दन्तवक्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दन्तवक्र¦ पु॰ करूषाधिपे द्वापरयुगोद्भवे हिरण्यकशिपोरव-ताररूपे नृपभेदे
“हिरण्यकशिपुर्योऽसौ दैत्यराजोऽभवत्पुरा। पृथुकीर्त्त्यां तु संजज्ञे तनयो वृद्धशर्भणः। करू-षाधिपतिर्वीरो दन्तवक्रो महाबलः” हरिवं॰

३५ अ॰।
“अधिराजाधिपञ्चैव दन्तवक्रं महाबलम्। जिगाय कर-दञ्चैव कृत्वा राज्ये न्यवेशयत्” भा॰ स॰

३० अ॰। सहदेव-दक्षिणदिग्विजयोक्तौ
“द्वारवत्यां निवसता यदुसिंहेन तेनवै” इत्युपक्रमे
“दन्तवक्रश्च कारूषो निहतो दक्षिणापथे” हरिवं॰

१७

३ अ॰। द्वारकावासकाले कृष्णेन बधो वर्णितः।
“मातृष्वस्रेयोवश्चैद्यो दन्तवक्रश्च पाण्डव!। पार्षदप्रवरौविष्णोर्विप्रशापात् पदच्युतौ” भाग॰

७ ।

१ ।

३२ इत्युपक्रमेहिरण्याक्षादिजन्मनाशोक्त्यनन्तरम्
“तावेव क्षत्रियौजातौ मातृष्वस्रात्मजौ तव। अधुना शापनिर्मुक्तौकृष्णचक्रहतांहसौ”।

४४
“कृष्णोऽपि तमहन् गुर्व्याकौमोदक्या स्तनान्तरे। गाढनिर्भिन्नहृदय उद्वमन् रुधिरंमुखात्। प्रसार्य्य केशान् बाह्वङ्घ्रीन् धरण्यां न्यपतद्व्यसुः। ततः सूक्ष्मतरं ज्योतिः कृष्णमाविशदद्भुतम्” भाग॰

१० ।

७७ ।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दन्तवक्र/ दन्त--वक्र m. N. of a करूषprince (also called वक्रदन्तand वक्र; described as a दानवor असुर) MBh. if. Hariv. VP. iv , 14 , 11 ; v , 26 , 7 BhP. iii., vii , ix Va1yuP. ii , 34 , 145 BrahmaP. Ka1m.

"https://sa.wiktionary.org/w/index.php?title=दन्तवक्र&oldid=283706" इत्यस्माद् प्रतिप्राप्तम्