दक्षिणाग्नि
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दक्षिणाग्निः, पुं, (दक्षिणः अनुकूलोऽग्निः ।) यज्ञाग्निविशेषः । इत्यमरः । २ । ७ । १९ ॥ दक्षि- णस्या दिशोऽग्निर्दक्षिणाग्निः । इति भरतः ॥ अस्य नामकरणम् । यथा, -- “दत्तासु दक्षिणास्वादौ तृप्तिर्भूत्वा यतोऽमरान् । नयसे दक्षिणाभागं दक्षिणाग्निस्ततोऽभवत् ॥” इति वराहपुराणम् ॥
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दक्षिणाग्नि पुं।
यागवेदिकायाम्_दक्षिणभागे_स्थिताग्निः
समानार्थक:दक्षिणाग्नि
2।7।19।2।1
यूपाग्रं तर्म निर्मन्थ्यदारुणि त्वरणिर्द्वयोः। दक्षिणाग्निर्गार्हपत्याहवनीयौ त्रयोऽग्नयः॥
पदार्थ-विभागः : , इन्धनजम्
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दक्षिणाग्नि¦ पु॰ दक्षिणोऽग्निः। अन्वाहार्य्यपचनाख्ये यज्ञा-ग्निमध्येऽग्निभेदे।
“अन्वाहार्य्यं दक्षिणाग्नावधिश्रयति” कात्या॰ श्रौ॰
२ ।
५ ।
२७
“हीनं यज्ञस्यान्वाहरतीत्यन्वा-हार्य्यः अध्यर्युरन्वाहार्यसंज्ञकं दक्षिणार्थं तण्डुल-रूपमोदनं दक्षिणाग्नावधिश्रयति चतुर्णामृत्विजां[Page3411-b+ 38] तृप्तिर्यावता सम्भाव्यते तत्परिमाणं ततोऽधिकंवान्वाहार्यमोदनं कुर्य्यात्” कर्कः।
“उत्सर्गेऽपराह्णे गार्हपत्यं प्रज्वाल्य दक्षिणाग्निमा-नीय विट्कुलाद्वित्तवतो वैकयोनय इत्येके ध्रियमाणंवा प्रज्वाल्यारणिमन्तं वा मथित्वा गार्हपत्यादाहव-नीयं ज्वलन्तमुद्धरेत्” आश्व॰ श्रौ॰
२ ।
२ ।
१
“उत्सर्गेअजस्रीत्सर्गे अग्निहोत्रहोमार्थं विहरेत् नाजस्रेषु। होमस्त्वजस्रेष्वपि भवतीत्युक्तम्, एवं स्थिते विहरण-सहितमग्निहोत्रहोमप्रयोगं वक्तुकाम उत्सर्ग इत्युक्त-वान्। अत्रापराह्णशब्देन अह्नश्चतुर्थमागो गृह्यते। विहरणकाले गार्हपत्यं प्रादुष्कृत्य प्रज्वाल्य च दक्षि-णाग्निं वैश्यगृहादानयेत्। चतुर्णां वर्णानामन्यतमस्यद्रव्यवतो वा गृहात्, गार्हपत्याद्वा। धार्य्यश्चेत् प्रज्वल-येत्। काले काले यदि निर्मन्यः तदा मन्थेत्। एषांप्रकाराणामुत्पत्तिवशाद्व्यवस्था। तेषामन्यतमप्रकारेणदक्षिणाग्निं साधयित्वा ततो गार्हपत्यात् ज्वलन्तमग्नि-माहवनीयार्थमुद्धरेत् पात्रान्तरेण पृथक् कुर्य्यादित्यर्थः” नारा॰। तस्य स्थापनञ्च नैरृतकोणे
“दक्षिणपश्चिमेदक्षिणम्” आश्व॰ गृ॰
४ ।
१३ । उक्तेः।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दक्षिणाग्नि¦ m. (-ग्निः) One kind of sacred fire. that which is taken from the domestic or consecrated fire, and is placed to the south. E. दक्षिण south, and अग्नि fire.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दक्षिणाग्नि/ दक्षिणा m. the southern fire of the altar (= अन्वाहार्य-पचन) AV. A1s3vS3r. Ka1tyS3r. La1t2y. ChUp. A1s3vGr2. VP. v , 34 BhP. iv.
Purana index
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
--represents the face of the Veda. वा. १०४. ८५.
Purana Encyclopedia
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
DAKṢIṆĀGNI : A strong wind born from the fire Pāñcajanya. (M.B. Vana Parva, Chapter 229, Stanza 6).
_______________________________
*1st word in left half of page 195 (+offset) in original book.