दण्डिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दण्डी, [न्] पुं, (दण्डोऽस्त्यस्येति । दण्ड + “अत- इनिठनौ ।” ५ । २ । ११५ । इति इनिः ।) जिनविशेषः । इति त्रिकाण्डशेषः ॥ (स तु कवी- नामन्यतमः काव्यादर्शदशकुमारचरितादिग्रन्थ- प्रणेता । शङ्कराचार्य्यसमकालीनोऽयम् । यथा, शङ्करविजये । १५ । १४० । “स कथाभिरवन्तिषु प्रसिद्धान् विबुधान् बाणमयूरदण्डिमुख्यान् । शिथिलीकृतदुर्म्मताभिमानान् निजभाष्यश्रवणोत्सुकांश्चकार ॥”) यथा, कालिदासः । “जाते जगति वाल्मीके कविरित्यभिधीयते । कवी इति ततो व्यासे कवयस्त्वयि दण्डिनि ॥” दमनकवृक्षः । इति राजनिर्घण्टः ॥ यमः । (यथा, महाभारते । १ । १९० । १७ । “तं वृक्षमादाय रिपुप्रमाथी दण्डीव दण्डं पितृराज उग्रम् ॥”) द्बाःस्थः । चतुर्थाश्रमी । (अस्य व्यवहारादिकं यदुक्तं मनौ । ६ । ४१-५८ । येयुः इति साम्प्रदायिकाः ॥ एतेषां काशी एव प्रधानतमं वासस्थानम् ॥ * ॥ महादेवः । यथा, महाभारते । १३ । १७ । १२९ । “मुण्डोविरूपो विकृतो दण्डी कुण्डी विकुर्व्वणः ॥” योगाचार्य्यविशेषः । यथा, शिवपुराणे वायु- संहितायाम् । उत्तरभागे । १० । ५ । श्रीकृष्ण उवाच । “युगावर्त्तेषु सर्व्वेषु योगाचार्य्यच्छलेन तु । अवताराणि शर्व्वस्य शिष्यांश्च भगवन् ! वद ॥” उपमन्युरुवाच । “महाकालश्च शूली च दण्डी मुण्डी स एव च ॥” धृतराष्ट्रपुत्त्राणामेकतमः । यथा, महाभारते धृतराष्ट्रपुत्त्रनामकथने । १ । ६७ । १०२ । “निषङ्गी कवची दण्डी दण्डधारो धनुर्ग्रहः ॥” दण्डीत्यत्र पाशीति केचित् ॥) दण्डयुक्ते त्रि । इति हेमचन्द्रः । ३ । ३८५ ॥ (यथा, महा- भारते । १३ । १४ । ३७४ । “दण्डी मुण्डी कुशी चीरी घृताक्तोमेखलीकृतः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दण्डिन्¦ पु॰ दण्ड + अस्त्यर्थे इनि।

१ यमे, हेमच॰

२ नृपे

३ द्वारपाले,

४ मञ्जुघाषे,

५ रवेः पार्श्वचरभेदे, शब्दार्थचि॰

६ जिनभेदे, त्रिका॰

७ दमनकवृक्षे, राजनि॰

८ चतुर्थाश्र-गविशिष्टे, काव्यादर्शग्रन्थकर्त्तरि

९ कविभेदे च।
“जातेजगति वाल्मीके कविरित्यभिधीयते। कवी इति ततोव्यासे कवयस्त्वयि दण्डिनि” उद्भटः।

१० दण्डधारकेत्रि॰। स्त्रियां ङीप्।

११ महादेवे पु॰।
“दण्डिने सोमक-र्णाय दण्डिदण्डाय वै नमः” भा॰ शा॰

२८

५ अ॰। दण्डिदण्डोऽपि शिवे
“गुह्यकेशनखश्मश्रुः पात्री दण्डीकुसुम्भवान्”

१२ धृतराष्ट्रपुत्रभेदे दण्डधारशब्दे दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दण्डिन्¦ mfn. (-ण्डी-ण्डिनी-ण्डि) Having a staff or stick. m. (-ण्डी)
1. A door- keeper, a warder, a porter, a staff or mace-bearer.
2. A name of YAMA.
3. A man of the fourth order or beggar.
4. A mendicant carrying a staff.
5. A mendicant of a particular order, derived from SANKARACHARYA.
6. A Jina or Jaina saint. E. दण्ड a staff, &c. and इनि aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दण्डिन् [daṇḍin], a. [दण्ड-अस्त्यर्थे इनि] Bearing or having a staff; न शक्या धर्मतो हन्तुं कालेनापीह दण्डिना Mb.9.61.66. -m.

A Brāhmaṇa of the fourth order, a Samnyāsin,

A door-keeper, porter.

An oarsman.

A Jaina ascetic.

An epithet of Yama.

A king.

A religious mendicant (Bhikṣu).

An epithet of Śiva.

N. of a poet, author of the Kāvyādarśa and Daśakumāracharita; जाते जगति वाल्मीके कविरित्यभिधा$भवत् । कवि इति ततो व्यासे कवयस्त्वयि दण्डिनि ॥ Udb. -Comp. -मुण्डः an epithet of Śiva.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दण्डिन् mfn. ( Pa1n2. 5-2 , 115 Ka1s3. )carrying a stick S3Br. xiii Ka1tyS3r. S3a1n3khS3r. Mn. etc.

दण्डिन् m. a Brahman in the 4th stage of his life(= ट्रि-) Ka1lid.

दण्डिन् m. N. of an order of ascetics founded by शंकरा-चार्यW.

दण्डिन् m. a door-keeper , policeman Nal. iv , 25 Ka1d. i , 225

दण्डिन् m. an oarsman W.

दण्डिन् m. यमKa1m. ii , 36

दण्डिन् m. मञ्जु-श्रीL.

दण्डिन् m. ( g. नडा-दि)N. of a son of धृत-राष्ट्रMBh. i , 2738

दण्डिन् m. of a door-keeper of the Sun R. vii , 23 , 2 , 9 and 11

दण्डिन् m. of the author of Das3. Ka1vya7d. and some 3rd work

दण्डिन् m. Artemisia Abrotanum L.

दण्डिन् m. pl. N. of a family Pravar. ii , 2 , 2.

"https://sa.wiktionary.org/w/index.php?title=दण्डिन्&oldid=282439" इत्यस्माद् प्रतिप्राप्तम्