दग्धा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दग्धा, स्त्री, (दह्यते स्म इव या । दह + क्तः । ततष्टाप् ।) स्थितार्का दिक् । इति मेदिनी । रे, ७ ॥ वृक्षविशेषः । कुरुह इति ख्यातः ॥ तत्पर्य्यायः । दग्धरुहा २ दग्धिका ३ स्थले- रुहा ४ रोमशा ५ कर्कशदला ६ भस्मरोहा ७ सुदग्धिका ८ । अस्या गुणाः । कटुत्वम् । कषायत्वम् । उष्णत्वम् । कफवातनाशित्वम् । पित्तप्रकोपनत्वम् । जठरानलदीपनत्वञ्च । इति राजनिर्घण्टः ॥ * ॥ मासदग्धा यथा, -- सौरचैत्रपौषयोर्द्वितीया एवं ज्यैष्ठफाल्गुनयोश्चतुर्थी वैशाखश्रावणयोः षष्ठी आषाढाश्विनयोरष्टमी भाद्राग्रहायणयोर्दशमी कार्त्तिकमाघयोर्द्वादशी । अस्याः प्रमाणं यथा, “द्वितीया मीनधनुषोश्चतुर्थी वृषकुम्भयोः । मेषकर्कटयोः षष्ठी कन्यामिथुनकेऽष्टमी ॥ दशमी बृश्चिके सिंहे द्वादशी मकरे तुले । एभिर्यातो न जीवेत यदि शक्रसमो भवेत् ॥” अस्याः प्रतिप्रसवो यथा, वैशाखे शुक्ला षष्ठी ज्यैष्ठे कृष्णा चतुर्थी आषाढे शुक्लाष्टमी श्रावणे कृष्णा षष्ठी भाद्रे शुक्ला दशमी आश्विने कृष्णा- ष्टमी कार्त्तिके शुक्ला द्वादशी अग्रहायणे कृष्णा दशमी पौषे शुक्ला द्वितीया माघे कृष्णा द्वादशी फाल्गुने शुक्ला चतुर्थी चैत्रे कृष्णा द्वितीया । एतत्प्रमाणं यथा, -- “मेषे दिनेशे नृयुगे मृगेन्द्रे यूके धनुःस्थे कलसे च शुक्ला । कुलीरकन्यालिमृगास्यमीन- वृषेषु कृष्णास्तिथयः प्रदग्धाः ॥” * ॥ दिनदग्धा यथा, -- रविवारे द्बादशी सोमे एका- दशी मङ्गले दशमी बुधे तृतीया बृहस्पतौ षष्ठी शुक्रे पञ्चदशी शनौ सप्तमी । एतत्प्रमाणं यथा, “मासा रुद्रा दिशो रामाः षट्पक्षमुनयस्तथा । दह्यन्ते तिथयः सप्त सूर्य्याद्यैः सप्तसप्तभिः ॥” इति ज्योतिःसारसंग्रहः ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दग्धा f. (soil. दिश्)the quarter where the sun remains overhead L.

"https://sa.wiktionary.org/w/index.php?title=दग्धा&oldid=415086" इत्यस्माद् प्रतिप्राप्तम्