष्ठयोः ॥” इति विश्ववचनात् । णे, ४५ ॥) दक्षः । अपसव्यम् । इति हेमचन्द्रः ॥ डाहिन इति भाषा । (यथा, मनुः । २ । ६३ । “उद्धृते दक्षिणे पाणावुपवीत्युच्यते द्विजः ॥”) दक्षिणहस्ताप्रदाने दोषो यथा, -- “दक्षहस्ताप्रदाता च सर्पश्च सप्तजन्मसु । ततो भवेद्धस्तहीनो मानवश्च ततः शुचिः ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डम् ॥ * ॥ दक्षिणहस्ते प्रतिग्रहो यथा, -- “ॐकारमुच्चरन् प्राज्ञो द्रविणं शक्तुमोदकम् । गृह्णीयाद्दक्षिणे हस्ते तदन्ते स्वस्ति कीर्त्तयेत् ॥” इत्यादित्यपुराणम् ॥ (प्रदक्षिणः । यथा, भागवते । १ । १४ । १३ । “शस्ताः कुर्व्वन्ति मां सव्यं दक्षिणं पशवोऽपरे । वाहांश्च पुरुषव्याघ्र ! लक्षये रुदतो मम ॥”) पुं, चतुर्धानायकान्तर्गतनायकविशेषः । तस्य लक्षणम् । (यथा, साहित्यदर्पणे । ३ । ४० । “एषु त्वनेकमहिलासु समरागो दक्षिणः कथितः ॥”) यथा च “सकलनायिकाविषयसमसहजानुरागः । अस्योदाहरणं यथा, -- “अन्तःपुरे स्फुरति पद्मदृशां सहस्र- मक्षिद्वयं कथय कुत्र निवेशयामि । इत्याकलय्य नयनाम्बुरुहे निमील्य रोमाञ्चितेन वपुषा स्थितमच्युतेन ॥” इति रसमञ्जरी ॥ * ॥ (तन्तोक्ताचारविशेषे, क्ली । यथा, कुलार्णवे ५ खण्डे । “सर्व्वेभ्यश्चोत्तमा वेदा वेदेभ्यो वैष्णवं महत् । वैष्णवादुत्तमं शैवं शैवाद्दक्षिणमुत्तमम् ॥ दक्षिणादुत्तमं वामं वामात् सिद्धान्तमुत्तमम् । सिद्धान्तादुत्तमं कौलं कौलात् परतरं न हि ॥”)

अमरकोशः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिण स्त्री।

दिङ्नाम

समानार्थक:पूर्व,दक्षिण,पश्चिम,उत्तरा

1।3।1।2।5

दिशस्तु ककुभः काष्ठा आशाश्च हरितश्च ताः। प्राच्यवाचीप्रतीच्यस्ताः पूर्वदक्षिणपश्चिमाः॥

पदार्थ-विभागः : , द्रव्यम्, दिक्

दक्षिण वि।

उदारमनः

समानार्थक:दक्षिण,सरल,उदार

3।1।8।2।1

दुर्मना विमना अन्तर्मनाः स्यादुत्क उन्मनाः। दक्षिणे सरलोदारौ सुकलो दातृभोक्तरि॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिण¦ त्रि॰ दक्ष--इनन्।

१ परच्छन्दानुवर्त्तिनि पराभिप्रा-यानुवर्त्तिनि

२ सरले।

३ दक्षभागस्थे च मेदि॰।

४ अवामे अपसव्ये देहभागभेदे (डाहिन) ख्याते भागेहेमच॰।
“एषु त्वनेकमहिलासु समरागो दक्षिणःक्रथितः” सा॰ द॰ उक्ते

५ नायकभेदे यथा
“स्नातातिष्ठति कुन्तलेश्वरसुना वारोऽङ्गराजस्वसुर्द्यूतै रात्रि-रियं जिता कमलया, देवी प्रासाद्याद्य च। इत्यन्तः पुर-सुन्दरीः प्रति मया विज्ञाय विज्ञापिते देवेनाऽप्रतिप-त्तिमूढमनसा द्वित्राः स्थितं नाडिकाः”। स्वापेक्षया मेरु-गिरितो विप्रकृष्टायां

६ दिशि स्त्री

७ तद्वर्त्तिनि त्रि॰।

८ यज्ञदानान्ते दाने

९ प्रतिष्ठायां स्त्री यज्ञा-द्यन्तदक्षिणानामनिरुक्तिः” शत॰ व्रा॰

२ ।

२ ।

२ ।

२ ।
“स एष यज्ञो हतो न ददक्षे। तं देवा दक्षिणासिरद-क्षयंस्तद्यदेनं दक्षिणाभिरदक्षयंस्तस्माद्दक्षिणा नाम तद्यदे-वात्र यज्ञस्य हतस्य व्यथते तदस्यैतद्दक्षिणाभिर्दक्षयत्यथसमृद्ध एव यज्ञो भवति तस्माद्दक्षिणा ददाति”। दक्षि-णाविशेषनिर्ण्णयः हेमा॰ दा॰ यथा( भविष्यपुराणे
“अदत्तदक्षिणं दानं व्रतञ्चैव नृपोत्तम!। विफलं तद्विजानीयाद्भस्मनीव हुतं हविः”। षट्त्रिंश-न्मतात्
“श्रद्धायुक्तः शुचिर्दान्तो दानं दद्यात् स-दक्षिणम्। अदाक्षणन्तु यद्दानं तत् सर्वं निष्फलंभवेत्”। मैत्रायणीयपरिशिष्टम्
“दक्षिणालाभे मूलानांभक्ष्याणां ददाति न त्वेवं यजेत्”। तथा शतपथ-श्रुतिः
“तस्मान्नादक्षिणं हविः स्यादिति”। भविष्योत्तरे
“काम्यं यद्दीयते किञ्चित्तत्समग्रं सुखावहम्। अस-मग्रन्तु दोषाय भवतीह परत्र च। तस्मान्न दक्षिणाहीनं विधानविकलं न च। देयं दानं महाराज। तमग्रफलकाङ्क्षया। अन्यथा दीयमानं तदपकारायकेवलम्। पत्यक्षतश्चार्थहानिर्न च तत् फलदं भवेत्”। [Page3409-b+ 38] आह भगवान् व्यासः
“सुवर्णं परमं दानं सुवर्णंदक्षिणा परा। सर्वेषामेव दानानां सुवर्णं दक्षिणे-ष्यते। ” एतच्च, विशेषविहितगोवस्त्रादिदक्षिणकदान-वर्जं सामान्यविहितदक्षिणेषु दानेषु व्यवतिष्ठते तत्रापिपरा श्रेष्ठतमेति प्राशस्त्यं दर्शयति न त्वन्यां दक्षिणांनिराचष्टे आनन्त्यांर्थत्वाद्दक्षिणायाः सुवर्णस्य प्रकृष्टत्वात्सर्वदानेषु सुवर्णं दक्षिणेतिवचनार्थः, अन्यदपिपुरुषस्याहारौपयिकं तण्डुलादिकं दक्षिणार्थेन योज्यंयत्तु श्रूयते
“अन्येषाञ्चैव दानानां सुवर्णं दक्षिणास्मृता। सुवर्णे दीयमाने तु रजतं दक्षिणेष्यते” इति तदेतच्छ्रौतस्तैन्यं परिज्ञाय श्रद्धातव्यम्।
“सुवर्णंरजतं ताम्रं तण्डुला धान्यमेव च। नित्यश्राद्धंदेवपूजा सर्वमेव सदक्षिणम्”। स्कन्दपुराणे।
“देय-द्रव्यतृतीयांशं दक्षिणां परिकल्पयेत्। अनुक्तदक्षिणेदाने दशांशं वापि शक्तितः”। तुलापुरुषादिदानानिअधिकृत्य लिङ्गपुराणे
“दक्षिणा च शतञ्चार्द्धंतदर्द्धं वा प्रदापयेत्। ऋत्विजाञ्चैव सर्वेषां दशनिष्कान् प्रदापयेत्”। भविष्यीत्तरे
“ज्ञेयं निष्कशतंपार्थ। दानेषु विधिरुत्तमः। मध्यमस्तु तदर्द्धेन तदर्द्धे-नाधमः स्मृतः। मेष्याञ्च कालपरुषे तथान्येषु महत्-ष्वपि। एवं वृक्षे तथा द्वे च धेनोः कृष्णाजिनस्य च। अशक्तस्यापि कॢप्तोऽयं पञ्चसौवर्णिको विधिः। अतो-ऽप्यल्पेन यो दद्यान्महादानं नराधमः। प्रतिगृह्णाति वातस्य दुःखशोकावहं भवेत्”। जयाभिषेकमुदाहृत्य लिङ्ग-पुराणे
“अष्टषष्टिपलोन्मानं दद्याद्वै दक्षिणां गुरोः। होतॄणाञ्चैव सर्वेषां त्रिंशत्पलमुदाहृतम्। अध्येतॄणांतदर्द्धेन द्वारपानां तदर्द्धतः”। एतेनान्यत्रापि, गुरो-रर्द्धम्, ऋत्विजां तदर्द्धं, जापकानां तदर्द्धं द्वारपा-लानां तदर्द्धमिति दक्षिणाविभागोऽवगन्तव्यः। ” अन्वाअपि दक्षिणाः तत्र तत्रोक्ता वेदितव्याः। यज्ञभेदे दक्षि-णाभेदः कात्या॰ श्रौ॰ सू॰ उक्तः कातीयशब्दे दर्शितप्रायःविशेषतोदृश्यः। सर्वत्र दक्षिणाया अदाने कालविलत्बभेदे{??} दोषा दक्षिणानामनिरुक्तिसहिता उक्ता यथा।
“कार्त्तिक्यां पूर्णिमायान्तु रासे राधामहोत्सवे। आवि-र्भूता दक्षिणांसात् कृष्णस्य तेन दक्षिणा”। यज्ञो दक्षि-णया सार्द्धं पुत्रेण च फलेन च। कर्मिणां फलदात्रीचेत्येवं वेदविदो विदुः। कृत्वा कर्म च तस्यैव तूर्णं दद्याच्चदक्षिणाम्। तत् कर्मफलमाप्नोति वेदैरुक्तमिदं मुने!। [Page3410-a+ 38] कर्त्ता कर्मणि पूर्णे च तत्क्षणं यदि दक्षिणाम्। नदद्याद्व्राह्मणेभ्यश्च दैवेनाज्ञानतोऽथ वा। मुहूर्त्तेसमतीते तु द्विगुणा सा भवेद्ध्रुवम्। एकरात्रे व्यतीतेतु भवेत् शतगुणा च सा। त्रिरात्रे तद्दशगुणा सप्ताहेद्विगुणा ततः। मासे लक्षगुणा प्रोक्ता ब्राह्मणानाञ्चवर्द्धते। संवत्सरे व्यतीते तु सा त्रिकोटीगुणाभवेत्। कर्म तद्यजमानानां सर्वञ्च निष्फलं भवेत्। स चब्रह्मस्वापहारी न कर्मार्होऽशुचिर्नरः। दरिद्रोव्याधियुक्तश्च तेन पापेन पातकी। तद्गृहाद्यातिलक्ष्मीश्च शापं दत्त्वा सुदारुणम्! पितरी नैव गृह्णन्तितद्दत्तं श्राद्धतर्पणम्। एवं सुराश्च तत्पूजां तद्दत्ता-मग्निराहुतिम्। दाता न दीयते दानं ग्रहीता च नयाचते। उभौ तौ नरकं यातश्छिन्नरज्जुर्यथा धटः। नार्पयेद्यजमानश्चेद्याचितृषु च दक्षिणाम्। भवेद्ब्रह्मस्वापहारी कुम्भीपाकं व्रजेद्ध्रुवम्। वर्षलक्षं वसेत्तत्रयमदूतेन ताडितः। ततो भवेत् स चाण्डालो व्याधि-युक्तो दरिद्रकः। पातयेत् पुरुषान् सप्त पूर्वांश्च सप्त-जन्मतः” ब्रह्मवैवर्त्ते प्रकृतिखण्डे। प्राणिरूप-दक्षिणाद्रव्यग्रहणे मन्त्रभेदेनाभिमन्त्रणम् अप्राणिद्रव्य-ग्रहणे तु अभिमर्शनमात्रम् यथाह आश्व॰ श्रौ॰ सू॰

५ ।

१३ ।

१५ ।
“क इदं कस्मा अदात् कामायादात् कामोदाता कामः प्रतिग्रहीता कामं समुद्रमाविश कामेन त्वा-प्रतिगृह्णामि कामैतत्ते वृष्टिरसि द्यौस्त्वा ददातु पृथिवीप्रतिगृह्णात्वित्यतीतास्वनुमन्त्रयेत् प्राणि”। सू॰
“वि-हारदेशमतीत्य नीतेषुदक्षिणाद्रव्येषु तन्मध्ये यत् प्राणि-द्रव्यं तदेतेनानुमन्त्रयते” नारा॰।
“अभिमृशेदप्राणि” सू॰
“तन्मध्ये यदप्राणि तदभिमृशेत् नारा॰। सा चयज्ञपत्नी तथाह
“दक्षिणा यज्ञपत्नी च दीक्षासर्वल पूजिता। यया विनापि विश्वस्य सर्वं कर्मतु निष्फलम्” भाग॰

२९ ।

२ ।

२ ।

२८ ।

१० नायि-काभेदे स्त्री यथा
“या गौरवं भयं प्रेम सद्भावंपूर्वनायके। न मुञ्चत्यन्यसक्तापि सा ज्ञेया दक्षिणा बुधैः” इति विष्णुपु॰ टीकायां स्वामी”

११ विष्णौपु॰।
“अक्रूरःपेशलो दक्षो दक्षिणः दक्षिणाम्बरः” विष्णुस॰। अस्यदिग्देशादिव्यवस्थायामेव सर्वनामता तेन दक्षिणे गा-यकाः अन्यत्र दक्षिणाः (कुशलाः) इत्येव।
“दिशः सपत्नीभव दक्षिणस्याः” रघुः
“दक्षिणीयमवगम्य पङ्क्तिशःपङ्क्तिपावनमथ द्विजव्रजम्। दक्षिणः क्षितिपति-[Page3410-b+ 38] र्व्यशिश्रयद्दक्षिणाः सदसि राजसूयकीः” माघः। अनृतादौ दक्षिणकर्णस्पर्शनं पराशरो विधत्ते।
“क्षुतेनिष्ठीवने चैव दन्तोच्छिष्टे तथाऽनृते। पतितानाञ्चसम्भाषे दक्षिणं श्रवणं स्पृशेत्। ब्रह्मा विष्णुश्च रुद्रश्चसोमः सूर्य्योऽनलस्तथा। ते सर्वे चापि तिष्ठन्ति कर्णेविप्रस्य दक्षिणे”।

१२ आचारभेदे दक्षिणाचारशब्देदृश्यम्।

१३ दक्षिणाग्नौ पु॰
“दक्षिणपश्चिमे दक्षिणम्आश्व॰ गृ॰

४ ।

२ ।

३ ।

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिण¦ mfn. (-णः-णा-णं)
1. Candid, sincere, honest, upright.
2. Right, (not left.)
3. South, southern.
4. Dependent, subject.
5. Clever, able, dexterous. f. (-णा)
1. A present to Brahmans, upon solemn or sacrificial occasions.
2. The south.
3. Completion of any rite, fixing or establishing any act or place.
4. A form or figure of DURGA, in which the right side is said to be advanced.
5. Dona- tion to Brahmans, personified as a goddess, said to be born from KRISHNA'S right side. E. दक्ष् to prosper, &c. Unadi affix इनन् |

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिण [dakṣiṇa], a. [दक्ष्-इनन् Uṇ 2.5.]

Able, skilful, dexterous, competent, clever; इत्यम्बरीषं नाभागिमन्वमोदन्त दक्षिणाः Mb.12.29.12.

Right (opp. वाम).

Situated on the right side. दक्षिणं परि, दक्षिणं कृ to place any one on the right side as a mark of respect; ग्रहर्क्षताराः परियन्ति दक्षिणम् Bhāg.4.12.25.

South, southern; as in दक्षिणवायु, दक्षिणदिक्; आददे नातिशीतोष्णो नभस्वानिव दक्षिणः R. 4.8.

Situated to the south.

Sincere, straightforward, honest, impartial.

Pleasing, amiable.

Courteous, civil.

Compliant, submissive.

Dependent.

Favourable; 'दक्षिणः सरलावामपरच्छन्दानुवर्तिषु' इति विश्वः; Ki.18.27.

णः The right hand or arm.

A civil or courteous person, applied in poetic compositions to a lover who professes attachment to one mistress, while his heart has been entirely taken up by another.

An epithet of Śiva or Viṣṇu.

The right-hand horse of a carriage; इन्द्रस्येव दक्षिणः श्रियैधि Vāj.9.8.

The southern sacred fire.

णः, णम् The right side.

The south; Nala.9.23.

The Deccan. -णम् The highest doctrine of the Śāktas-Comp. -अग्निः the southern fire, the sacred fire placed southwards; also called अन्वाहार्यपचन q. v. -अग्र a. pointing to the south. -अचलः the southern mountain.i. e. Malaya. -अत्ययः a dweller in the south. -अपरa. south-western. -अभिमुख a. facing the south, directed towards the south; Ms.4.5. -अयनम् the sun's progress south of the equator, the half year in which the sun moves from the north to the south, the winter solstice; सर्वे$श्वमेधैरीजानास्ते$ न्वयुर्दक्षिणायनम् Mb. 12.29.13. रात्रिः स्याद्दक्षिणायनम् Ms.1.67; Bhāg.5.21.3.-अरण्यम् Dandakāraṇya.

अर्धः the right hand.

the right or southern side. -आचार a.

honest, well-behaved.

a worshipper of Śakti according to the right hand (or purer) ritual. -आम्नायः the southern sacred text (of the Tāntrikas). -आवर्त a. turning to the right (from the left), (a conch-shell). -आशा the south. ˚पतिः

an epithet of Yama.

the planet Mars.-इतर a.

left (as hand or foot); तमिमं कुरु दक्षिणेतरं चरणं निर्मितरागमेहि मे Ku.4.19.

northern. (-रा) the north.-ईर्मन् a. (a deer) wounded on the right side मृगयुमिव मृगो$थ दक्षिणेर्मा. -उत्तर a. turned or lying to the south and the north. ˚वृत्तम् the meridian line. -कालिका f.

A Tāntrika Deity.

Durgā. -पश्चात् ind. to the southwest. -पश्चिम a. south-western. (-मा) the south-west; जग्मुर्भरतशार्दूल दिशं दक्षिणपश्चिमाम् Mb.17.1.44. -पूर्व, -प्राच् a. south-east. -पूर्वा, -प्राची the south-eastern quarter. -भागः the southern hemisphere. -समुद्रः, -सागरः the southern ocean. -स्थः a charioteer.

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिण mf( आ)n. (also णS3Br. )(declined as a pron. when denoting relative position [" right " or , " southern "] Ka1tyS3r. A1s3vGr2. etc. ; See. Pa1n2. 1-1 , 34 ; vii , 1 , 16 ; but not necessarily in abl. and loc. sg. m. n. [ णेKa1tyS3r. Mn. ii , 63 ] and nom. pl. m. ; except Hariv. 12390 )able , clever , dexterous Pa1n2. 1-1 , 34 Ka1s3. S3atr. ( ifc. )

दक्षिण mf( आ)n. right (not left) RV. AV. VS. etc. ( णं परी-, " to walk round a person with the right side towards him " BhP. iv , 12 , 25 ; मंकृ, " to place any one on the right side as a mark of respect " , i , viii )

दक्षिण mf( आ)n. south , southern (as being on the right side of a person looking eastward) , situated to the south , turned or directed southward AV. VS. etc.

दक्षिण mf( आ)n. coming from south (wind) Sus3r. Ragh. iv , 8

दक्षिण mf( आ)n. (with आम्नाय)the southern sacred text (of the तान्त्रिकs) , Kula7rn2. iii

दक्षिण mf( आ)n. straightforward , candid , sincere , pleasing , compliant MBh. iv , 167 R. S3ak. iv , 18 Sa1h. iii , 35 Prata1par. BrahmaP.

दक्षिण m. the right (hand or arm) RV. i , viii , x TS. v

दक्षिण m. the horse on the , right side of the pole of a carriage , i , x VS. ix , 8

दक्षिण m. शिव

दक्षिण m. or n. the south Nal. ix , 23 R. iv

दक्षिण n. the righthand or higher doctrine of the शाक्तs Kula7rn2. ii

Vedic Rituals Hindi[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिण वि.
दक्षिणी, दाहिना, श्रौ.को (सं) .519; ‘दक्षिणं जान्वाच्य अभिसर्पति’, बौ.श्रौ.सू. 6.3-5; आश्व.श्रौ.सू. 1.1.12.

"https://sa.wiktionary.org/w/index.php?title=दक्षिण&oldid=500118" इत्यस्माद् पुनः प्राप्तिः