दम

विकिशब्दकोशः तः
Jump to navigation Jump to search

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दम, भ य उ इर् शमे । इति कविकल्पद्रुमः ॥ (दिवां- परं-अकं-सकञ्च-सेट् । उदित्वात् क्त्वावेट् ।) भ य, दाम्यति । उ, दमित्वा दान्त्वा । इर्, अदमत् अदमीत् । अस्मात् पुषादित्वात् नित्यं ङ इत्यन्ये । शमः शान्तीभावः । दाम्यति मुनिः । शम इतिपदस्य ञ्यन्तस्यापि सम्भवे शान्ती- करणेऽप्ययमिति धातुप्रदीपः । दमित्वाप्यरि- सङ्घातान् । इति दुर्गादासः ॥

दमः, पुं, (दमनमिति । दम + भावे घञ् । “नो- दात्तोपदेशस्येति ।” ७ । ३ । ३४ । इति वृद्ध्य- भावः ।) दण्डः । इत्यमरः । २ । ८ । २१ ॥ दण्डस्य लक्षणं यथा, -- “दमनाद्दण्डनाच्चैव तस्माद्दण्डं विदुर्ब्बुधाः । यत्र श्यामो लोहिताक्षो दण्डश्चरति निर्भयः । प्रजास्तत्र न मुह्यन्ति नेता चेत् साधु पश्यति ॥” इति मत्स्यपुराणम् ॥ (यथा, मनुः । ८ । १९२ । “निक्षेपस्यापहर्त्तारं तत्समं दापयेत् दमम् ॥”) तपःक्लेशसहिष्णुता । तत्पर्य्यायः । दान्तिः २ दमथः ३ । इत्यमरः । ३ । २ । ३ ॥ दमनम् । तत्तु वाह्येन्द्रियनिग्रहः । इति वेदान्तसारः ॥ विषयाद्व्यावृत्तस्य मनसो यथेष्टविनियोगयोग्यता । इति केचित् ॥ दमस्य लक्षणं यथा, -- “कुत्सितात् कर्म्मणो विप्र ! यच्च चित्तनिवारणम् । स कीर्त्तितो दमः प्राज्ञैः समस्ततत्त्वदर्शिभिः ॥” इति पाद्मे क्रियायोगसारः ॥ (यथा, मनुः । ६ । ९२ । “धृतिःक्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः । धीर्विद्या सत्यमक्राधा दशकं धर्म्मलक्षणम् ॥”) कर्द्दमः । इति मेदिनी । मे, १४ ॥ (गृहम् । इति निघण्टुः । ३ । ४ ॥ यथा, ऋग्वेदे । १ । ७५ । ५ । “अग्ने यक्षि स्वं दमम् ॥” महर्षिविशेषः । यथा, महाभारते । १३ । २६ । ५ । “विश्वामित्रः स्थूलशिराः सम्बर्त्तः प्रमतिर्दमः ॥” मरुत्तस्य राज्ञः पुत्त्रः । यथा, भागवते । ९ । २ । २९ । “मरुत्तस्य दमः पुत्त्रस्तस्यासीद्राजवर्द्धनः ॥” मरुत्तस्य पौत्त्रः । इति मार्कण्डेयपुराणम् । यथा तत्रैव । १३४ । १ -- ५ । “एवं स राजा धर्म्मात्मा नरिष्यन्तोऽभवत् पुरा । मरुत्ततनयो विप्र ! विख्यातबलपौरुषः ॥” “नरिष्यन्तस्य तनयो दुष्टारिदमनो दमः । शक्रस्येव बलं तस्य दयाशीलं मुनेरिव ॥ वाभ्रव्यामिन्द्रसेनायां स जज्ञे तस्य भूभृतः । नववर्षाणि जठरे स्थित्वा मातुर्महायशाः ॥ यद्ग्राहयामास दमं मातरं जठरे स्थितः । दमशीलश्च भविता यतश्चायं नृपात्मजः ॥ ततस्त्रिकालविज्ञानः स हि तस्य पुरोहितः । दम इत्यकरोत् नाम नरिष्यन्तसुतस्य तु ॥ स दमो राजपुत्त्रस्तु धनुर्व्वेदमशेषतः । जगृहे नरराजस्य सकाशाद्वृषपर्व्वणः ॥” अस्य विशेषविवरणन्तु तत्रैवाध्याये विशेषतो द्रष्टव्यम् ॥ भीमस्य राज्ञः पुत्त्रविशेषः । यथा, महाभारते । ३ । ५३ । ९ । “कन्यारत्नं कुमारांश्च त्रीनुदारान् महायशाः । दमयन्तीं दमं दान्तं दमनञ्च सुवर्च्चसम् ॥” विष्णुः । यथा, तत्रैव । १३ । १४९ । १०५ । “धनुर्धरो धनुर्व्वेदो दान्तो दमयिता दमः ॥”)

अमरकोशः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दम पुं।

दण्डः

समानार्थक:साहस,दम,दण्ड,काण्ड,अत्यय,औशीर

2।8।21।1।2

साहसं तु दमो दण्डः साम सान्त्वमथो समौ। भेदोपजापावुपधा धर्माद्यैर्यत्परीक्षणम्.।

 : द्विगुणदण्डः

पदार्थ-विभागः : , क्रिया

दम पुं।

तपःक्लेशसहनम्

समानार्थक:दान्ति,दमथ,दम

3।2।3।1।6

शमथस्तु शमः शान्तिर्दान्तिस्तु दमथो दमः। अवदानं कर्म वृत्तं काम्यदानं प्रवारणम्.।

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दम¦ शमे दण्डे च दिवा॰ शमा॰ अक॰ सेट्। दाम्यति[Page3468-b+ 38] अदमत्--अदमीत् ददाम देमतुः। णिच् दमयति तेअदिदमत् त ट्वित् दमथुः दमितः दान्तः। उदित्दमित्वा दान्त्वा।
“यमो दाम्यति राक्षसान्”
“जानु-भ्यामदमच्चान्यान्”
“दमित्वाप्यरिसंघातान्”
“अदान्तांस्त्रिदशैरपि” भट्टिः। दमः दम्यः दमनः।

दम¦ पु॰ दम--भावे घञ्।

१ दण्डे,

२ बाह्येन्द्रियाणां स्वस्व-विषयेभ्यो निवर्त्तने,
“निग्रहो बाह्यवृत्तीनां दमइत्यभिधीयते” इत्युक्ते वाह्येन्द्रियव्यापाररोधे, विका-रहेतुसन्निधानेऽपि

३ मनसः स्थैर्य्ये,
“कुत्सितात् कर्मणोविप्र! यच्च चित्तनिवारणम्। स कीर्त्तितो दम” इत्युक्ते

४ कुकर्मभ्यो मनसो निवारणे,

५ कर्दमे, मेदि॰

६ दमने च।

६ भीमनृपपुत्रभेदे दमयन्तीशब्दे दृश्यम्।

७ विष्णौ पु॰ दमयितृशब्दे दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दम¦ r. 4th cl. (इर, उ) इरदमु (दाम्यति)
1. To tame or subject as an enemy to quiet or pacify, to tranquilize.
2. To be tamed or tranquilized. दिवा० प० अक० सेट् |

दम¦ m. (-मः)
1. Punishing, chastisement, punishment.
2. Taming, sub- duing.
3. Self-command, endurance of the most painful austerities.
4. Self-restraint, subduing the senses, suppressing the appetites, passions, &c.
5. Mud, mire.
6. (In the Vedas,) The hall of sacri- fice. E. दम् to tame or subdue, affix भावे घञ् |

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दमः [damḥ], [दम् भावे घञ्]

Taming, subduing.

Selfcommand, subduing or curbing the passions, selfrestraint; Mb.1.1.2; Bg.1.4; (निग्रहो बाह्यवृत्तीनां दम इत्यभिधीयते).

Drawing the mind away from evil deeds or curbing its evil propensities; (कुत्सितात्कर्मणो विप्र यच्च चित्तनिवारणं स कीर्तितो दमः).

Firmness of mind,

Punishment, fine; चिकित्सकानां सर्वेषां मिथ्या प्रचरतां दमः Ms.9.284,29;8.293; Y.2.4; Bhāg.1.18.41.

Mire, mud.

Viṣṇu.

N. of a brother of Damayantī.

दमः [damḥ] मम् [mam], मम् Ved.

A house, home; दमेदमे समिधम् Vāj.8.24.

The immates of a house. -Comp. -कर्तृm. a lord, ruler. -घोषः N. of a king, father of शिशुपाल. q. v.

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दम m. (or n. )house , home (? , Lat. domus) RV. AV. vii (also पुरु-दमSee. ) VS. viii , 24

दम mfn. ifc. " taming , subduing "See. अरिं-, गं-बलिं-

दम m. self-command , self-restraint , self-control S3Br. xiv , 8 , 2 , 4 ( म, but See. Pa1n2. 7-3 , 34 Ka1s3. ) TUp. KenUp. Mn. etc.

दम m. taming L.

दम m. punishment , fine , viii f. Ya1jn5. ii , 4 BhP.

दम m. N. of a brother of दमयन्तीNal. i , 9

दम m. of a मह-र्षिMBh. xiii , 1762

दम m. of a son of दक्ष, i Sch.

दम m. of a grandson [or son BhP. ix , 2 , 29 ] of मरुत्तVP. iv , 1 , 20 Ma1rkP. cxxxiv Va1yuP.

दम m. See. दुर्-, सु-.

Purana index[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of Marutta, and father of राज्य- vardhana. भा. IX. 2. २९.
(II)--a son of क्रिया. Br. II. 9. ६०.
(III)--a सुधामान God. Br. II. ३६. ३७.
(IV)--a god of the आभूतरय group. Br. II. ३६. ५५.
(V)--a वैकुण्ठ God. Br. II. ३६. ५७.
(VI)--a son of नरिष्यन्त, a दण्डधर and father of विक्रान्त. (राष्त्रवर्धन-ब्र्। प्।; Rajavardhana- वि। प्।). Br. III. ६१. 8; वा. ८६. १२; Vi. IV. 1. ३६.
(VII)--an आर्षेय pravara of भार्गवस्. M. १९५. ३६.
(VIII)--a son of मणिवर. वा. ६९. १६०.
(IX)--a Mukhya गण. वा. १००. १८.
(X)--a son of रिष्यन्त. वा. ७०. ३०. [page२-073+ ३२]

Purana Encyclopedia[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


DAMA I : The brother of Damayantī. No other informa- tion about Dama is available in the Purāṇas.


_______________________________
*3rd word in right half of page 195 (+offset) in original book.

DAMA II : A hermit. He was one of the hermits who came to visit Bhīṣma when he was lying on the bed of arrows. (M.B. Anuśāsana Parva, Chapter 26, Stanza 4).


_______________________________
*4th word in right half of page 195 (+offset) in original book.

DAMA : See Śaṁbara.


_______________________________
*5th word in right half of page 195 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Dama, ‘house,’ is a word that occurs several times in the Rigveda.[१] It denotes, according to Roth,[२] the place in which a man wields uncontrolled power (from the root dam, ‘control’).

  1. i. 1, 8;
    61, 9;
    75, 5;
    143, 4;
    ii. 1, 2, etc.;
    Vājasaneyi Saṃhitā, viii. 24.
  2. St. Petersburg Dictionary, s.v. But this seems very doubtful in view of the apparent connexion of and , ‘build,’ in Greek.
"https://sa.wiktionary.org/w/index.php?title=दम&oldid=500147" इत्यस्माद् पुनः प्राप्तिः