दक्षिणापथजन्मा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणापथजन्मा, [न्] पुं, (दक्षिणा दक्षिणस्यां दिशि यः पन्थाः तत्र जन्म यस्य ।) जाति- विशेषः । यथा, महाभारते । १२ । २०७ । ४२-४५ । “दक्षिणापथजन्मानः सर्व्वे नरवरान्ध्रकाः । गुहाः पुलिन्दाः शवराः चुचुका मद्रकैः सह ॥ उत्तरापथजन्मानः कीर्त्तयिष्यामि तानपि । यौनकाम्बोजगान्धाराः किराता वर्व्वरैः सह ॥ एते पापकृतस्तात ! चरन्ति पृथिवीमिमाम् । श्वपाकवलगृध्रानां सधर्म्माणो नराधिप ! ॥ नैते कृतयुगे तात ! चरन्ति पृथिवीमिमाम् । त्रेताप्रभृति वर्द्धन्ते ते जना भरतर्षभ ! ॥”

"https://sa.wiktionary.org/w/index.php?title=दक्षिणापथजन्मा&oldid=139343" इत्यस्माद् प्रतिप्राप्तम्