दक्षिणाचारः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणाचारः, पुं, (दक्षिणोऽप्रतिकूल आचारः ।) आचारविशेषः । यथा, -- “स्वधर्म्मनिरतो भूत्वा पञ्चतत्त्वेन पूजयेत् । स एव दक्षिणाचारः शिवोभूत्वा शिवां यजेत् ॥” इत्याचारभेदतन्त्रम् ॥ (एतदाचारोक्तकर्म्मादिकं वामाचारवत् कठोर- तरं न । तथाच काशीराजप्रणीतदक्षिणा- चारतन्त्रे । “दक्षिणाचारतन्त्रोक्तं कर्म्म तच्छुद्धवैदिकम् ॥” दक्षिणोऽनुकूलः साधुराचारो व्यवहारो यस्य । शिष्टाचारविशिष्टे, त्रि । यथा, महाभारते । ४ । ५ । २७ । “दक्षिणां दक्षिणाचारो दिशं येनाजयत् प्रभुः ॥”)

"https://sa.wiktionary.org/w/index.php?title=दक्षिणाचारः&oldid=139341" इत्यस्माद् प्रतिप्राप्तम्