दग्ध

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दग्धम्, क्ली, कत्तृणम् । इति रत्नमाला ॥

दग्धः, त्रि, (दह्यते स्म इति । दह + क्तः ।) भस्मीकृतः । पोडा इति भाषा । तत्पर्य्यायः । प्रुष्टः २ प्लुष्टः ३ उषितः ४ । इत्यमरः । ३ । १ । ९९ ॥ (यथा, मनुः । ८ । १८९ । “चौरैर्हृतं जलेनोढमग्निना दग्धमेव वा । न दद्यात् यदि तस्मात् स न संहरति किञ्चन ॥”) “पत्राणामामिषं पर्णम् । गोर्वर्ज्यमामिषं क्षीरं फले जम्बीरमामिषम् । आमिषं रक्तशाकञ्च सर्व्वञ्च दग्धमामिषम् ॥” इति कर्म्मलोचनम् ॥ (म्लानम् । यथा, अमरुशतके । २४ । “रुद्धायामपि वाचि सस्मितमिदं दग्धाननं जायते ॥” चन्द्राश्रितराशिभूलकपारिभाषिकगृहम् । यथा, ज्योतिषतत्त्वे । “मृगसिंहौ तृतीयायां प्रथमायां तुलामृगौ । पञ्चम्यां बुधराशी द्वौ सप्तम्यां चापयन्त्रभे ॥ नवम्यां सिंहकोटाख्यावेकादश्यां गुरोर्गृहे । वृषमीनौ त्रयोदश्यां दग्धसंज्ञास्त्वमी गृहाः । दग्धसद्यनि यत् कर्म्म कृतं सर्व्वं विनश्यति ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दग्ध वि।

दग्धः

समानार्थक:प्रुष्ट,प्लुष्ट,उषित,दग्ध

3।1।99।1।4

प्रुष्टप्लुष्टोषिता दग्धे तष्टत्वष्टौ तनूकृते। वेधितच्छिद्रितौ विद्धे विन्नवित्तौ विचारिते॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दग्ध¦ त्रि॰ दह--क्त। कृतदाहे

१ भस्मीकृते
“दृशा दग्धंमनसिजं जीवयन्ति दृशैव याः” सा॰ द॰।
“सर्वंस्याद् दग्धमामिषम्” कर्मलोचनम्। देहस्वाग्निदाह-भेदाः सुश्रुते उक्ता यथा(
“अत ऊर्द्ध्वमितरथा दग्धलक्षणं वक्ष्यामः। तत्रस्निग्धं रूक्षं वा श्रित्य द्रव्यमग्निर्दहति। अग्निसन्तप्तोहि स्नेहः सूक्ष्मसिरानुसारित्वात्त्वगादीननुप्रविश्याशुदहति। तस्मात् स्नेहदग्धेऽधिका रुजो भवन्ति। तत्रप्लुष्टं दुर्दग्धं सम्यग्दग्धमतिदग्धञ्चेति चतुर्विधमग्नि-दग्धम्। तत्र यद्विवर्णं प्लुष्यतेऽतिमात्रं तत्प्लुष्टम्। यत्रोत्तिष्ठन्ति स्फोटास्तीव्राश्चोषदाहरागपाकवेदनाश्चिरा-च्चोपशाम्यन्ति तद्दुर्दग्धम्। सम्यग्दग्धमनवगाढं ताल-फलवर्णं सुसंस्थितं पूर्वलक्षणयुक्तञ्च। अतिदग्धे मांसा-वलम्बनं गात्रविश्लेषः सिरास्नायुसन्ध्यस्थिव्यापादनमति-मात्रं ज्वरदाहपिपासामूर्च्छाश्चोपद्रवा भवन्ति व्रणश्चास्यक्षिरेण रोहति रूढश्च विवर्णो भवति। तदेतच्चतुर्विध-[Page3419-a+ 38] मग्निदग्धलक्षणमात्मकर्मप्रसाधकं भवति। भवति चात्र। अग्निना कोपितं रक्तं भृशं जन्तोः प्रकुप्यति। ततस्ते-नैव वेगेन पित्तमस्याभ्युदीर्य्यते। तुल्यवीर्य्ये उभे ह्येतेरसतो द्रव्यतस्तथा। तेनास्य वेदनास्तीव्राः प्रकृत्या चविदह्यते। स्फोटाः शीघ्रं प्रजायन्ते ज्वरस्तृष्णा चवर्द्धते” सुश्रु॰। ( तिथिभेदेन युक्ते

२ चन्द्राश्रितराशौ पु॰।
“मृगसिंहौतृतीयायां प्रथमायां तुलामृगौ। पञ्चम्यां बुधराशी द्वौसप्तम्यां चापचन्द्रभे। नवम्यां सिंहकीटाख्यावेकादश्यांगुरोर्गृहे। वृषमीनौ त्रयोदश्यां दग्धसंज्ञास्त्वमीगृहाः। दग्धसद्मनि यत् कर्म कृतं सर्वं विनश्यति” ज्यो॰ त॰।

३ वारभेदेन युक्ते नक्षत्रभेदे न॰।
“याम्यंत्वाष्ट्रं वैश्यदेवं धनिष्ठार्य्यम्णं ज्येष्ठान्त्यं रवेर्दग्धभंस्यात्” ज्यो॰ त॰।

४ वारभेदयुक्ते तिथिभेदे स्त्री
“एकादशीचेन्दुवारे द्वादशी चार्कवासरे। षष्ठी वृहस्पतेर्वारे तृतीयाबुधवासरे। अष्टमी शुक्रवारे च नवमी शनिवासरे। प-ञ्चमी भौमवारे च दग्धयोगाः प्रकीर्त्तिताः” नारदः।
“द्वा-दश्येकादशी नागनौरीस्कन्दवसुष्वपि नवम्यां दग्धयोगा-ख्या भानुवारादितः क्रमात्” वसिष्ठः।

५ सूर्य्यचन्द्राक्रान्त-राशिभेदेन युक्ते तिथिभेदे स्त्री राजमार्त्तण्डे
“द्वितीयामीनधनुषोश्चतुर्थी वृषकुम्भयोः। मेषकर्कटयोः षष्ठी कन्या-मिथुनकेऽष्टमी। दशमी वृश्चिके सिंहे द्वादशी मकरेतुले। आद्या धनुःषु शफरीषु परा द्वितीया एकान्तरेदिनकरे तिथयः प्रदग्धाः। कार्मुके च तथा कुम्भेमेषे युग्ने हरौ घटे। एषु शुक्ला द्वितीयाद्याः दग्धाःकृष्णा झषादिषु। राश्योश्चन्द्रस्य च रवेः स्थित्या वाच्यंफलं बुधैः। याः प्रोक्तास्तिथयो दग्धाः मेषादिषु चराशिषु। शुक्लास्ता विषमे राशौ समे कृष्णाः प्रकी-र्त्तिताः। एभिर्जातो न जीवेत यदि शक्रसमो भवेत्। विवाहे विधवा नारी यात्रायां मरणं भवेत्। निष्फलंकृषित्राणिज्यं विद्यारम्भे च मूर्खता। गृहप्रवेशे भङ्गःस्वाच्चूडायां मरणं ध्रुवम्। ऋणदाने फलं नास्तिव्रतदाने च निष्फले। शुभकर्माणि सर्वाणि नैव कुर्य्या-द्विचक्षणः”। उत्तरराशिषु चन्द्रस्थित्या दग्धायौ व्यक्तत्वंयथा
“षष्ठी मेषकुलीरयोर्हिमकरे कन्यायुगे चाष्टमी सिंहेवृश्चिकराशिगे च दशमी तौलौ मृगे द्वादशी। चापेचाथ झषे द्विका यदि वृषे कुम्भे चतुर्थी यदा दग्धाख्या-स्तिथयो वदन्ति मुनयस्त्याज्या सदा कर्मसु” ज्यो॰ त॰। [Page3419-b+ 38] दग्धादिवस्त्राद्यस्यांशभेदे फलभेदः मु॰ चि॰ उक्तो यथा(
“वस्त्राणां नवभागकेषु च चतुष्कोणेऽमरा राक्षसामध्यत्र्यंशगता नरास्तु सदशे पार्श्वे च मध्याशयोः। दग्धे वा स्फुटितेऽम्बरे नवतरे पङ्कादिलिप्ते न स-द्रक्षोऽंशे, नृसुरांशयोः शुभमसत् सर्वांशके प्रान्ततः” त-दुक्तं श्रीपतिना
“कर्दमकज्जलगोमयलिप्ते वाससि दग्ध-वति स्फुटिते वा। चिन्त्यमिदं नवधाभिहितेऽस्मिन्निष्ट-मनिष्टफलञ्च सुधीभिः। निवसन्त्यमरा हि वस्त्रकोणेमनुजाः पार्श्वदशान्तमध्ययोश्च। अपरेऽपि च रक्षसांत्रयोऽंशे शयने चासनपादुकासु चैवम्। भोगप्राप्तिर्दे-वतांशे, नरांशे पुत्राप्तिः, स्याद्राक्षसांशे च मृत्युः। प्रान्तेसर्वांशेष्वनिष्टं तथा स्यात् प्लुष्टे वस्त्रे नूतने साध्व-साधु”।

६ सूर्य्याधिष्ठितदिशि स्त्री।

७ दग्धरुहायां वृक्षेच स्त्री

८ संतप्ते त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दग्ध¦ mfn. (-ग्धः-ग्धा-ग्धं)
1. Burnt, scorched, consumed by fire.
2. Tasteless.
3. A term of abuse usually prefixed to the word it vilifies. f. (-ग्धा)
1. The quarter where the sun is observable.
2. An epithet of certain lunations, on which it is unlucky to do any thing, and religious rites are prohibited. n. (-ग्धं) A fragrant grass. E. दह् to burn, affix क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दग्ध [dagdha] दग्धिका [dagdhikā], दग्धिका See under दह्. ˚रथः (=चित्ररथः) N. of a Gandharva.

दग्ध [dagdha], p. p. [दह्-क्त]

Burnt, consumed by fire.

(Fig.) Consumed by grief, tormented, distressed; (मही) न शक्यते द्रष्टुमपि प्रवासिभिः प्रियावियोगानलदग्धमानसैः Ṛs.1.1.

Famished.

Inauspicious, as in दग्धयोग.

Dry, tasteless, insipid

Wretched, accursed, vile, (used as a term of abuse before a word); नाद्यापि मे दग्धदेहः पतति U.4; अस्य दग्धोदरस्यार्थे कः कुर्यात् पातकं महत् H.1.68; so दग्धजठरस्यार्थे Bh.3.8.

Cunning (विदग्ध).

ग्धा The quarter where the sun remains overhead.

A lunar day or तिथि on which it is considered inauspicious or unlucky to do any act.

ग्धम् Burning; Mb. 12.33.6.

Cauterizing. -Comp. -काकः a raven.-जठरम् the hungry stomach; Bh.3. -व्रणः a burn, singe.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दग्ध mfn. ( दह्)burnt , scorched , consumed by fire AV. iv , xviii Ka1tyS3r. Mn. etc.

दग्ध mfn. tormented , pained , consumed by grief or hunger , distressed R2itus. i , 10 Amar. 24 Ra1jat.

दग्ध mfn. dry , insipid S3iksh.

दग्ध mfn. inauspicious , PSarv.

दग्ध mfn. miserable , execrable Das3. vii , 290 Ka1d.

दग्ध n. cauterisation(See. अग्नि-) Sus3r. i , 11 f.

दग्ध n. ( scil. तिथि)N. of certain inauspicious days

दग्ध n. = -रुहाL.

"https://sa.wiktionary.org/w/index.php?title=दग्ध&oldid=415055" इत्यस्माद् प्रतिप्राप्तम्